अध्यायः 028
हतावशिष्टे बले पाण्डवैर्निहते दुर्योधनेन पलायने निर्धारणम् ॥ 1 ॥
सञ्जय उवाच । 001
ततः क्रुद्धा महाराज सौबलस्य पदानुगाः । 001a
त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन् ॥ 001c
तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः । 002a
भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः ॥ 002c
शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम् । 003a
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ॥ 003c
सङ्गृहीतायुधान्बाहून्योधानामभिधावताम् । 004a
भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि ॥ 004c
ते हयाः प्रत्यपद्यन्त वसुधां विगतासवः । 005a
चरता लोकवीरेण प्रहताः सव्यसाचिना ॥ 005c
ततो दुर्योधनो राजा दृष्ट्वा स्वबलसङ्क्षयम् । 006a
हतशेषान्समानीय क्रुद्धो रथगणान्बहून् ॥ 006c
कुञ्जरांश्च हयांश्चैव पादातांश्च समन्ततः । 007a
उवाच दुःखितान्सर्वान्धार्तराष्ट्र इदं वचः ॥ 007c
समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान् । 008a
पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं न्यवर्तत ॥ 008c
तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः । 009a
अभ्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात् ॥ 009c
तानभ्यापततः शीघ्रं हतशेषान्महारणे । 010a
शरैराशीविषाकारैः पाण्डवाः समवाकिरन् ॥ 010c
तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः । 011a
अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत ॥ 011c
पलायमानं तु भयान्नावतिष्ठति दंशितम् । 012a
अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते ॥ 012c
न प्राज्ञायन्त समरे दिशः सप्रदिशस्तथा । 013a
ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः ॥ 013c
अभ्यघ्नंस्तावकान्युद्धे मुहूर्तादिव भारत । 014a
ततो निःशेषमभवत्तत्सैन्यं तव भारत ॥ 014c
अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत । 015a
एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः ॥ 015c
तेषु राजसहस्रेषु तावकेषु महात्मसु । 016a
एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः ॥ 016c
ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम् । 017a
विहीनः सर्वयोधैश्च पाण्डवान्वीक्ष्यं संयुगे ॥ 017c
मुदितान्सर्वतः सिद्धान्नर्दमानान्समन्ततः । 018a
बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम् ॥ 018c
दुर्योधनो महाराज कश्मलेनाभिसंवृतः । 019a
अपयाने मनश्चक्रे विहीनबलवाहनः ॥ ॥ 019c
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे अष्टाविंशोऽध्यायः ॥ 28 ॥