अध्यायः 025

भीमेनावशिष्टानां दुर्योधनानुजानां वधः ॥ 1 ॥

सञ्जय उवाच । 001
गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत । 001a
वध्यमाने बले चैव भीमसेनेन संयुगे ॥ 001c
चरन्तं च प्रपश्यामो भीमसेनमरिन्दमम् । 002a
दण्डहस्तं यथा क्रुद्धमन्तकं प्राणहारिणम् ॥ 002c
समेत्य समरे राजन्हतशेषाः सुतास्तव । 003a
अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव । 003c
सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन् ॥ 003e
श्रुतर्वा सञ्जयश्चैव जयत्सेनः श्रुतान्तकः । 004a
दुर्विमोचनकश्चैव तथा दुर्विषहो बली ॥ 004c
दुर्मर्षणः सुजातश्च जैत्रो भूरिबलो रविः । 005a
इत्येते सहिता भूत्वा तव पुत्राः समन्ततः । 005c
भीमसेनमभिद्रुत्य रुरुधुः सर्वतो दिशम् ॥ 005e
ततो भीमो महाराज स्वरथं पुनरास्थितः । 006a
मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु ॥ 006c
ते कीर्यमाणा भीमेन पुत्रास्तव महारणे । 007a
भीमसेनमुपासेदुः प्रवाता इव कुञ्जरम् ॥ 007c
ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह । 008a
क्षुरप्रेण प्रमथ्याशु पातयामास भूतले ॥ 008c
ततोऽपरेण भल्लेन सर्वावरणभेदिना । 009a
श्रुतान्तमवधीद्भीमस्तव पुत्रं महारथः ॥ 009c
जयत्सेनं ततो विद्ध्वा नाराचेन हसन्निव । 010a
पातयामास कौरव्यं रथोपस्थादरिन्दमः । 010c
स पपात रथाद्राजन्भूमौ तूर्णं ममार च ॥ 010e
श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष । 011a
शतेन गृध्रवाजानां शराणां नतपर्वणाम् ॥ 011c
ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम् । 012a
त्रीनेतांस्त्रिभिरानर्च्छद्विषाग्निप्रतिमैः शरैः ॥ 012c
ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः । 013a
वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः ॥ 013c
ततोऽपरेण भल्लेन तीक्ष्णेन च परन्तपः । 014a
दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे ॥ 014c
स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः । 015a
गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः ॥ 015c
दुष्प्रधर्षं ततश्चैव सुजातं च सुतं तव । 016a
एकैकं न्यहनत्सङ्ख्ये द्वाभ्यान्द्वाभ्यां चमूमुखे । 016c
तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ ॥ 016e
ततः पतन्तं समरे अभिवीक्ष्य सुतं तव । 017a
भल्लेन पातयामास भीमो दुर्विषहं रणे ॥ 017c
स पपात हतो बाहात्पश्यतां सर्वधन्विनाम् ॥ 018ac
दृष्ट्वा तु निहतान्भ्रातॄन्वहूनेकेन संयुगे । 019a
अमर्षवशमापन्नः श्रुतर्वा भीममभ्ययात् ॥ 019c
विक्षिपन्सुमहच्चापं कार्तस्वरविभूषितम् । 020a
विसृजन्सायकांश्चैव विषाग्निप्रतिमान्बहून् ॥ 020c
स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे । 021a
अथैनं छिन्नधन्वानं विंशत्या समवाकिरत् ॥ 021c
ततोऽन्यद्धनुरादाय भीमसेनो महाबलः । 022a
अवाकिरत्तव सुतं तिष्ठतिष्ठेति चाब्रवीत् ॥ 022c
महदासीत्तयोर्युद्धं चित्ररूपं भयानकम् । 023a
यादृशं समरे पूर्वं जम्भवासवयोर्युधि ॥ 023c
तयोस्तत्र शितैर्मुक्तैर्यमदण्डनिभैः शरैः । 024a
समाच्छन्ना धरा सर्वा खं दिशो विदिशस्तथा ॥ 024c
ततः श्रुतर्वा सङ्क्रुद्धो धनुरादाय सायकैः । 025a
भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत् ॥ 025c
सोऽतिविद्धो महाराज तव पुत्रेण धन्विना । 026a
भीमः सञ्चुक्षुभे क्रुद्धः पर्वणीव महोदधिः ॥ 026c
ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष । 027a
सारथिं चतुरश्चाश्वाञ्शरैर्निन्ये यमक्षयम् ॥ 027c
विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः । 028a
अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम् ॥ 028c
श्रुतर्वा विरथो राजन्नाददे खड्गचर्मणी । 029a
अथास्याददतः खड्गं शतचन्द्रं च भानुमत् । 029c
क्षुरप्रेणं शिरः कायात्पातयामास पाण्डवः ॥ 029e
छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मना । 030a
पपात कायः स्वरथाद्वसुधामनुनादयन् ॥ 030c
तस्मिन्निपतिते वीरे तावका भयमोहिताः । 031a
अभ्यद्रवन्त सङ्ग्रामे भीमसेनं युयुत्सवः ॥ 031c
तानापतत एवाशु हतशेषाद्बलार्णवात् । 032a
दंशितान्प्रतिजग्राह भीमसेनः प्रतापवान् ॥ 032c
ते तु तं वै समासाद्य परिवव्रुः समन्ततः ॥ 033ac
ततस्तु संवृतो भीमस्तावकान्निशितैः शरैः । 034a
पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान् ॥ 034c
ततः पञ्चशतान्हत्वा सवरूथान्महारथान् । 035a
जघान कुञ्जरानीकं पुनः सप्तशतं युधि ॥ 035c
हत्वा शतसहस्राणि पत्तीनां परमेषुभिः । 036a
वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते ॥ 036c
भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव । 037a
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो ॥ 037c
तं तथा युध्यमानं च विनिघ्नन्तं च तावकान् । 038a
ईक्षितुं नोत्सहन्ते स्म तव सैन्या नराधिप ॥ 038c
विद्राव्य च कुरून्सर्वांस्तांश्च हत्वा पदानुगान् । 039a
दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान् ॥ 039c
हतभूयिष्ठयोधा तु तव सेना विशाम्पते । 040a
किञ्चिच्छेषा महाराज कृपणं समपद्यत ॥ ॥ 040c

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे पञ्चविंशोऽध्यायः ॥ 25 ॥

9-25-7 प्रवणादिव कुञ्जरमिति झ.पाठः ॥