अध्यायः 029
पाण्डवैर्निहतसहायस्य दुर्योधनस्य गदामादाय ह्रदं प्रति प्रस्थानम् ॥ 1 ॥ सञ्जयसंहारायासिमुद्यच्छता सात्यकिना व्यासवचनात्तद्विमोचनम् ॥ 2 ॥ हास्तिनपुरं गच्छतः सञ्जयस्य मध्येमार्गं दुर्योधनदर्शनम् ॥ 3 ॥ तेन तस्मिन्धृतराष्ट्राय स्ववृत्तान्तनिवेदनचोदनपूर्वकं ह्रदं प्रविश्य मायया जलस्तम्भनम् ॥ 4 ॥ तत्रागतैर्द्रौणिकृपकृतवर्मभिः सञ्जयाद्दुर्योधनस्य हृदप्रवेशं विज्ञाय विलप्य पुनः शिबिरगमनम् ॥ 5 ॥ ततो वृद्धपरिजनैर्युयुत्सुना च राजदाराणां नगरप्रापणम् ॥ 6 ॥
धृतराष्ट्र उवाच । 001
निहते मामके सैन्ये निःशेषे शिबिरे कृते । 001a
पाण्डवानां बले सूत किन्नु शेषमभूत्तदा ॥ 001c
एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि सञ्जय । 002a
यच्च दुर्योधनो मानी कृतवांस्तनयो मम । 002c
बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः ॥ 002e
सञ्जय उवाच । 003
रथानां द्वे सहस्रे तु सप्त नागशतानि च । 003a
पञ्च चाश्वसहस्राणि पत्तीनामयुतानि च ॥ 003c
एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम् । 004a
परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः ॥ 004c
एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः । 005a
नापश्यत्समरे कञ्चित्सहायं रथिनां वरः ॥ 005c
नर्दमानान्परान्दृष्ट्वा स्वबलस्य च सङ्क्षयम् । 006a
दृष्ट्वा भरतशार्दूलः कश्मलेनाभिसंवृतः । 006c
हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् ॥ 006e
एकादशचमूभर्ता पुत्रो दुर्योधनस्तव । 007a
गदामादाय तेजस्वी पदातिः प्रस्थितो ह्रदम् ॥ 007c
नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः । 008a
सस्मार वचनं क्षत्रुर्धर्मशीलस्य धीमतः ॥ 008c
इदं नूनं महाप्राज्ञो विदुरो दृष्ट्वान्पुरा । 009a
महद्व्सनमस्माकं क्षत्रियाणां च सर्वशः ॥ 009c
एवं विचिन्तयानस्तु प्रविविक्षुर्ह्रदं नृपः । 010a
दुःखसन्तप्तहृदयो दृष्ट्वा राजन्बलक्षयम् ॥ 010c
'दशैकाक्षौहिणीभर्ता तदा दुर्योधनोऽपि सन् । 011a
प्राप्तवान्व्यसनं तीव्रं दैवं हि बलवत्तरम्' ॥ 011c
पाण्डवास्तु महाराज धृष्टद्युम्नपुरोगमाः । 012a
अभ्यद्रवन्त सङ्क्रुद्धास्तव राजन्बलं प्रति ॥ 012c
शक्त्यृष्टिप्रासहस्तानां बलानामभिगर्जताम् । 013a
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ॥ 013c
तान्हत्वा निशितैर्बाणैः सामात्यान्सह बन्धुभिः । 014a
रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत ॥ 014c
सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे । 015a
महावनमिव च्छिन्नमभवत्तावकं बलम् ॥ 015c
अनेकशतसाहस्रे बले दुर्योधनस्य ह । 016a
नान्यो महारथो राजञ्जीवमानो व्यदृश्यत ॥ 016c
द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः । 017a
कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात् ॥ 017c
धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत् । 018a
किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता ॥ 018c
धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः । 019a
उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस्तदा ॥ 019c
तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् । 020a
मुच्यतां सञ्जयो जीवन्न हन्तव्यः कथञ्चन ॥ 020c
द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः । 021a
ततो मामब्रवीन्मुक्त्वा स्वस्ति सञ्जय साधय ॥ 021c
अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः । 022a
प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः ॥ 022c
क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम् । 023a
एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम् ॥ 023c
स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम् । 024a
उपप्रैक्षत मां दृष्ट्वा तथा दीनमवस्थितम् ॥ 024c
तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे । 025a
मुहूर्तं नाशकं वक्तुमतिदुःखपरिप्लुतः ॥ 025c
'यस्य मूर्धाभिषिक्तानां सहस्रमणिमौलिनाम् । 026a
आहृत्य च करं सर्वं स्वस्य वेश्म समागतम् ॥ 026c
चतुःसागरपर्यन्ता पृथिवी रत्नभूषिता । 027a
कर्णेनैकेन यस्यार्थे करमाहारिता पुरा ॥ 027c
यस्याज्ञा परराष्ट्रेषु कर्णेनैव प्रसारिता । 028a
नाभवद्यस्य शस्त्रेषु खेदो राज्ञः प्रशासतः ॥ 028c
आसीनो हास्तिनपुरे क्षेमं राज्यमकण्टकम् । 029a
अन्वपालयदैश्वर्यात्कुबेरमपि नास्मरत् ॥ 029c
भवनाद्भवनं राजन्प्रयातुं पृथिवीपते । 030a
देवालयप्रदेशे च पन्था यस्य हिरण्मयः ॥ 030c
पताकावृतसूर्यांशुतोरणोच्छ्रितशोभिताः । 031a
प्रयाणे पृथिवीभर्तुर्धन्यानामभवन्गृहाः ॥ 031c
आरुह्यैरावतप्रख्यं नागमिन्द्रसमो बली । 032a
विभूत्या सुमहत्या यः प्रयाति पृथिवीपते ॥ 032c
तं भृशक्षतसर्वाङ्गं पद्भ्यामेव धरातले । 033a
तिष्ठन्तमेकं दृष्ट्वा तु ममाभूत्क्लेश उत्तमः ॥ 033c
तस्य चैवंविधस्याद्य जगन्नाथस्य भूपते । 034a
आपदप्रतिमैवाभूद्बलीयान्विधिरेव हि' ॥ 034c
ततोऽस्मै तदहं सर्वमुक्तवान्ग्रहणं तदा । 035a
द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे ॥ 035c
स मुहूर्तमिव ध्यात्वा प्रतिलभ्य च चेतनाम् । 036a
भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः ॥ 036c
तस्मै तदहमाचक्षे सर्वं प्रत्यक्षदर्शिवान् । 037a
भ्रातॄंश्च निहतान्सर्वान्सैन्यं च विनिपातितम् ॥ 037c
त्रयः किल रथाः शिष्टास्तावकानां नराधिप । 038a
इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत् ॥ 038c
स दीर्घमिव निःश्वस्य प्रत्यवेक्ष्य पुनः पुनः । 039a
असौ मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत ॥ 039c
त्वदन्यो नेह सङ्ग्रामे कश्चिज्जीवति सञ्जय । 040a
द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः ॥ 040c
ब्रूयाः सञ्जय राजानं प्रज्ञाचक्षुषमीश्वरम् । 041a
दुर्योधनस्तव सुतः प्रविष्टो ह्रदमित्युत ॥ 041c
सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च । 042a
पाण्डवैश्च हृते राज्ये को नु जीवेत मादृशः ॥ 042c
आचक्षीथाः सर्वमिदं मां च मुक्तं महाहवात् । 043a
अस्मिंस्तोयह्रदे गुप्तं जीवन्तं भृशविक्षतम् ॥ 043c
एवमुक्त्वा महाराज प्राविशत्तं महाह्रदम् । 044a
अस्तम्भयत तोयं च मायया मनुजाधिपः ॥ 044c
तस्मिन्ह्रदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान् । 045a
अपश्यं सहितानेकस्तं देशं समुपेयुषः ॥ 045c
कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् । 046a
भोजं च कृतवर्माणं सहिताञ्शरविक्षतान् ॥ 046c
ते सर्वे मामभिप्रेक्ष्य तूर्णमश्वाननोदयन् । 047a
उपयाय तु मामूचुर्दिष्ट्या जीवसि सञ्जय ॥ 047c
अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम् । 048a
कच्चिद्दुर्योधनो राजा स नो जीवति सञ्जय ॥ 048c
आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम् । 049a
तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत् ॥ 049c
ह्रदं चैवाहमाचक्षं यं प्रविष्टो नराधिपः । 050a
अश्वत्थामा तु तद्राजन्निशम्य वचनं मम ॥ 050c
तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत् । 051a
अहो धिक्स न जानाति जीवतोऽस्मान्नराधिप । 051c
पर्याप्ता हि वयं तेन सह योधयितुं परान् ॥ 051e
ते तु तत्र चिरं कालं विलप्य च महारथाः । 052a
प्राद्रवन्रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान्रणे ॥ 052c
ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम् । 053a
सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः ॥ 053c
तत्र गुल्माः परिक्षिप्ताः सूर्ये चास्तमिते सति । 054a
सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव सङ्क्षयम् ॥ 054c
ततो वृद्धा महाराज योषितां रक्षिणो नराः । 055a
राजदारानुपादाय प्रययुर्नगरं प्रति ॥ 055c
तत्र विक्रोशमानानां रुदतीनां च सर्वशः । 056a
प्रादुरासीन्महाञ्शब्दः श्रुत्वा तद्बलसङ्क्षयम् ॥ 056c
ततस्ता योषितो राजन्रुदन्त्यो वै मुहुर्मुहुः । 057a
कुरर्य इव शब्देन नादयन्त्यो महीतलम् ॥ 057c
आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत । 058a
लुलुचुश्च तदा केशान्क्रोशन्त्यस्तत्रतत्र ह ॥ 058c
हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च । 059a
शोचन्त्यस्तत्र रुरुदुः क्रन्दमाना विशाम्पते ॥ 059c
ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः । 060a
राजदारानुपामन्त्र्य प्रययुर्नगरं प्रति ॥ 060c
वेत्रव्यासक्तहस्ताश्च द्वाराध्यक्षा विशाम्पते । 061a
शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च । 061c
समादाय ययुस्तूर्णं नगरं दाररक्षिणः ॥ 061e
आस्थायाश्वतरीयुक्तान्स्यन्दनानपरे पुनः । 062a
स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति ॥ 062c
अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु । 063a
ददृशुस्ता महाराज जना याताः पुरं प्रति ॥ 063c
ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः । 064a
प्रययुर्नगरं तूर्णं हतस्वपतिबान्धवाः ॥ 064c
आगोपालाविपालेभ्यो द्रवन्तो नगरं प्रति । 065a
ययुर्मनुष्याः सम्भ्रान्ता भीमसेनभयार्दिताः ॥ 065c
अपिचैषां भयं तीव्रं पार्थेभ्योऽभूत्सुदारुणम् । 066a
प्रेक्षमाणास्तदाऽन्योन्यमाधावन्नगरं प्रति ॥ 066c
तस्मिंस्तथा वर्तमाने विद्रवे भृशदारुणे । 067a
युयुत्सुः शोकसम्मूढः प्राप्तकालमचिन्तयत् ॥ 067c
जितो दुर्योधनः सङ्ख्ये पाण्डवैर्भीमविक्रमैः । 068a
एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः ॥ 068c
हताश्च कुरवः सर्वे भीष्मद्रोणपुरः सराः । 069a
अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया ॥ 069c
विद्रुतानि च सर्वाणि शिबिराद्वै समन्ततः । 070a
[इतस्ततः पलायन्ते हतनाथा हतौजसः ॥ 070c
अदृष्टपूर्वा दुःखार्ता भयव्याकुललोचनाः । 071a
हरिणा इव वित्रस्ता वीक्षमाणा दिशो दश] ॥ 071c
दुर्योधनस्य सचिवा ये केचिदवशेषिताः । 072a
राजदारानुपादाय प्रययुर्नगरं प्रति । 072c
प्राप्तकालमहं मन्ये प्रवेशं तैः सह प्रभो ॥ 072e
युधिष्ठिरमनुज्ञाय वासूदेवं तथैव च । 073a
एतमर्थं महाबाहुरुभयोः सन्न्यवेदयत् ॥ 073c
तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता । 074a
परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत् ॥ 074c
ततः स रथमास्थाय द्रुतमश्वानचोदयत् । 075a
संवाहयितवांश्चापि राजदारान्पुरं प्रति ॥ 075c
तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे । 076a
प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः ॥ 076c
अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम् । 077a
राज्ञः समीपान्निष्क्रान्तं शोकोपहतचेतसम् ॥ 077c
तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम् ॥ 078ac
विदुर उवाच । 079
दिष्ट्या कुरुक्षये वृत्ते अस्मिंस्त्वं पुत्र जीवसि । 079a
विना राज्ञः प्रवेशाद्वै किमसि त्वमिहागतः । 079c
एतद्वै कारणं सर्वं विस्तरेण निवेदय ॥ 079e
युयुत्सुरुवाच । 080
निहते शकुनौ तत्र सज्ञातिसुतबान्धवे । 080a
हतशेषपरीवारो राजा दुर्योधनस्ततः । 080c
स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् ॥ 080e
अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात् । 081a
भयव्याकुलितं सर्वं प्राद्रवन्नगरं प्रति ॥ 081c
ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वतः । 082a
वाहनेषु समारोप्य अध्यक्षाः प्राद्रावन्भयात् ॥ 082c
ततोऽहं समनुज्ञाप्य राजानं सहकेशवम् । 083a
प्रविष्टो हास्तिनपुरं रक्षन्लोकस्य वाच्यताम् ॥ 083c
सञ्जय उवाच । 084
एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम् । 084a
प्राप्तकालमिति ज्ञात्वा विदुरः सर्वधर्मवित् । 084c
अपूजयदमेयात्मा युयुत्सुं वाक्यमब्रवीत् ॥ 084e
प्राप्तकालमिदं सर्वं ब्रुवता भरतक्षये । 085a
[रक्षितः कुलधर्मश्च सानुक्रोशतया त्वया ॥ 085c
दिष्ट्या त्वामिह सङ्ग्राम दस्माद्वीरक्षयात्पुरम् । 086a
समागतमपश्याम ह्यंशुमन्तमिव प्रजाः ॥ 086c
अन्धस्य नृपतेर्यष्टिर्लुब्धस्यादीर्घदर्शिनः । 087a
बहुशो याच्यमानस्य दैवोपहतचेतसः । 087c
त्वमेको व्यसनार्तस्य ध्रियसे पुत्र सर्वथा] ॥ 087e
अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम् । 088a
एतावदुक्त्वा वचनं विदुरः साश्रुलोचनः । 088c
युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम् ॥ 088e
[पौरजानपदैर्दुःखाद्धाहेति भृशनादितम् । 089a
निरानन्दं गतश्रीकं हृताराममिवाशयम् । 089c
शून्यरूपमपध्वस्तं दुःखाद्दुःखतरोऽभवत् ॥ 089e
विदुरः सर्वधर्मज्ञो विक्लवेनान्तरात्मना । 090a
विवेश नगरे राजन्निशश्वास शनैः शनैः ॥ 090c
युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा । 091a
वन्द्यमानः स्वकैश्चापि नाभ्यनन्दत्सुदुःखितः । 091c
चिन्तयानः क्षयं तीव्रं भरतानां परस्परम् ॥ ॥ 091e
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे एकोनत्रिंशोऽध्यायः ॥ 29 ॥
9-29-38 हतो दुर्योधन इति क.पाठः ॥ 9-29-39 अहमेकोऽवशिष्टस्तु इति क.पाठः ॥