अध्यायः 027
सहदेवेन शकुन्युलूकयोर्वधः ॥ 1 ॥
सञ्जय उवाच । 001
तस्मिन्प्रवृत्ते सङ्ग्रामे गजवाजिनरक्षये । 001a
शकुनिः सौबलो राजन्सहदेवं समभ्ययात् ॥ 001c
ततोऽस्यापततस्तूर्णं सहदेवः प्रतापवान् । 002a
शरौघान्प्रेषयामास पतङ्गानिव शीघ्रगान् । 002c
उलूकं च रणे राजन्विव्याध दशभिः शरैः ॥ 002e
शकुनिश्च महाराज भीमं विद्ध्वा त्रिभिः शरैः । 003a
नवत्या निशितैर्बाणैः सहदेवमवाकिरत् ॥ 003c
ते शूराः समरे राजन्समासाद्य परस्परम् । 004a
विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः । 004c
स्वर्णपुङ्खैः शिलधौतैराकर्णप्रहितैः शरैः ॥ 004e
तेषां चापगुणोत्सृष्टा शरवृष्टिर्विशाम्पते । 005a
आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः ॥ 005c
ततः क्रुद्धो रणे भीमः सहदेवश्च भारत । 006a
चेरतुः कदनं सङ्ख्ये कुर्वन्तौ सुमहाबलौ ॥ 006c
ताभ्यां शरशतैश्छनं तद्बलं तव भारत । 007a
सान्धकारमिवाकाशमभवत्तत्रतत्र ह ॥ 007c
अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशाम्पते । 008a
तत्रतत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून् ॥ 008c
निहतानां हयानां च सहैव हयसादिभिः । 009a
वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष ॥ 009c
ऋष्टिभिः शक्तिभिश्चैव सासिप्रासपरश्वथैः । 010a
सञ्छन्ना पृथिवी जज्ञे कुसुमैः शबला इव ॥ 010c
योधास्तत्र महाराज समासाद्य परस्परम् । 011a
व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम् ॥ 011c
उद्वृत्तनयनै रोषात्सन्दष्टौष्ठपुटैर्मुखैः । 012a
सकुण्डलैर्मही च्छन्ना पद्मकिञ्चल्कसन्निभैः ॥ 012c
भुजैश्छिन्नैर्महाराज नागराजकरोपमैः । 013a
साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वथैः ॥ 013c
कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि । 014a
क्रव्यादगणसञ्छन्ना घोराऽभूत्पृथिवी विभो ॥ 014c
अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे । 015a
प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम् ॥ 015c
एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान् । 016a
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ॥ 016c
स विह्वलो महाराज रथोपस्थ उपाविशत् ॥ 017ac
सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान् । 018a
सर्वसैन्यानि सङ्क्रुद्धो वारयामास भारत ॥ 018c
निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः । 019a
स निर्भिद्याकरोच्चैव सिंहनादमरिन्दमः ॥ 019c
तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः । 020a
प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः ॥ 020c
प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत् । 021a
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ 021c
इह कीर्तिं समाधाय प्रेत्य लोकान्समश्नुते । 022a
प्राणाञ्जहाति यो धीरो युद्धे पृष्ठमदर्शयन् ॥ 022c
एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः । 023a
पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥ 023c
द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः । 024a
क्षुब्धसागरसङ्काशः क्षुभितैः सर्वतो दिशम् ॥ 024c
तांस्ततः पुरतो दृष्ट्वा सौबलस्य पदानुगान् । 025a
प्रत्युद्ययुर्महाराज पाण्डवा विजयोद्यताः ॥ 025c
प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशाम्पते । 026a
शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः । 026c
धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव ॥ 026e
अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः । 027a
विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः ॥ 027c
उलूकोऽपि महाराज भीमं विव्याध सप्तभिः । 028a
सहदेवं च सप्तत्या परीप्सन्पितरं रणे ॥ 028c
तं भीमसेनः समरे विव्याध नवभिः शरैः । 029a
शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः ॥ 029c
ते हन्यमाना भीमेन नाराचैस्तैलपायितैः । 030a
सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः । 030c
पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः ॥ 030e
ततोऽस्यापततः शूरः सहदेवः प्रतापवान् । 031a
उलूकस्य महाराज भल्लेनापाहरच्छिरः ॥ 031c
स जगाम रथाद्भूमिं सहदेवेन पातितः । 032a
रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि ॥ 032c
पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत । 033a
साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन् ॥ 033c
चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन् । 034a
सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः ॥ 034c
तानपास्य शरान्मुक्ताञ्शरसङ्घैः प्रतापवान् । 035a
सहदेवो महाराज धनुश्चिच्छेद संयुगे ॥ 035c
छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा । 036a
प्रगृह्य विपुलं खड्गं सहदेवाय प्राहिणोत् ॥ 036c
तमापतन्तं सहसा घोररूपं विशाम्पते । 037a
द्विधा चिच्छेद समरे सौबलस्य हसन्निव ॥ 037c
असिं दृष्ट्वा द्विधा च्छिन्नं प्रगृह्य महतीं गदाम् । 038a
प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि ॥ 038c
ततः शक्तिं महाघोरां कालरात्रीमिवोद्यताम् । 039a
प्रेषयामास सक्रुद्धः पाण्डवं प्रति सौबलः ॥ 039c
तामापतन्तीं सहसा शरैः कनकभूषणैः । 040a
त्रिधा चिच्छेद समरे सहदेवो हसन्निव ॥ 040c
सा पपात त्रिधा च्छिन्ना भूमौ कनकभूषणा । 041a
शीर्यमाणा यथा दीप्ता गगनाद्वै शतह्रदा ॥ 041c
शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम् । 042a
दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः ॥ 042c
अथोत्क्रुष्टं महच्चासीत्पाण्डवैर्जितकाशिभिः । 043a
धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाऽभवन् ॥ 043c
तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान् । 044a
शरैरनेकसाहस्रैर्वारयामास संयुगे ॥ 044c
ततो गान्धारकैर्गुप्तं पुष्टैरश्वैर्जये धृतम् । 045a
आससाद रणे यान्तं सहदेवोऽथ सौबलम् ॥ 045c
स्वमंशमवशिष्टं तं संस्मृत्य शकुनिं नृप । 046a
रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात् ॥ 046c
अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः । 047a
स सौबलमभिद्रुत्य गार्ध्रपत्रैः शिलाशितैः ॥ 047c
भृशमभ्यहन्त्कुद्धस्तोत्रैरिव महाद्विपम् । 048a
उवाच चैनं मेधावी विगृह्य स्मारयन्निव ॥ 048c
क्षत्रधर्मे स्थिरो भूत्वा युध्यस्व पुरुषो भव । 049a
यत्तदा भाषसे मूढ गृह्णन्नक्षान्सभातले । 049c
फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते ॥ 049e
निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा । 050a
दुर्योधनः कुलाङ्गारः शिष्टस्त्वं चास्य मातुलः ॥ 050c
अद्य ते निहनिष्यामि क्षुरेणोन्मथितं शिरः । 051a
वृक्षात्फलमिवाविद्धं लगुडेन प्रमाथिना ॥ 051c
एवमुक्त्वा महाराज सहदेवो महाबलः । 052a
सङ्क्रुद्धो रणशार्दूलो वेगेनाभिजगाम तम् ॥ 052c
अभिगम्य सुदुर्धर्षः सहदेवो युधां पतिः । 053a
विकृष्य बलवच्चापं क्रोधेन प्रज्वलन्निव ॥ 053c
शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः । 054a
छत्रं ध्वजं धनुश्चास्य च्छित्त्वा सिंह इवानदत् ॥ 054c
छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः । 055a
कृतो विद्धश्च बहुभिः सर्वमर्मसु सायकैः ॥ 055c
ततो भूयो महाराज सहदेवः प्रतापवान् । 056a
शकुनेः प्रेषयान्मास शरवृष्टिं दुरासदाम् ॥ 056c
ततस्तु क्रुद्धः सुबलस्य पुत्रो माद्रीसुतं सहदेवं विमर्दे । 057a
प्रासेन जाम्बूनदभूषणेन जिघांसुरेकोऽभिपपात शीघ्रम् ॥ 057c
माद्रीसुतस्तस्य समुद्यतं तं प्रासं सुवृत्तौ च भुजौ रणाग्रे । 058a
भल्लैस्त्रिभिर्युगपत्सञ्चकर्त ननाद चोच्चैस्तरसाऽऽजिमध्ये ॥ 058c
तस्याशुकारी सुसमाहितेन सुवर्णपुङ्खेन दृढायसेन । 059a
भल्लेन सर्वावरणातिगेन शिरः शरीरात्प्रममाथ भूयः ॥ 059c
शरेण कार्तस्वरभूषितेन दिवाकराभेण सुसंहितेन । 060a
हृतोत्तमाङ्गो युधि पाण्डवेन पपात भूमौ सुबलस्य पुत्रः ॥ 060c
स तच्छिरो वेगवता शरेण सुवर्णपुङ्खेन शिलाशितेन । 061a
प्रावेरयत्कुपितः पाण्डुपुत्रो यत्तत्कुरूणामनयस्य मूलम् ॥ 061c
भुजौ सुवृत्तौ प्रचकर्त वीरः पश्चात्कबन्धं रुधिरावसिक्तम् । 062a
विस्पन्दमानं निपपात घोरं रथोत्तमात्पार्थिव पार्थिवस्य ॥ 062c
हृतोत्तमाङ्गं शकुनिं समीक्ष्य भूमौ शयानं रुधिरार्द्रगात्रम् । 063a
योधास्त्वदीया भयनष्टसत्वा दिशः प्रजग्मुः प्रगृहीतशस्त्राः ॥ 063c
प्रविद्रुताः शुष्कमुखा विसञ्ज्ञा गाण्डीवघोषेण समाहताश्च । 064a
भयार्दिता भग्नरथाश्वनागाः पदातयश्चैव सधार्तराष्ट्राः ॥ 064c
ततो रथाच्छकुनिं पातयित्वा मुदान्विता भारत पाण्डवेयाः 065a
शङ्खान्प्रदध्मुः समरेऽतिहृष्टाः सकेशवाः सैनिकान्हर्षयन्तः ॥ 065c
तं चापि सर्वे प्रतिपूजयन्तो दृष्ट्वा ब्रुवाणाः सहदेवमाजौ । 066a
दिष्ट्या हतो नैकृतिको महात्मा सहात्मजो वीर रणे त्वयेति ॥ ॥ 066c
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे सप्तविंशोऽध्यायः ॥ 27 ॥
9-27-7 अलङ्कृतमिवाकाशं इति क.पाठः ॥ 9-27-49 यत्तदा हृष्यसे मृढ ग्लहन्नक्षैः सभातले इति झ.पाठः ॥