अध्यायः 026

कृष्णार्जुनयोः संवादः ॥ 1 ॥ सङ्कुलयुद्धम् ॥ 2 ॥ भीमेन सुदर्शननाम्नो दुर्योधनानुजस्य वधः ॥ 3 ॥

सञ्जय उवाच । 001
दुर्योधनो महाराज सुदर्शश्चापि ते सुतः । 001a
हतशेषौ तदा सङ्ख्ये वाजिमध्ये व्यवस्थितौ ॥ 001c
ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम् । 002a
उवाच देवकीपुत्रः कुन्तीपुत्रं धनञ्जयम् ॥ 002c
शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः । 003a
गृहीत्वा सञ्जयं चासौ निवृत्तः शिनिपुङ्गवः ॥ 003c
परिश्रान्तश्च नकुलः सहदेवश्च भारत । 004a
योधयित्वा रणे पापान्धार्तराष्ट्रान्सहानुगान् ॥ 004c
दुर्योधनमतिक्रम्य त्रय एते व्यवस्थिताः । 005a
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ॥ 005c
असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः । 006a
दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः ॥ 006c
असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः । 007a
छत्रेण ध्रियामणेन प्रेक्षमाणो मुहुर्मुहुः ॥ 007c
प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः । 008a
एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि ॥ 008c
गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिन्दम । 009a
यावन्न विद्रवन्त्येते तावज्जहि सुयोधनम् ॥ 009c
यातु कश्चित्तु पाञ्चाल्यं क्षिप्रमागम्यतामिति । 010a
परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी ॥ 010c
हत्वा तव बलं सर्वं सङ्ग्रमे धृतराष्ट्रजः । 011a
जितान्पाण्डुसुतान्मत्वा रूपं धारयते महत् ॥ 011c
निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः । 012a
ध्रुवमेष्यति सङ्ग्रामे वधायैवात्मनो नृपः ॥ 012c
एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत् । 013a
धृतराष्ट्रसुताः सर्वे हता भीमेन माधव । 013c
यावेतावास्थितौ कृष्ण तावद्य नभविष्यतः ॥ 013e
हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः । 014a
मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः ॥ 014c
हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च । 015a
रथानां तु शते शिष्टे द्वे एव तु जनार्दन । 015c
दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः ॥ 015e
अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा । 016a
उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः ॥ 016c
एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव । 017a
मोक्षो न नूनं कालात्तु विद्यते भुवि कस्यचित् ॥ 017c
तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम् । 018a
अद्याह्ना हि महाराजो हतामित्रो भविष्यति । 018c
न हि मे मोक्ष्यते कश्चित्परेषामिह चिन्तये ॥ 018e
ये त्वद्य समरं कृष्ण न हास्यन्ति मदोत्कटाः । 019a
तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः ॥ 019c
अद्य युद्धे समुत्पन्नं दीर्घं राज्ञः प्रजागरम् । 020a
अपनेष्यामि गान्धारिं घातयित्वा शितैः शरैः ॥ 020c
निकृत्या वै दुराचारो यानि रत्नानि सौबलः । 021a
सभायामहरद्द्यूते पुनस्तान्याहराम्यहम् ॥ 021c
अद्य वेत्स्यन्ति मच्छक्तिं सर्वा नागपुरे स्त्रियः । 022a
श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि ॥ 022c
समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति । 023a
अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च मोक्ष्यति ॥ 023c
नापयाति भयात्कृष्ण सङ्ग्रामाद्यदि चेन्मम । 024a
निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम् ॥ 024c
मम ह्येतदपर्याप्तं वाजिवृन्दमरिन्दम । 025a
सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम् ॥ 025c
सञ्जय उवाच । 026
एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना । 026a
अचोदयद्धायन्राजन्दुर्योधनबलं प्रति ॥ 026c
तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः । 027a
भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष । 027c
प्रययुः सिंहनादेन दुर्योधनजिघांसया ॥ 027e
तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान् । 028a
सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः ॥ 028c
सुदर्शनस्तव सुतो भीमसेनं समभ्ययात् । 029a
सुशर्मा शकुनिश्चैव युयुधाते किरीटिना ॥ 029c
सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात् ॥ 030ac
ततो हि यत्नतः क्षिप्रं तव पुत्रो जनाधिप । 031a
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ॥ 031c
सोपाविशद्रथोपस्थे तव सुत्रेण ताडितः । 032a
रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् ॥ 032c
प्रतिलभ्य ततः सञ्ज्ञां सहदेवो विशाम्पते । 033a
दुर्योधनं शरैस्तीक्ष्णैः सङ्क्रुद्धः समवाकिरत् ॥ 033c
पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनञ्जयः । 034a
शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह ॥ 034c
तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः । 035a
पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ ॥ 035c
ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः । 036a
अर्जुनं वासुदेवं च शरवर्षैरवाकिरन् ॥ 036c
सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः । 037a
ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः ॥ 037c
शिलाशितेन च विभो क्षुरप्रेण महायशाः । 038a
शिरश्चिच्छेद सहसा तप्तकुण्डलभूषणम् ॥ 038c
सत्येषुमथ चादत्त योधानां मिषतां ततः । 039a
यथा सिंहो वने राजन्मृगं परि बुभुक्षितः ॥ 039c
तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः । 040a
विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूषितान् ॥ 040c
ततः प्रायात्त्वरन्पार्थो दीर्घकालं सुसंवृतम् । 041a
मुञ्चन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति ॥ 041c
तमर्जुनः पृषत्कानां शतेन भरतर्षभ । 042a
पूरयित्वा ततो वाहान्प्राहरत्तस्य धन्विनः ॥ 042c
ततः शरं समादाय यमदण्डोपमं तदा । 043a
सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव ॥ 043c
स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना । 044a
सुशर्माणं समासाद्य बिभेद हृदयं रणे ॥ 044c
स गतासुर्महाराज पपात धरणीतले । 045a
नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान् ॥ 045c
सुशर्माणं रणे हत्वा पुत्रानस्य महारथान् । 046a
सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम् ॥ 046c
ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान् । 047a
अभ्यगाद्भारतीं सेनां हतशेषां महारथः ॥ 047c
भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप । 048a
सुदर्शनमदृश्यन्तं शरैश्चक्रे हसन्निव ॥ 048c
ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत् । 049a
क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि ॥ 049c
तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः । 050a
परिवव्रू रणे भीमं किरन्तो विविधाञ्शरान् ॥ 050c
ततस्तु निशितैर्बाणैस्तवानीकं वृकोदरः । 051a
इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत् ॥ 051c
ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ ॥ 052ac
तेषु तूत्साद्यमानेषु सेनाध्यक्षा महारथाः । 053a
भीमसेनं समासाद्य ततोऽयुध्यन्त भारत ॥ 053c
स तान्सर्वाञ्शरैर्घोररैवाकिरत पाण्डवः । 054a
तथैव तावका राजन्पाण्डवेयान्महारथान् । 054c
शरवर्षेण महता समन्तात्पर्यवारयन् ॥ 054e
व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह । 055a
तावकानां च समरे पाण्डवेयैर्युयुत्सताम् ॥ 055c
तत्र योधास्तदा पेतुः परस्परसमाहताः । 056a
उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान् ॥ ॥ 056c

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे षड्विंशोऽध्यायः ॥ 26 ॥

9-26-17 मोक्षो नूनं कालसृष्टः इति क.पाठः ॥