अध्यायः 030
कृपद्रौणिकृतवर्मसु हृदमेत्य दुर्योधनेन भाषमाणेषु तत्र यदृच्छोपागतैर्व्याधैस्तद्दर्शनम् ॥ 1 ॥ व्याधनिवेदनेन सपरिवारैः पाण्डवैर्ह्रदं प्रत्यागमनम् ॥ 2 ॥ तद्दर्शनेन कृपादिभिर्दुर्योधनाभ्यनुज्ञानेन दूरस्थन्यग्रोधतरुमेत्य तन्मूले उपवेशनम् ॥ 3 ॥ दुर्योधनेन पुनर्जलस्तम्भनेन ह्रदप्रवेशनम् ॥ 4 ॥
'सञ्जय उवाच । 001
मुहूर्तादिव राजेन्द्र सर्वं शून्यमदृश्यत । 001a
मत्तवारणसङ्घुष्टं शिबिरं विद्रुते बले ॥ 001c
यत्र शब्देन महता नान्वबुध्यन्महारथाः । 002a
तत्र शब्दं न शृणुमो मनुष्यस्यापि कस्यचित्' ॥ 002c
धृतराष्ट्र उवाच । 003
हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे । 003a
मामकाश्चावशिष्टास्ते किमकुर्वत सञ्जय ॥ 003c
कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान् । 004a
दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा ॥ 004c
सञ्जय उवाच । 005
सम्प्राद्रवत्सु दारेषु क्षत्रियाणां महात्मनाम् । 005a
विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः ॥ 005c
निशम्य पाण्डुपुत्राणां तदा वैजयिनां स्वनम् । 006a
विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्धिनः । 006c
स्थानं नारोचयंस्तत्र ततस्ते ह्रदमभ्ययुः ॥ 006e
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे । 007a
हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया ॥ 007c
मार्गमाणास्तु सङ्क्रुद्धास्तव पुत्रं जयैषिणः । 008a
यत्नतोऽन्वेषमाणास्ते नैवापश्यञ्जनाधिपम् ॥ 008c
यदा दुर्योधनो युद्धं त्यक्त्वा पद्भ्यां पराक्रमत् । 009a
तं ह्रदं प्राविशच्चापि विष्टभ्यापः स्वमायया ॥ 009c
यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः । 010a
ततः स्वशिबिरं प्राप्य व्यतिष्ठन्त ससैनिकाः ॥ 010c
ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः । 011a
सन्निविष्टेषु पार्थेषु प्रययुस्तं ह्रदं शनैः ॥ 011c
ते तं ह्रदं समासाद्य यत्र शेते जनाधिपः । 012a
अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि ॥ 012c
राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम् । 013a
जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि ॥ 013c
तेषामपि बलं सर्वं हतं दुर्योधन त्वया । 014a
प्रतिविद्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः ॥ 014c
न ते वेगं विषहितुं शक्तास्तव विशाम्पते । 015a
अस्माभिरपि गुप्तस्य तस्मादुत्तिष्ठ भारत ॥ 015c
दुर्योधन उवाच । 016
दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात् । 016a
पाण्डुकौरवसम्मर्दाज्जीवमानान्नरर्षभान् ॥ 016c
विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः । 017a
भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः । 017c
उदीर्णं च बलं तेषां तेन युद्धं न रोचये ॥ 017e
न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः । 018a
अस्मासु च परा शक्तिर्न तु कालः पराक्रमे ॥ 018c
विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे । 019a
प्रतियोत्स्याम्यहं शत्रूञ्श्वो न स्याच्च श्रमो मम ॥ 019c
सञ्जय उवाच । 020
एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम् । 020a
उत्तिष्ठ राजन्भद्रं ते विजेष्यामो वयं परान् ॥ 020c
इष्टापूर्तेन दानेन सत्येन च जपेन च । 021a
शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान् ॥ 021c
मा स्म यज्ञकृतां प्रीतिमाप्नुयां सज्जनोचिताम् । 022a
यदीमां रजनीं व्युष्टां न हि हन्मि परान्रणे ॥ 022c
नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो । 023a
उत्तिष्ठ त्वं ब्रवीम्येतत्तन्मे शृणु जनाधिप ॥ 023c
तेषु सम्भाषमाणेषु व्याधास्तं देशमाययुः । 024a
मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया ॥ 024c
ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः । 025a
मांसभारानुपाजह्नुर्भक्त्या परमया विभो ॥ 025c
ते तत्र धिष्ठितास्तेषां सर्वं तद्वचनं रहः । 026a
दुर्योधनवचश्चैव शुश्रुवुः सङ्गता मिथः ॥ 026c
तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे । 027a
निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः ॥ 027c
तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान् । 028a
अयुद्धमनसं चैव राजानं स्थितमम्भसि ॥ 028c
तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः । 029a
व्याधा ह्यजानन्राजेन्द्र सलिलस्थं सुयोधनम् ॥ 029c
ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव । 030a
यदृच्छोपगतास्तत्र राजानं परिमार्गता ॥ 030c
ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा । 031a
अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिव ॥ 031c
दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः । 032a
सुव्यक्तमिह नः ख्यातो ह्रदे दुर्योधनो नृपः ॥ 032c
तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः । 033a
आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम् ॥ 033c
धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते । 034a
शयानं सलिले सर्वे कथयामो धनुर्भृते ॥ 034c
स नो दास्यति सुप्रीतो धनानि बहुलान्युत । 035a
किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा ॥ 035c
एवमुक्त्वा तु ते व्याधाः सम्प्रहृष्टा धनार्थिनः । 036a
मांसभारानुपादाय प्रययुः शिबिरं प्रति ॥ 036c
पाण्डवाश्च महाराज लब्धलक्षाः प्रहारिणः । 037a
अपश्यमानाः समरे दुर्योधनमवस्थितम् ॥ 037c
निकृतिज्ञस्य पापस्य तस्याभिगमनेप्सया । 038a
चारान्सम्प्रेषयामासुः समन्तात्तद्रणाजिरे ॥ 038c
आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम् । 039a
न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः ॥ 039c
तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ । 040a
चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः ॥ 040c
'अरिशेषे जीवति तु सन्दिग्धो विजयो भवेत् । 041a
राज्यं लभे कथं तद्धि पूजितं विजयादिभिः' ॥ 041c
अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ । 042a
तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो ॥ 042c
आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम् । 043a
वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः ॥ 043c
ते तु पाण्डवमासाद्य भीमसेनं महाबलम् । 044a
तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम् ॥ 044c
ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु । 045a
धर्मराजाय तत्सर्वमाचचक्षे परन्तपः ॥ 045c
असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः । 046a
संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे ॥ 046c
तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशाम्पते । 047a
अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः ॥ 047c
तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलह्रदे । 048a
क्षिप्रमेव ततोऽगच्छन्पुरस्कृत्य जनार्दनम् ॥ 048c
ततः किलकिलाशब्दः प्रादुरासीद्विशाम्पते । 049a
पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः ॥ 049c
सिंहनादांस्ततश्चक्रुः क्ष्वेडाश्च भरतर्षभ । 050a
त्वरिताः क्षत्रिया राजन्नुदक्रोशन्परस्परम् ॥ 050c
ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे । 051a
प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः ॥ 051c
तेषामाशु प्रयातानां रथानां तत्र वेगिनाम् । 052a
वभूव तुमुलः शब्दो दिवस्पृक् पृथिवीपते ॥ 052c
दुर्योधनं परीप्सन्तस्तत्रतत्र युधिष्ठिरम् । 053a
अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः ॥ 053c
अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ । 054a
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः ॥ 054c
उत्तमौजा युधामन्युः सात्यकिश्च महारथः । 055a
पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत । 055c
हयाश्च सर्वे नागाश्च शतशश्च पदातयः ॥ 055e
ततः प्राप्तो महाराज धर्मराजः प्रतापवान् । 056a
द्वैपायनह्रदं घोरं यत्र दुर्योधनोऽभवत् ॥ 056c
शीतामलजलं हृद्यं द्वितीयमिव सागरम् । 057a
मायया सलिलं स्तभ्य यत्राभूत्ते स्थितः सुतः ॥ 057c
अत्यद्भुतेन विधिना दैवयोगेन भारत । 058a
सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो । 058c
मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः ॥ 058e
ततो दुर्योधनो राजा सलिलान्तर्गतो वसन् । 059a
शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम् ॥ 059c
युधिष्ठिरश्च राजेन्द्र तं ह्रदं सह सोदरैः । 060a
आजगाम महाराज तव पुत्रवधाय वै ॥ 060c
महता शङ्खनादेन रथनेमिस्वनेन च । 061a
ऊर्ध्वं धुन्वन्महारेणुं कम्पयंश्चापि मेदिनीम् ॥ 061c
यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः । 062a
कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन् ॥ 062c
इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः । 063a
अपयास्यामहे तावदनुजानातु नो भवान् ॥ 063c
दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र तरस्विनाम् । 064a
तथेत्युक्त्वा ह्रदं तं वै माययाऽस्तम्भयत्प्रभो ॥ 064c
ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः । 065a
जग्मुर्दूरे महाराज कृपप्रभृतयो रथाः ॥ 065c
ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष । 066a
न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति ॥ 066c
विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः । 067a
पाण्डवाश्चापि सम्प्राप्तास्तं देशं युद्धमीप्सवः ॥ 067c
कथं नु युद्धं भविता कथं राजा भविष्यति । 068a
कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम् ॥ 068c
इत्येवं चिन्तयानास्तु रथेभ्योऽश्वान्विमुच्य ते । 069a
तत्रासाञ्चक्रिरे राजन्कृपप्रभृतयो रथाः ॥ ॥ 069c
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे त्रिंशोऽध्यायः ॥ 30 ॥
9-30-18 अस्मासु च परा भक्तिर्दर्शिता कार्यगौरवात् । इति ङ. पाठः ॥ 9-30-22 यज्ञकृतां प्रीति यज्ञादिजस्य पुण्यस्य फलम् ॥ 9-30-39 नष्टं अदृश्यत्वं गतं लीनमित्यर्थः ॥