अध्यायः 033

युधिष्ठिरेण दुर्योधनम्प्रति स्वेष्वन्यतमपराजयेनापि तस्य राज्यप्राप्तिवचने कृष्णेन तम्प्रति सकोपं भीमेनापि दुर्योधनपराजये स्वस्य संशयोक्तिः ॥ 1 ॥ भीमेन कृष्णम्प्रति स्वसामर्थ्यप्रकथनपूर्वकं स्वेन दुर्योधनवधस्य सुकरत्वे कथिते कृष्णादिभिस्तत्प्रशंसनम् ॥ 2 ॥ भीमदुर्योधनयोर्वीरवादपुर्वकं युद्धोद्यमः ॥ 3 ॥

सञ्जय उवाच । 001
एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः । 001a
युधिष्ठिरस्य सङ्क्रुद्धो वासुदेवोऽब्रवीदिदम् ॥ 001c
यदि नाम ह्ययं यूद्धे वरयेत्त्वां युधिष्ठिर । 002a
अर्जुनं नकुलं चैव सहदेवमथापि वा ॥ 002c
किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम् । 003a
एकमेव निहत्याजौ भव राजा कुरुष्विति ॥ 003c
एतेन हि कृता योग्या वर्षाणीह त्रयोदश । 004a
आयसे पुरुषे राजन्भीमसेनजिघांसया ॥ 004c
कथं नाम भवेत्कार्यमस्माद्धि भरतर्षभ । 005a
साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम ॥ 005c
नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे । 006a
ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः ॥ 006c
तदिदं द्यूतमारब्धं पुनरेव यथा पुरा । 007a
विषमं शकुनेश्चैव तव चैव विशेषतः ॥ 007c
बली भीमः समर्थश्च कृती राजा सुयोधनः । 008a
बलवान्वा कृती वेति कृती राजन्विशिष्यते ॥ 008c
सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः । 009a
न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम् ॥ 009c
कोऽनु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा । 010a
[कृच्छ्रप्राप्तेन च तथा हारयेद्राज्यमागतम् ।] 010c
पातितश्चैकबाणेन शोचयेदेवमाहवे ॥ 010e
न हि पश्यामि तं लोके योऽद्य दुर्योधनं रणे । 011a
गदाहस्तं विजेतुं वै शक्तः स्यादमरोपि हि ॥ 011c
फल्गुनो वा भवान्वाथ माद्रीपुत्रावथापि वा । 012a
न समर्थानहं मन्ये गदाहस्तस्य संयुगे ॥ 012c
न त्वं भीमो न नकुलः सहदेवोऽथ फल्गुनः । 013a
जेतुं न्यायेन शक्तो वै कृती राजा सुयोधनः ॥ 013c
स कथं वदसे शत्रुं युध्यस्व गदयेति हि । 014a
एकं च नो निहत्याजौ भव राजेति भारत ॥ 014c
वृकोदरं समासाद्य संशयो वै जये हि नः । 015a
न्यायतो युध्यमानानां कृती ह्येष महाबलः ॥ 015c
[नूनं न राज्यभागेषा पाण्डोः कुन्त्याश्च सन्ततिः । 016a
अत्यन्तवनवासाय सृष्टा भैक्ष्याय वा पुनः ॥] 016c
भीमसेन उवाच । 017
मधुसूदन माकार्षीविषादं यदुनन्दन । 017a
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम् ॥ 017c
अहं सुयोधनं सङ्ख्ये हनिष्यामि न संशयः । 018a
विजयो वै ध्रुवः कृष्ण धर्मराजस्य दृश्यते ॥ 018c
अध्यर्धेन गुणेनेयं गदा गुरुतरी मम । 019a
न तथा धार्तराष्ट्रस्य माकार्षीर्माधव व्यथाम् ॥ 019c
अनया गदया चाहं संयुगे योद्धुमुत्सहे । 020a
भवन्तः प्रेक्षकाः सर्वे मम सन्तु जनार्दन ॥ 020c
सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि । 021a
योधयेयं रणे कृष्ण किमुताद्य सुयोधनम् ॥ 021c
सञ्जय उवाच । 022
तथा सम्भाषमाणं तु वासुदेवो वृकोदरम् । 022a
हृष्टः सम्पूजयामास वचनं चेदमब्रवीत् ॥ 022c
त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः । 023a
निहतारिः स्वकां दीप्तां श्रियं प्राप्नोत्यसंशयम् ॥ 023c
त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे । 024a
राजानो राजपुत्राश्च नागाश्च विनिपातिताः ॥ 024c
कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा । 025a
त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन ॥ 025c
हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम् । 026a
धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः ॥ 026c
त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति । 027a
त्वमस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पालयिष्यसि ॥ 027c
यत्नेन ह त्वया पापो योद्धव्यो धृतराष्ट्रजः । 028a
कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा ॥ 028c
ततस्तु सात्यकी राजन्पूजयामास पाण्डवम् । 029a
विविधाभिश्च तं वाग्भिर्भीमसेनं जनेश्वर ॥ 029c
पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः । 030a
तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन् ॥ 030c
ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत् । 031a
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥ 031c
अहमेतेन सङ्गम्य संयुगे योद्धुमुत्सहे । 032a
न हि शक्तो रणे जेतुं मामेष पुरुषाधमः ॥ 032c
अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम् । 033a
सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः ॥ 033c
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् । 034a
निहते गदया पापे अद्य राजन्सुखी भव ॥ 034c
अद्य कीर्तिमयीं मालां प्रितमोक्ष्ये तवानघ । 035a
प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः ॥ 035c
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् । 036a
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥ 036c
इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान् । 037a
उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ॥ 037c
[तदाह्वानममृष्यन्वै तव पुत्रोऽतिवीर्यवान् । 038a
प्रत्युपस्थित एवाशु मत्तो मत्तमिव द्विपम् ॥ 038c
गदाहस्तं तव सुतं युद्धाय समुपस्थितम् । 039a
ददृशुः पाण्डवाः सर्वे कैलासमिव शृङ्गिणम्] ॥ 039c
तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम् । 040a
वियूथमिव मातङ्गं समहृष्यन्त पाण्डवाः ॥ 040c
[न सम्भ्रमो न च भयं न च ग्लानिर्न च व्यथा । 041a
आसीद्दुर्योधनस्यापि स्थितः सिंह इवाहवे] ॥ 041c
समुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् । 042a
भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत् ॥ 042c
राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम् । 043a
स्मर तद्दुष्कृतं कर्मं यद्भूतं वारणावते ॥ 043c
द्रौपदी च परामृष्टा समामध्ये रजस्वला । 044a
द्यूते च वञ्चितो राजा शकुनेर्बुद्धिलाघवात् ॥ 044c
यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि । 045a
अनागःसु च पार्थेषु तस्य पश्य महत्फलम् ॥ 045c
त्वत्कृते निहतः शेते शरतल्पे महायशाः । 046a
गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः ॥ 046c
हतो द्रोणश्च कर्णश्च हतः शल्यः प्रतापवान् । 047a
वैराग्नेरादिकर्ता च शकुनिर्निहतो रणे ॥ 047c
भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः । 048a
राजानश्च हताः शूराः समरेष्वनिवर्तिनः ॥ 048c
एते चान्ये च निहता बहवः क्षत्रियर्षभाः । 049a
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ॥ 049c
अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः । 050a
त्वामप्यद्य हनिष्यामि गदया नात्र संशयः ॥ 050c
अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप । 051a
राज्याशां विपुलां चापि पाण्डवेषु च दुष्कृतम् ॥ 051c
दुर्योधन उवाच । 052
किं कत्थितेन बहुना युध्यस्वाद्य मया सह । 052a
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर ॥ 052c
किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम् । 053a
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम् ॥ 053c
गदिनं कोऽद्य मां पाप हन्तुमुत्सहते रिपुः । 054a
न्यायतो युध्यमानश्च देवेष्वपि पुरन्दरः ॥ 054c
मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम् । 055a
दर्शयस्व बलं युद्धे यावन्नासून्निहन्मि ते ॥ 055c
तस्य तद्वचनं श्रुत्वा पाण्डवाः सहसृञ्जयाः । 056a
सर्वे सम्पूजयामासुस्तद्वचो विजिगीषवः ॥ 056c
उन्मत्तमिव मातङ्गं तलशब्देन मानवाः । 057a
भूयः संहर्षयामासू राजन्दुर्योधनं द्विषः ॥ 057c
बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् । 058a
शस्त्राणि सम्प्रदीप्यन्ते पाण्डवानां जयैषिणाम् ॥ ॥ 058c

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥

9-33-4 योग्या अभ्यासः । योग्यः प्रवीणेत्याद्युपक्रम्य स्त्र्यभ्यासार्कयोषितोरिति मेदिनी ॥ 9-33-7 शकुनेश्च तव च यथापुरा तथैवेदमिति सम्बन्धः ॥ 9-33-10 पणित्वा चैकपाणेन रोचयेदेव माहवम् इति झ.पाठः ॥