अध्यायः 024

धृष्टद्युम्नपराजितेन दुर्योधनेनाश्वारोहणेन पलायनम् ॥ 1 ॥ अश्वत्थामादिभिस्तदन्वेषणम् ॥ 2 ॥

सञ्जय उवाच । 001
युध्यतां यतमानानां शूराणामनिवर्तिनाम् । 001a
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ॥ 001c
इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः । 002a
विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः ॥ 002c
तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना । 003a
सम्प्रदुद्राव सङ्ग्रामात्तव पुत्रस्य पश्यतः ॥ 003c
पितॄन्भ्रातॄन्परित्यज्य वयस्यानपि चापरे ॥ 004ac
हतधुर्या रथाः केचिद्धतसूतास्तथा परे । 005a
भग्नाक्षयुगचक्रेषाः केचिदासन्विशाम्पते ॥ 005c
अन्येषां सायकाः क्षीणास्तथाऽन्ये बाणपीडिताः । 006a
अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः ॥ 006c
केचित्पुत्रानुपादाय हतभूयिष्ठबान्धवाः । 007a
विचुक्रुशुः पितॄंस्त्वन्ये सहायानपरे पुनः ॥ 007c
बान्धवांश्च नरव्याघ्र भ्रातॄन्सम्बन्धिनस्तथा । 008a
दुद्रुवुः केचिदुत्सृज्य तत्रतत्र विशाम्पते ॥ 008c
बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः । 009a
निःश्वसन्ति स्म दृश्यन्ते पार्थबाणहता नराः ॥ 009c
तानन्ये रथमारोप्य ह्याश्वास्य च मुहूर्तकम् । 010a
विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे ॥ 010c
तानपास्य गताः केचित्पुनरेव युयुत्सवः । 011a
कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः ॥ 011c
पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम् । 012a
वर्माणि च समारोप्य केचिद्भरतसत्तम ॥ 012c
समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च । 013a
पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन् ॥ 013c
सज्जयित्वा रथान्केचिद्यथामुख्यं विशाम्पते । 014a
आवृत्य पाण्डवानीकं पुनर्युद्धमरोचयन् ॥ 014c
ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे । 015a
त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः ॥ 015c
आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः । 016a
पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन् ॥ 016c
धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः । 017a
नाकुलिस्तु शतानीको रथानीकमयोधयन् ॥ 017c
पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः । 018a
अभ्यद्रवत्सुसङ्क्रुद्धस्तावकान्हन्तुमुद्यतः ॥ 018c
ततस्त्वापततस्तस्य तव पुत्रो जनाधिप । 019a
बाणसङ्घाननेकान्वै प्रेषयामास भारत ॥ 019c
धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना । 020a
नाराचैरर्धनाराचैर्बहुभिः क्षिप्रकारिभिः ॥ 020c
वत्सदन्तैश्च बाणैश्च कर्मारपरिमार्जितैः । 021a
अश्वांश्च चतुरो हत्वा बाह्वोरुरसि चार्पितः ॥ 021c
सोऽतिविद्धो महेष्वासस्तोत्रार्दित इव द्विपः । 022a
तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे । 022c
सारथेश्चास्य भल्लेन शिरः कायादपाहरत् ॥ 022e
ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः । 023a
अपाक्रामद्धतरथो नातिदूरमरिन्दमः ॥ 023c
दृष्टा तु हतविक्रान्तं स्वमनीकं महाबलः । 024a
तव पुत्रो महाराज प्रययौ यत्र सौबलः ॥ 024c
ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः । 025a
पाण्डवान्रथिनः सर्वान्समन्तात्पर्यवारयन् ॥ 025c
ते वृताः समरे पञ्च गजानीकेन भारत । 026a
अशोभन्त महाराज ग्रहास्तारागणैरिव ॥ 026c
ततोऽर्जुनो महाराज लब्धलक्षो महाभुजः । 027a
विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः ॥ 027c
तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः । 028a
नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमयोधयत् ॥ 028c
तत्रैकबाणनिहतानपश्याम महागजान् । 029a
पतितान्पात्यमानांश्च निर्भिन्नान्सव्यसाचिना ॥ 029c
भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः । 030a
करेणादाय महतीं गदामभ्यपतद्बली । 030c
अथाप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः ॥ 030e
तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम् । 031a
वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं च सुस्रुवुः ॥ 031c
आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे ॥ 032ac
गदया भीमसेनेन भिन्नकुम्भान्निपातितान् । 033a
धावमानानपश्याम कुञ्जरान्पर्वतोपमान् ॥ 033c
प्राद्रवन्कुञ्जरास्ते तु भीमसेनगदाहताः । 034a
पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः ॥ 034c
प्रभिन्नकुम्भांस्तु बहून्द्रवमाणानितस्ततः । 035a
पतमानांश्च सम्प्रेक्ष्य वित्रेसुस्तव सैनिकाः ॥ 035c
युधिष्ठिरोऽपि सङ्क्रुद्धो माद्रीपुत्रौ च पाण्डवौ । 036a
गार्ध्रपत्रैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः ॥ 036c
धृष्टद्युम्नस्तु समरे पारजित्य नराधिपम् । 037a
अपक्रान्ते तव सुते हयपृष्ठे समाश्रिते ॥ 037c
दृष्ट्वा च पाण्डवान्सर्वान्कुञ्चरैः परिवारितान् । 038a
धृष्टद्युम्नो महाराज सहसा समुपाद्रवत् ॥ 038c
पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ । 039a
अदृष्ट्वा तु रथानीके दुर्योधनमरिन्दमम् ॥ 039c
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः । 040a
अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः ॥ 040c
तेऽपश्यमाना राजानं वर्तमाने जनक्षये । 041a
मन्वाना निहतं तत्र तव पुत्रं महारथाः । 041c
विवर्णवदना भूत्वा पर्यपृच्छन्त ते सुतम् ॥ 041e
आहुः केचिद्धते सूते प्रयातो यत्र सौबलः । 042a
हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् ॥ 042c
अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः । 043a
दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति । 043c
युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति ॥ 043e
ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः । 044a
शरैः सम्पीड्यमानास्तु नातिव्यक्तमथाब्रुवन् ॥ 044c
इदं सर्वं बलं हन्मो येन स्म परिवारिताः । 045a
एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः ॥ 045c
श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः । 046a
भित्त्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् ॥ 046c
कृपश्च कृतवर्मा च प्रययौ यत्र सौबलः । 047a
रथानीकं परित्यज्य शूराः सुदृढधन्विनः ॥ 047c
ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरस्कृताः । 048a
आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान् ॥ 048c
दृष्ट्वा तु तानापततः सम्प्रहृष्टान्महारथान् । 049a
पराक्रान्तास्ततो वीरा निराशा जीविते तदा ॥ 049c
विवर्णमुखभूयिष्ठमभवत्तावकं बलम् । 050a
परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान् ॥ 050c
राजन्बलेन त्र्यङ्गेन त्यक्त्वा जीवितमात्मनः । 051a
आत्मना पञ्चमोऽयुध्यं पाञ्चालस्य बलेन ह ॥ 051c
तस्मिन्देशे व्यवस्थाय यत्र शारद्वतः स्थितः । 052a
सम्प्रद्रुता वयं पञ्च किरीटिशरपीडिताः ॥ 052c
धृष्टद्युम्नं महारौद्रं तत्र नाभूद्रणो महान् । 053a
जितास्तेन वयं सर्वे व्यपयाम रणात्ततः ॥ 053c
अथापश्यं सात्यकिं तमुपायातं महारथम् । 054a
रथैश्चतुः शतैर्वीरो मामभ्यद्रवदाहवे ॥ 054c
धृष्टद्युम्नादहं मुक्तः कञ्छिछ्रान्तवाहनात् । 055a
पतितो माधवानीकं दुष्कृती नरकं यथा ॥ 055c
तत्र युद्धमभूद्धोरं मुहूर्तमतिदारुणम् ॥ 056ac
सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम् । 057a
जीवग्राहमगृह्णान्मां मूर्च्छितं पतितं भुवि ॥ 057c
ततो मुहूर्तादिव तद्गजानीकमविध्यत । 058a
गदया भीमसेनेन नाराचैरर्जुनेन च ॥ 058c
अभिपिष्टैर्महानागैः समन्तात्पर्वतोपमैः । 059a
नातिप्रसिद्धैव गतिः पाण्डवानामजायत ॥ 059c
रथमार्गं ततश्चक्रे भीमसेनो महाबलः । 060a
पाण्डवानां महाराज व्यपाकर्षन्महागजान् ॥ 060c
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः । 061a
अपश्यन्तो रथानीके दुर्योधनमरिन्दमम् । 061c
राजानं मृगयामासुस्तव पुत्रं महारथम् ॥ 061e
परित्यज्य च पाञ्चाल्यं प्रयाता यत्र सौबलः । 062a
राज्ञोऽदर्शनसंविग्ना वर्तमानो जनक्षये ॥ ॥ 062c

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे चतुर्विंशोऽध्यायः ॥ 24 ॥

9-24-4 सम्प्रदुद्रावेति पूर्वस्थं सम्प्रदुद्रुवुरिति विपरिणामेन सम्बध्यते ॥