अध्यायः 023
अर्जुनेन दुर्योधनागर्हणपूर्वकं तत्सेनानिबर्हणम् ॥ 1 ॥
सञ्जय उवाच । 001
अल्पावशिष्टे सैन्ये तु पाण्डवैर्निहते बले । 001a
अश्वैः सप्तसहस्रैस्तु उपावर्तत सौबलः ॥ 001c
स यात्वा वाहिनीं तूर्णं चोदयानः स्वकान्युधि । 002a
युध्यध्वमिति संहृष्टाः पुनःपुनररिन्दमाः ॥ 002c
अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महाबलः । 003a
शकुनेस्तद्वचः श्रुत्वा तमूचुर्भरतर्षभ ॥ 003c
असौ तिष्ठति कौरव्यो रणमध्ये महाबलः । 004a
यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम् ॥ 004c
यत्र ते सतनुत्राणा रथास्तिष्ठन्ति दंशिताः । 005a
यत्रैष तुमुलः शब्दः पर्जन्यनिनदोपमः ॥ 005c
तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम् । 006a
एवमुक्तस्तु तैर्योधैः शकुनिः सौबलस्तदा ॥ 006c
प्रययौ तत्र यत्रास्ते पुत्रस्तव नराधिप । 007a
सर्वतः संवृतो वीरैः समरे चित्रयोधिभिः ॥ 007c
ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम् । 008a
स रथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः ॥ 008c
दुर्योधनमिदं वाक्यं हृष्टरूपो विशाम्पते । 009a
कृतकार्यमिवात्मानं मन्यमानोऽब्रवीन्नृपम् ॥ 009c
जहि राजन्रथानीकमश्वाः सर्वे जिता मया । 010a
नात्यक्त्वा जीवितं सङ्ख्ये शक्यो जेतुं युधिष्ठिरः ॥ 010c
हते तस्मिन्रथानीके पाण्डवेनाभिपालिते । 011a
गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा ॥ 011c
श्रुत्वा तु वचनं तस्य तावका जयगृद्धिनः । 012a
जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम् ॥ 012c
बद्धनिस्त्रिंशहस्ताश्च प्रगृहीतशरासनाः । 013a
शरासनानि धून्वानाः सिंहनादान्प्रचक्रिरे ॥ 013c
ततो ज्यातलनिर्घोषः पुनरासीद्विशाम्पते । 014a
प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः ॥ 014c
तान्समीपगतान्दृष्ट्वा जनानुद्यतकार्मुकान् । 015a
उवाच देवकीपुत्रं कुन्तीपुत्रो धनञ्जयः ॥ 015c
चोदयाश्वानसम्भ्रान्तः प्रविशैतद्बलार्णवम् । 016a
अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः ॥ 016c
अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन । 017a
वर्तमानस्य महतः समासाद्य परस्परम् ॥ 017c
अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम् । 018a
क्षयमद्य गता युद्धे पश्य दैवं यथाविधम् ॥ 018c
समुद्रकल्पं च बलं धार्तराष्ट्रस्य माधव । 019a
अस्मनासाद्य सञ्जातं गोष्पदोपममच्युत ॥ 019c
हते भीष्मे धीर्ममासीच्छमः स्यादिति माधव । 020a
न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः ॥ 020c
उक्तं भीष्मेण यद्वाक्यं हितं तथ्यं च माधव । 021a
तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः ॥ 021c
तस्मिंस्तु निहते भीष्मे प्रच्युते पृथिवीपतौ । 022a
न जाने कारणं किन्तु येन युद्धमवर्तत ॥ 022c
मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुबालिशान् । 023a
पतिते शन्तनोः पुत्रे येऽकार्षुः संयुगं पुनः ॥ 023c
अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे । 024a
राधेये च विकर्णे च नैव शाम्यति वैशसम् ॥ 024c
अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते । 025a
सपुत्रे वै नरव्याघ्रे नैव शाम्यति वैशसम् ॥ 025c
श्रुतायुषि हते वीरे जलसन्धे च मागधे । 026a
श्रुतायुधे च नृपतौ नैव शाम्यति वैशसम् ॥ 026c
भूरिश्रवसि शल्ये च साल्ये चैव जनार्दन । 027a
आवन्त्येषु च वीरेषु नैव शाम्यति वैशसम् ॥ 027c
जयद्रथे च निहते राक्षसे चाप्यलायुधे । 028a
बाह्लिके सोमदत्ते च नैव शाम्यति वैशसम् ॥ 028c
भगदत्ते हते शूरे काम्भोजे च सुदारुणे । 029a
दुःशासने च निहते नैव शाम्यति वैशसम् ॥ 029c
दृष्ट्वा विनिहताञ्शूरान्पृथङ्माण्डलिकान्नृपान् । 030a
बलिनश्च रणे कृष्ण नैव शाम्यति वैशसम् ॥ 030c
अक्षौहिणीपतीन्दृष्ट्वा भीमसेननिपातितान् । 031a
मोहाद्वा यदि वा लोभान्नैव शाम्यति वैशसम् ॥ 031c
'हतप्रवीरां विध्वस्तां दृष्ट्वा चेमां चमूं रणे । 032a
अलम्बले च निहते नैव शाम्यति वैशसम् ॥ 032c
भ्रातॄन्विनिहतान्दृष्ट्वा वयस्यान्मातुलानपि । 033a
पुत्रान्विनिहतान्दृष्ट्वा नैव शाम्यति वैशसम्' ॥ 033c
को नु राजकुले जातः कौरवेषु विशेषतः । 034a
निरर्थकं महद्वैरं कुर्यादन्यः सुयोधनात् ॥ 034c
गुणतोऽभ्यधिकाञ्ज्ञात्वा बलतः शौर्यतोपि वा । 035a
अमूढः को नु युध्येत जानन्प्राज्ञो हिताहितम् ॥ 035c
किन्नु तस्य मनो ह्यासीत्त्वयोक्तस्य हितं वचः । 036a
प्रशमे पाण्डवैः सार्धं सोन्यस्य शृणुयात्कथम् ॥ 036c
येन शान्तनवो भीष्मो द्रोणो विदुर एव च । 037a
प्रत्याख्याताः शम्मस्यार्थे किन्नु तस्याद्य भेषजम् ॥ 037c
मौर्ख्याद्येन पिता वृद्धः प्रत्याख्यातो जनार्दन । 038a
तथा माता हितं वाक्यं भाषमाणा हितैषिणी ॥ 038c
प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद्वचः । 039a
कुलान्तकरणो व्यक्तं जात एष जनार्दन ॥ 039c
तथास्य दृश्यते चेष्टा नीतिश्चैव विशाम्पते । 040a
नैष दास्यति नो राज्यमिति मे मतिरच्युत ॥ 040c
उक्तोऽहं बहुशस्तात विदुरेण महात्मना । 041a
न जीवन्दास्यते भागं धार्तराष्ट्रः सुयोधनः ॥ 041c
यावत्प्राणा धरिष्यन्ति धार्तराष्ट्रस्य दुर्मतेः । 042a
तावद्युष्मास्वपापेषु प्रचरिष्यति पापकम् ॥ 042c
न च युक्तोऽन्यथा जेतुमृते युद्धेन माधव । 043a
इत्यब्रवीत्सदा मां हि विदुरः सत्यदर्शनः ॥ 043c
तत्सर्वमद्य जानामि व्यवसायं दुरात्मनः । 044a
यदुक्तं वचनं तेन विदुरेण महात्मना ॥ 044c
यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम् । 045a
अवामन्यत दुर्बुद्धिर्ध्रुवं नाशमुखे स्थितः ॥ 045c
उक्तं हि बहुभिः सिद्धैर्जातमात्रे सुयोधने । 046a
एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति ॥ 046c
तदिदं वचनं तेषां निरुक्तं वै जनार्दन । 047a
क्षयं याता हि राजानो दुर्योधनकृते भृशम् ॥ 047c
सोऽद्य सर्वान्रणे योधान्निहनिष्यामि माधव ॥ 048ac
क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते । 049a
वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति ॥ 049c
तदन्तं हि भवेद्वैरमनुमानेन माधव । 050a
एवं पश्यामि वार्ष्णेय चिन्तयन्प्रज्ञया स्वया । 050c
विदुरस्य च वाक्येन चेष्टया च दुरात्मनः ॥ 050e
तस्माद्याहि चमूं वीर यावद्धन्मि शितैः शरैः । 051a
दुर्योधनं महाबाहो वाहिनीं चास्य संयुगे ॥ 051c
क्षेममद्य करिष्यामि धर्मराजस्य माधव । 052a
हत्वैतद्दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः ॥ 052c
सञ्जय उवाच । 053
अभीशुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना । 053a
तद्बलौघममित्राणामभीतः प्राविशद्बलात् ॥ 053c
शरासनवनं घोरं शक्तिकण्टकसङ्कुलम् । 054a
गदापरिघपाषाणं रथनागमहाद्रुमम् ॥ 054c
हयपत्तिलताकीर्णं गाहमानो महायशाः । 055a
व्यचरत्तत्र गोविन्दो रथेनातिपताकिना ॥ 055c
ते हयाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे । 056a
दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः ॥ 056c
ततः प्रायाद्रथेनाजौ सव्यसाची परन्तपः । 057a
किरञ्शरशतांस्तीक्ष्णान्वारिधारा घनो यथा ॥ 057c
प्रादुरासीन्महाञ्शब्दः शराणां नतपर्वणाम् । 058a
इषुभिश्छाद्यमानानां समरे सव्यसाचिना ॥ 058c
असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन्भुवि । 059a
इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः ॥ 059c
नरान्नागान्समाहत्य हयांश्चापि विशाम्पते । 060a
अपतन्त रणे बाणाः पतङ्गा इव घोषिणः ॥ 060c
आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः । 061a
न प्राज्ञायन्त समरे दिशो वा प्रदिशोपि वा ॥ 061c
सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः । 062a
रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः ॥ 062c
ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः । 063a
पार्थं न प्राजहुर्घारा वध्यमानाः शितैः शरैः ॥ 063c
शरचापधरः पार्थः प्रज्वलन्निव भास्करः । 064a
ददाह समरे योधान्कक्षमग्निरिव ज्वलन् ॥ 064c
यथा वनान्ते वनपैर्विसृष्टः कक्षं दहेत्कृष्णगतिः सुघोषः । 065a
भूरिद्रुमं शुष्कलतावितानं भृशं समृद्धो ज्वलनः प्रतापी ॥ 065c
एवं स नाराचगणम्प्रतापी शरार्चिरुच्चावचतिग्मतेजाः । 066a
ददाह सर्वां तव पुत्रसेनाममृष्यमाणस्तरसा तरस्वी ॥ 066c
तस्येषवः प्राणहराः सुमुक्ता नासज्जन्वै वर्मसु रुक्मपुङ्खाः । 067a
न च द्वितीयं प्रमुमोच बाणं नरे हये वा परमद्विपे वा ॥ 067c
अनेकरूपाकृतिभिर्हि बाणैर्महारथानीकमनुप्रविश्य । 068a
स एव एकस्तव पुत्रस्य सेनां जघान दैत्यानिव वज्रपाणिः ॥ ॥ 068c
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे त्रयोविंशोऽध्यायः ॥ 23 ॥
9-23-42 पापकं प्रचरिष्यति आचरिष्यति धार्तराष्ट्र इति शेषः ॥