अध्यायः 032

युधिष्ठिरकटुभाषणरुष्टेन सुयोधनेन गदयासह हदादुत्थानम् ॥ 1 ॥ युधिष्ठिरदुर्योधनयोः संवादः ॥ 2 ॥

धृतराष्ट्र उवाच । 001
एवं सन्तर्ज्यमानस्तु मम पुत्रो महीपतिः । 001a
प्रकृत्या मन्युमान्वीरः कथमासीत्परन्तपः ॥ 001c
न हि सन्तर्जना तेन श्रुतपूर्वा कथञ्चन । 002a
राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत् ॥ 002c
[यस्यातपत्रच्छायापि स्वका भानोस्तथा प्रभा । 003a
खेदायैवाभिमानित्वात्सहेत्सैवं कथं गरिः ॥] 003c
इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम् । 004a
प्रसादाद्ध्रियते यस्य प्रत्यक्षं तव सञ्जय ॥ 004c
स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः । 005a
विहीनश्च स्वकैर्भृत्यैर्निर्जने चावृतो भृशम् ॥ 005c
स श्रुत्वा कटुका वाचो जययुक्ताः पुनःपुनः । 006a
किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व सञ्जय ॥ 006c
सञ्जय उवाच । 007
तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः । 007a
युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह ॥ 007c
श्रुत्वा स कटुका वाचो विषमस्थो नराधिपः । 008a
दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनःपुनः ॥ 008c
सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनःपुनः । 009a
मनश्चकार युद्धाय राजानं चाभ्यभाषत ॥ 009c
यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः । 010a
अहमेकः परिद्यूनो विरथो हतवाहनः ॥ 010c
आत्तशस्त्रै रथोपेतैर्बहुभिः परिवारितः । 011a
कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सहे ॥ 011c
एकैकशश्च मां यूयं योधयध्वं युधिष्ठिर । 012a
न ह्येको बहुभिर्वीरैर्न्याय्यो योधयितुं युधि ॥ 012c
विशेषतो विकवचः श्रान्तश्चापत्समाश्रितः । 013a
भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः ॥ 013c
न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात् । 014a
फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथवा पुनः ॥ 014c
यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः । 015a
एकः सर्वानहं क्रुद्धो वारयिष्ये युधि स्थितः ॥ 015c
धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप । 016a
धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम् ॥ 016c
अहमुत्थाय सर्वान्वै प्रतियोत्स्यामि संयुगे । 017a
अन्वभ्याशं गतान्सर्वान्निहनिष्यामि भारत ॥ 017c
अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन् । 018a
नक्षत्राणीव सर्वाणि सविता रात्रिसङ्क्षये ॥ 018c
तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः । 019a
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनां ॥ 019c
बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः । 020a
जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः ॥ 020c
मद्रराजस्य शल्यस्य भूरिश्रवस एव च । 021a
पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च ॥ 021c
मित्राणां सुहृदां चैव बान्धवानां तथैव च । 022a
अानृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह ॥ 022c
सञ्जय उवाच । 023
एतावदुक्त्वा वचनं विरराम जनाधिपः । 023a
'सलिलान्तर्गतः श्रीमान्पुत्रो दुर्योधनस्तव ॥' 023c
युधिष्ठिर उवाच । 024
दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन । 024a
दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज ॥ 024c
दिष्ट्या शूरोऽसि गान्धारे दिष्ट्या जानासि सङ्गरम् । 025a
यस्त्वमेको हि नः सर्वान्सङ्गरे योद्धुमिच्छसि ॥ 025c
एक एकेन सङ्गम्य यत्ते सम्मतमायुधम् । 026a
तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः ॥ 026c
अयमिष्टं च ते कामं वीर भूयो ददाम्यहम् । 027a
हत्वैकं भव नो राजा हतो वा स्वर्गमाप्नुहि ॥ 027c
दुर्योधन उवाच । 028
एकश्चेद्योद्धुमाक्रन्दे वरोऽद्य मम दीयताम् । 028a
आयुधानामियं चापि मता मे सततं गदा ॥ 028c
भ्रातॄणां भवतामेकः शक्यं मां योऽभिमन्यते । 029a
पदातिर्गदया सङ्ख्ये स युध्यतु मया सह ॥ 029c
वृत्तानि रथयुद्धानि विचित्राणि पदेपदे । 030a
इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत् ॥ 030c
अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः । 031a
युद्धानामपि पर्यायो भवत्वनुमते तव ॥ 031c
गदया त्वां महाबाहो विजेष्यामि सहानुजम् । 032a
पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः । 032c
न हि मे सम्भ्रमो जातु शक्रादपि युधिष्ठिर ॥ 032e
युधिष्ठिर उवाच । 033
उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन । 033a
एक एकेन सङ्गम्य संयुगे गदया बली ॥ 033c
पुरुषो भव गान्धारे युध्यस्व सुसमाहितः । 034a
अद्य ते जीवितं नास्ति यदीन्द्रोपि तवाश्रयः ॥ 034c
सञ्जय उवाच । 035
एतत्स नरशार्दूलो नामृष्यत तवात्मजः । 035a
सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन् ॥ 035c
तथाऽसौ वाक्प्रतोदेन तुद्यमानः पुनःपुनः । 036a
वचो न ममृषे राजन्नुत्तमाश्वः कशामिव ॥ 036c
सङ्क्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान् । 037a
अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम् । 037c
अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन् ॥ 037e
स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम् । 038a
उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिवानिव ॥ 038c
ततः शैक्यायसीं गुर्वी जातरूपपरिष्कृताम् । 039a
गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः ॥ 039c
गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम् । 040a
प्रजानामिव सङ्क्रुद्धं शूलपाणिमिव स्थितम् ॥ 040c
सगदो भारतो भाति प्रतपन्भास्करो यथा ॥ 041ac
तमुत्तीर्णं महाबाहुं गदाहस्तमरिन्दमम् । 042a
मेनिरे सर्वभूतानि दण्डपाणिमिवान्तकम् ॥ 042c
वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम् । 043a
ददृशुः शर्वपाञ्चालाः पुत्रं तव जनाधिप ॥ 043c
तमुत्तीर्णं तु सम्प्रेक्ष्य समहृष्यन्त सर्वशः । 044a
पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः ॥ 044c
अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव । 045a
उद्धृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान् ॥ 045c
त्रिशिखां भ्रुकुटीं कृत्वा सन्दष्टदशनच्छदः । 046a
प्रत्युवाच ततस्तान्वै पाण्डवान्सह केशवान् ॥ 046c
दुर्योधन उवाच । 047
अस्यावहासस्य फलं प्रतिभोक्ष्यथ पाण्डवाः । 047a
गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम् ॥ 047c
सञ्जय उवाच । 048
उत्थिन्तश्च जलात्तस्मात्पुत्रो दुर्योधनस्तव । 048a
अतिष्ठत गदापाणी रुधिरेण समुक्षितः ॥ 048c
तस्य शोणितदिग्धस्य सलिलेन समुक्षितम् । 049a
शरीरं स्म तदा भाति स्रवन्निव महीधरः ॥ 049c
तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः । 050a
वैवस्वतमिव क्रुद्धं शूलपाणिमिव स्थितम् ॥ 050c
स मेघनिनदो हर्षान्नर्दन्निव च गोवृषः । 051a
आजुहाव ततः पार्थान्गदया युधि वीर्यवान् ॥ 051c
दुर्योधन उवाच । 052
एकैकेन च मां यूयमासीदत युधिष्ठिर । 052a
न ह्येको बहुभिर्न्याय्यो वीरो योधयितुं युधि ॥ 052c
न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः । 053a
भृशं विक्षतगात्रश्च हतवाहनसैनिकः ॥ 053c
[अवश्यमेव योद्धव्यं सर्वैरेव मया सह । 054a
युक्तं त्वयुक्तमित्येतद्वेत्सि त्वं चैव सर्वदा] ॥ 054c
युधिष्ठिर उवाच । 055
मा भूदियं तव प्रज्ञा कथमेकं सुयोधन । 055a
यदाऽभिमन्युं बहवो जघ्नुर्युधि महारथाः ॥ 055c
[क्षत्रधर्मं भृशं क्रूरं निरपेक्षं सुनिर्घृणम् । 056a
अन्यथा तु कथं हन्युरभिमन्युं तथागतम् ॥ 056c
सर्वे भवन्तो धर्मज्ञाः सर्वे शूरास्तनुत्यजः । 057a
न्यायेन युध्यतां प्रोक्ता शक्रलोकगतिः परा ॥ 057c
यद्येकस्तु न हन्तव्यो बहुभिर्धर्म एव तु । 058a
तदाऽभिमन्युं बहवो निजघ्नुस्त्वन्मते कथम् ॥ 058c
सर्वो विमृशते जन्तुः कृच्छ्रस्थो धर्मदर्शनम् । 059a
पदस्थः पिहितं द्वारं परलोकस्य पश्यति ॥] 059c
आमुञ्च कवचं वीर मूर्धजान्यमयस्व च । 060a
यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत ॥ 060c
इममेकं च ते कामं वीर भूयो ददाम्यहम् । 061a
पञ्चानां पाण्डवेयानां येन त्वं योद्धुमिच्छसि ॥ 061c
तं हत्वा वै भवान्राजा हतो वा स्वर्गमाप्नुहि । 062a
ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम् ॥ 062c
सञ्जय उवाच । 063
ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम् । 063a
विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम् ॥ 063c
सोऽवबद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत् । 064a
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥ 064c
सन्नद्धः सगतो राजन्सज्जः सङ्ग्राममूर्धनि । 065a
अब्रवीत्पाण्डवान्सर्वान्पुत्रो दुर्योधनस्तव ॥ 065c
भ्रातॄणां भवतामेको युध्यतां गदया मया । 066a
सहदेवेन वा योत्स्ये भीमेन नकुलेन वा ॥ 066c
अथवा फल्गुनेनाद्य त्वया वा भरतर्षभ । 067a
योत्स्येऽहं सङ्गरं प्राप्य विजेष्ये च रणाजिरे ॥ 067c
अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम् । 068a
गदया पुरुषव्याघ्र हेमपट्टनिबद्धया ॥ 068c
गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तये । 069a
गदया वो हनिष्यामि सर्वानेव समागतान् ॥ 069c
न मे समर्थाः सर्वे वै योद्धुं न्यायेन केचन । 070a
न युक्तमात्मना वक्तुमेवं गर्वोद्धतं वचः । 070c
अथवा सफलं ह्येतत्करिष्ये भवतां पुरः ॥ 070e
अस्मिन्महूर्ते सत्यं वा मिथ्या वै तद्भविष्यति । 071a
गृह्णातु च गदां यो वै योत्स्यतेऽद्य मया सह ॥ ॥ 071c

इति श्रीमन्महाभारते शल्यपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥

9-32-3 आतपत्रेण दुर्योधनः सूर्याद्रक्षित इत्येष प्रवादोऽपि यस्य न स इति भावः ॥ 9-32-10 परिद्यूनः परिश्रान्तः ॥ 9-32-27 नः अस्माकं पञ्चानां मध्ये एकमपि हत्वा त्वं राजा भवेत्यन्वयः ॥ 9-32-34 अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः इति क.ङ.पाठः ॥ 9-32-56 क्षत्रधर्मं अस्तीति शेषः । धर्मोऽस्त्री पुण्यआचारे इति मेदिनी ॥