अध्यायः 031

युधिष्ठिरेण हृदस्थं दुर्योधनं प्रति निष्ठुरोक्तिभिः सन्तर्जनम् ॥ 1 ॥ युधिष्ठिरदुर्योधनयोः संवादः ॥ 2 ॥

सञ्जय उवाच । 001
ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः । 001a
तं ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत् ॥ 001c
आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनं ह्रदम् । 002a
स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् ॥ 002c
वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः । 003a
पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम् ॥ 003c
विष्टभ्य सलिलं शेते नास्य मानुषतो भयम् । 004a
दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम् ॥ 004c
निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते । 005a
यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम् । 005c
तथाप्येनं हतं युद्धे लोका द्रक्ष्यन्ति माधव ॥ 005e
वासुदेव उवाच । 006
मायाविन इमां मायां मायया जहि भारत । 006a
मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर ॥ 006c
क्रियाभ्युपायैर्बहुभिर्मायामप्सु प्रयोज्य च । 007a
जहि त्वं भरतश्रेष्ठ मायात्मानं सुयोधनम् ॥ 007c
क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः । 008a
क्रियाभ्युपायैर्बलिभिर्बलिर्बद्धो महात्मना ॥ 008c
क्रियाभ्युपायपूर्वं वै हिरण्याक्षो महासुरः । 009a
हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ ॥ 009c
वृत्रश्च निहतो राजन्क्रिययैव महाबलः । 010a
तथा पौलस्त्यतनयो रावणो नाम राक्षसः । 010c
रामेण निहतो राजन्सानुबन्धः सहानुगः ॥ 010e
क्रियया योगमास्थाय तथा त्वमपि विक्रम ॥ 011ac
क्रियाभ्युपायैर्निहतौ मया राजन्पुरातनौ । 012a
तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान् ॥ 012c
वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो । 013a
सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ ॥ 013c
क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो । 014a
क्रिया बलवती राजन्नान्यत्किञ्चिद्युधिष्ठिर ॥ 014c
दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा । 015a
क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर ॥ 015c
सञ्जय उवाच । 016
इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः । 016a
जलस्थं तं महाराज तव पुत्रं महाबलम् । 016c
अभ्यभाषत कौन्तेयः प्रहसन्निव भारत ॥ 016e
सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया । 017a
सर्वं क्षत्रं घातयित्वा स्वकुलं च विशाम्पते ॥ 017c
जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः । 018a
उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन ॥ 018c
स ते दर्पो नरश्रेष्ठ स च मानः क्व ते गतः । 019a
यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः ॥ 019c
सर्वे त्वां शूर इत्येवं जना जल्पन्ति संसदि । 020a
व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः ॥ 020c
उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः । 021a
कौरवेयो विशेषेण कुलं जन्म च संस्मर ॥ 021c
स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः । 022a
युद्धात्त्रस्ततरस्तोयं प्रविश्य प्रतितिष्ठसि ॥ 022c
अयुद्धेन व्यवस्थानं नैष धर्मः सनातनः ॥ 023ac
अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम् । 024a
कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः ॥ 024c
इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा । 025a
सम्बन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा । 025c
घातयित्वा कथं तात ह्रदे तिष्ठति साम्प्रतम् ॥ 025e
शूरमानी न शूरस्त्वं मृषा वदसि भारत । 026a
शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः ॥ 026c
न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथञ्चन । 027a
ब्रूहि वा त्वं यया वृत्त्या शूर त्यजसि सङ्गरम् ॥ 027c
स त्वमुत्तिष्ठ युध्यस्व विहाय भयमात्मनः । 028a
घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन ॥ 028c
नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया । 029a
क्षत्रधर्ममुपाश्रित्य त्वद्विधेन सुयोधन ॥ 029c
यत्तु कर्णमुपाश्रित्य शकुनिं चापि सौबलम् । 030a
दुःशासनं च मोहात्त्वमात्मानं नावबुद्धवान् ॥ 030c
तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत । 031a
कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम् ॥ 031c
क्व ते तत्पौरुषं यातं क्व च मानः सुयोधन । 032a
क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत् ॥ 032c
क्व ते कृतास्त्रता याता किं नु शेषे जलाशये । 033a
स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत ॥ 033c
अस्मांस्तु वा पराजित्य प्रशाधि पृथिवीमिमाम् । 034a
अथवा निहतोस्माभिर्भूमौ स्वप्स्यसि भारत ॥ 034c
एष ते परमो धर्मः सृष्टो धात्रा महात्मना । 035a
तं कुरुष्व यथातथ्यं पौरुषे स्व व्यवस्थितः ॥ 035c
सञ्जय उवाच । 036
एवमुक्तो महाराज धर्मपुत्रेण धीमता । 036a
सलिलस्थस्तव सुत इदं वचनमब्रवीत् ॥ 036c
नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत् । 037a
न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत ॥ 037c
अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः । 038a
एकश्चाप्यगणः सङ्ख्ये प्रत्याश्वासमरोचयम् ॥ 038c
न प्राणहेतोर्न भयान्न विषादाद्विशाम्पते । 039a
इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम् ॥ 039c
त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव । 040a
अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे ॥ 040c
युधिष्ठिर उवाच । 041
आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे । 041a
तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन ॥ 041c
हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि । 042a
निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि ॥ 042c
दुर्योधन उवाच । 043
यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन । 043a
त इमे निहताः सर्वे भ्रातरो मे जनेश्वर ॥ 043c
क्षीणरत्नां च पृथिवीं हतक्षत्रियपुङ्गवाम् । 044a
न ह्युत्सहाम्यहं भोक्तुं विधवामिव योषितम् ॥ 044c
अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर । 045a
भङ्क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ ॥ 045c
न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित् । 046a
द्रोणे कर्णे च संशान्ते निहते च पितामहे ॥ 046c
अस्त्विदानीमियं राजन्केवला पृथिवी तव । 047a
असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम् ॥ 047c
सुहृदस्तादृशान्हत्वा पुत्रान्भ्रातॄन्पितॄनपि । 048a
भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः ॥ 048c
अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः । 049a
रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत ॥ 049c
हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा । 050a
एषा ते पृथिवी राजन्भुङ्क्षैनां विगतज्वरः ॥ 050c
वनमेव गमिष्यामि वसानो मृगचर्मणी । 051a
न हि मे निर्जनस्यास्ति जीवितेऽद्य स्पृहा विभो ॥ 051c
गच्छ त्वं भुङ्क्ष राजेन्द्र पृथिवीं निहतेश्वराम् । 052a
हतयोधां नष्टरत्नां शीर्णक्षत्रां यथासुखम् ॥ 052c
[सञ्जय उवाच । 053
दुर्योधनं तव सुतं सलिलस्थं महायशाः । 053a
श्रुत्वा तु करुणं वाक्यमभाषत युधिष्ठिरः ॥] 053c
युधिष्ठिर उवाच । 054a
आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः । 054c
नैतन्मनसि मे राजन्वाशितं शकुनेरिव ॥ 054e
यदि वापि समर्थः स्यास्त्वं दानाय सुयोधन । 055a
नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम् ॥ 055c
अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम् । 056a
न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः ॥ 056c
त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम् । 057a
त्वां तु युद्धे विनिर्जित्य भोक्ताऽस्मि वसुधामिमाम् ॥ 057c
अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि । 058a
त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि ॥ 058c
धर्मतो याचमानानां प्रशमार्थं कुलस्य नः । 059a
वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबलम् ॥ 059c
किमिदानीं ददासि त्वं को हि ते चित्तविभ्रमः । 060a
अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीं ॥ 060c
न त्वमद्य महीं दातुमीशः कौरवनन्दन । 061a
आच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसि ॥ 061c
मां तु निर्जित्य सङ्ग्रामे पालयेमां वसुन्धराम् । 062a
सूच्यग्रेणापि यद्भूमेरपि भिद्येत भारत ॥ 062c
तन्मात्रमपि तन्मह्यं न ददाति पुरा भवान् । 063a
स कथं पृथिवीमेतां प्रददासि विशाम्पते ॥ 063c
सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम् ॥ 064ac
एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम् । 065a
को हि मूढो व्यवस्येत शत्रोर्दातुं वसुन्धराम् ॥ 065c
त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे । 066a
पृथिवीं दातुकामोऽपि जीवंस्त्वं नैव मोक्ष्यसे ॥ 066c
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् । 067a
अथवा निहतोऽस्माभिर्व्रज लोकाननुत्तमान् ॥ 067c
आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम् । 068a
संशयः सर्वभूतानां विजये नौ भविष्यति ॥ 068c
जीवितं त्वयि दुष्प्रापं मयि यत्परिवर्तते । 069a
जीवयेयमहं कामं न तु त्वं जीवितुं क्षमः ॥ 069c
दहने हि कृतो यत्नस्त्वयाऽस्मासु विशेषतः । 070a
आशीविषैर्विषैश्चापि जले जापि प्रवेशनैः । 070c
त्वया विनिकृता राजन्राज्यस्य हरणेन च ॥ 070e
अप्रियाणां च वचनैर्द्रौपद्याः कर्षणेन च । 071a
एतस्मात्कारणात्पाप जीवितं न विद्यते ॥ 071c
उत्तिष्ठोत्तिष्ठ युध्यस्व युद्धे श्रेयो भविष्यति ॥ 072ac
एवं तु विविधा वाचो जययुक्ताः पुनःपुनः । 073a
कीर्तयन्ति स्म ते वीरास्तत्रतत्र जनाधिप ॥ ॥ 073c

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे एकत्रिंशोऽध्यायः ॥ 31 ॥

9-31-7 कियाभ्युपायैः शत्रुक्रियानुरूपैः प्रतीकारैर्घर्म्यैरधर्म्यैर्वेत्यर्थः । एतेतु च्छलकारिणश्छलैरेव हन्तव्या इति भावः । माययैव सुयोधनं इति क.पाठः ॥ 9-31-11 विक्रम विक्रमं कुरुष्व क्रियया योगमास्थाय हतस्त्वाष्ट्रोऽपि विक्रमात् इति क.पाठः ॥ 9-31-12 क्रियाभ्युपायैर्निहतो मयो नाम महासुरः । इति क.पाठः ॥ 9-31-27 हे शूरेति साधिक्षेपसम्बोधनम् । यया वृत्त्या निमित्तभूतया । वानप्रस्थत्वेन वा न्यस्तशस्त्रत्वेन वा क्लीबत्वेन वा त्वं सङ्गरं त्यजसि तां वृत्तिं ब्रूहि । न त्वं वानप्रस्थोऽसि राज्यार्थित्त्वात् । नापि न्यस्तशस्त्रो गदाधारित्वात् । परिशेषात् क्लीबोऽस्मीति मा भाषस्व । युद्धं कुर्विति भावः ॥ 9-31-32 पौरुषं यत्नः । विक्रान्तता शौर्यम् । विस्फूर्जितं गर्जनम् ॥ 9-31-49 हतापत्यस्य भारत इति क.पाठः ॥ 9-31-52 निहतत्विषमिति क.ङ.पाठः ॥