अध्यायः 022

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच । 001
वर्तमाने तदा युद्धे घोररूपे भयानके । 001a
अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः ॥ 001c
तांस्तु सर्वानयन्तेन सन्निवार्य महारथाः । 002a
पुत्रास्ते योधयामासुः पाण्डवानामनीकिनीम् ॥ 002c
निवृत्ताः सहसा योधास्तव पुत्रजयैषिणः । 003a
सन्निवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम् । 003c
तावकानां परेषां च देवासुररणोपमम् ॥ 003e
परेषां तावकानां च नासीत्कश्चित्पराङ्मुखः ॥ 004ac
अनुमानेन युध्यन्ते सञ्ज्ञाभिश्च परस्परम् । 005a
तेषां क्षयो महानासीद्युध्यतामितरेतरम् ॥ 005c
ततो युधिष्ठिरो राजा क्रोधेन महता युतः । 006a
जिगीषमाणः सङ्ग्रामे धार्तराष्ट्रान्सराजकान् ॥ 006c
त्रिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खैः शिलाशितैः । 007a
चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः ॥ 007c
अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम् । 008a
अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् ॥ 008c
ततो दुर्योधनो राजा रथान्सप्तशतान्रणे । 009a
प्रैषयद्यत्र राजाऽसौ धर्मपुत्रो युधिष्ठिरः ॥ 009c
ते रथा रथिभिर्युक्ता मनोमारुतरंहसः । 010a
अभ्यद्रवन्त सङ्ग्रामे कौन्तेयस्य रथं प्रति ॥ 010c
ते समन्तान्महाराज परिवार्य युधिष्ठिरम् । 011a
अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम् ॥ 011c
तं दृष्ट्वा धर्मराजानं कौरवेयैस्तथावृतम् । 012a
नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः ॥ 012c
रथैरश्ववरैर्युक्तैः किङ्किणीजालसंवृतैः । 013a
आजग्मुरथ रक्षन्तः कुन्तीपुत्रं युधिष्ठिरम् ॥ 013c
ततः प्रववृते रौद्रः सङ्ग्रामः शोणितोदकः । 014a
पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः ॥ 014c
रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम् । 015a
पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारयन् ॥ 015c
तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः । 016a
न च तत्तादृशं दृष्टं नैव चापि परिश्रुतम् ॥ 016c
वर्तमाने तदा युद्धे निर्मर्यादे समन्ततः । 017a
वध्यमानेषु योधेषु तावकेष्वितरेषु च ॥ 017c
विनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः । 018a
उत्क्रुष्टैः सिंहनादैश्च गर्जितैश्चैव धन्विनाम् ॥ 018c
अतिप्रवृत्ते युद्धे च छिद्यमानेषु मर्मसु । 019a
धावमानेषु योधेषु जयगृद्धिषु मारिष ॥ 019c
संहारे सर्वतो जाते पृथिव्यां शोकसम्भवे । 020a
बह्वीनामुत्तमस्त्रीणां सीमन्तोद्धरणे कृते ॥ 020c
निर्मर्यादे महायुद्धे वर्तमाने सुदारुणे । 021a
प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः ॥ 021c
चचाल शब्दं कुर्वाणा सपर्वतवना मही । 022a
सदण्डाः सोल्मुका राजन्कीर्यमाणाः समन्ततः ॥ 022c
उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम् । 023a
विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः ॥ 023c
अश्रूणि मुमुचुर्नागा वेपथुं चास्पृशन्भृशम् । 024a
एतान्घोराननादृत्य समुत्पातान्सुदारुणान् ॥ 024c
पुनर्युद्धाय संयत्ताः क्षत्रियास्तस्थुरव्यथाः । 025a
रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः ॥ 025c
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् । 026a
युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान् ॥ 026c
ततो नः सम्प्रायातानां मद्रयोधास्तरस्विनः । 027a
हृष्टाः किलाकिलाशब्दमकुर्वत परे तथा ॥ 027c
अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः । 028a
शरासनानि धुन्वन्तः शरवर्षैरवाकिरन् ॥ 028c
ततो हतं परैस्तत्र मद्रराजबलं तदा । 029a
दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम् ॥ 029c
गान्धारराजस्तु पुनर्वाक्यमाह ततो बली । 030a
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ 030c
अनीकं दशसाहस्रमश्वानां भरतर्षभ । 031a
आसीद्गान्धारराजस्य विशालप्रासयोधिनाम् ॥ 031c
बलेन तेन विक्रम्य वर्तमाने जनक्षये । 032a
पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः ॥ 032c
तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः । 033a
अभज्यत महाराज पाण्डूनां सुमहद्बलम् ॥ 033c
ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात् । 034a
अभ्यनोदयदव्यग्रः सहदेवं महाबलम् ॥ 034c
असौ सुबलपुत्रो नो जघनं पीड्य दंशितः । 035a
सैन्यानि सूदयत्येष पश्य पाण्डव दुर्मतिः ॥ 035c
गच्छ त्वं द्रौपदेयैश्च शकुनिं सौबलं जहि । 036a
रथानीकमहं धक्ष्ये पाञ्चालसहितोऽनघ ॥ 036c
गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया । 037a
पादाताश्च त्रिसाहस्राः शकुनिं तैर्वृतो जहि ॥ 037c
ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः । 038a
पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान् ॥ 038c
पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः । 039a
रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम् ॥ 039c
ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान् । 040a
जघान पृष्ठतः सेनां जयगृद्वः प्रतापवान् ॥ 040c
अश्वारोहास्तु संरब्धाः पाण्डवानां तरस्विनाम् । 041a
प्राविशन्सौबलानीकमभ्यतिक्रम्य तान्रथान् ॥ 041c
ते तत्र सादिनः शूराः सौबलस्य महद्बलम् । 042a
रणमध्ये व्यतिष्ठन्त शरवर्षैरवाकिरन् ॥ 042c
तदुद्यतगदाप्रासमकापुरुषसेवितम् । 043a
प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव ॥ 043c
उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन् । 044a
न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत ॥ 044c
शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ । 045a
ज्योतिषामिव सम्पातमपश्यन्कुरुपाण्डवाः ॥ 045c
ऋष्टिभिर्विमलाभिश्च तत्रतत्र विशाम्पते । 046a
सम्पतन्तीभिराकाशमावृतं बह्वशोभत ॥ 046c
प्रासानां पततां राजन्रूपमासीत्समन्ततः । 047a
शलभानामिवाकाशे तदा भरतसत्तम ॥ 047c
रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः । 048a
हयाः परिपतन्तिस्म शतशोऽथ सहस्रशः ॥ 048c
अन्योन्यं परिपिष्टाश्च समासाद्य परस्परम् । 049a
सुविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः ॥ 049c
ततोऽभवत्तमो घोरं सैन्येन रजसा वृतम् । 050a
तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिन्दम ॥ 050c
अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति । 051a
भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु ॥ 051c
केशाकेशि समालग्ना न शेकुश्चेष्टितुं नराः । 052a
अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः ॥ 052c
मल्ला इव समासाद्य निजघ्नुरितरेतरम् । 053a
अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः ॥ 053c
भूमौ निपतिताश्चान्ये बहवो विजयैषिणः । 054a
तत्रतत्र व्यदृश्यन्त पुरुषाः शूरमानिनः ॥ 054c
रक्तोक्षितैश्छिन्नभुजैरवकृष्टशिरोरुहैः । 055a
व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः ॥ 055c
दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित् । 056a
साश्वारोहैर्हतैरश्वैरावृते वसुधातले ॥ 056c
रुधिरोक्षितसन्नाहैरात्तशस्त्रैरुदायुधैः । 057a
नानाप्रहरणैर्घोरैः परस्परवधैषिभिः । 057c
सुसन्निकृष्टे सङ्ग्रामे हतभूयिष्ठसैनिके ॥ 057e
स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशाम्पते । 058a
षट्साहस्रैर्हयैः शिष्टेरपायाच्छकुनिस्ततः ॥ 058c
तथैव पाण्डवानीकं रुधिरेण समुक्षितम् । 059a
षट्साहस्रैर्हयैः शिष्टैरपायाच्छ्रान्तवाहनम् ॥ 059c
अश्वारोहाश्च पाण्डूनामब्रुवन्रुधिरोक्षिताः । 060a
सुसन्निकृष्टे सङ्ग्रामे भूयिष्ठे त्यक्तजीविताः ॥ 060c
न हि शक्यं रथैर्योद्धुं कुत एव महागजैः । 061a
रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि ॥ 061c
प्रतियातो हि शकुनिः स्वमनीकमवस्थितः । 062a
न पुनः सौबलो राजा योद्धुमभ्यागमिष्यति ॥ 062c
ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः । 063a
प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः ॥ 063c
सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते । 064a
एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः ॥ 064c
ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः । 065a
पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम् ॥ 065c
तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाऽभ्यवर्तत । 066a
तावकानां परेषां च परस्परवधैषिणाम् ॥ 066c
ते चान्योन्यमवैक्षन्त तस्मिन्वीरसमागमे । 067a
योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः ॥ 067c
असिभिश्छिद्यमानानां शिरसां लोकसङ्क्षये । 068a
प्रादुरासीन्महाञ्शब्दस्तालानां पततामिव ॥ 068c
विमुक्तानां शरीराणां छिन्नानां पततां भुवि । 069a
सायुधानां च बाहूनामूरूणां च विशाम्पते । 069c
आसीत्कटकटाशब्दः सुमहान्रोमहर्षणः ॥ 069e
निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि । 070a
योधाः परिपतन्ति स्म यथाऽऽमिषकृते खगाः ॥ 070c
अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम् । 071a
अहम्पूर्वमहम्पूर्वमिति निघ्नन्सहस्रशः ॥ 071c
संयातेनासनभ्रष्टैरश्वारोहैर्गतासुभिः । 072a
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः ॥ 072c
स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रगामिनाम् । 073a
स्तनतां च मनुष्याणां सन्नद्धानां विशाम्पते ॥ 073c
शक्त्यृष्टिप्रासशब्दश्च तुमुलः समपद्यत । 074a
भिन्दतां परमर्माणि राजन्दुर्मन्त्रिते तव ॥ 074c
श्रमाभिभूताः संरब्धा श्रान्तवाहाः पिपासवः । 075a
विक्षताश्च शितैः शस्त्रैरभ्यवर्न्तत तावकाः ॥ 075c
मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः । 076a
जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान् ॥ 076c
बहवश्च गतप्राणाः क्षत्रिया जयगृद्धिनः । 077a
भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः ॥ 077c
वृकगृध्रशृगालानां तुमुले मोदनेऽहनि । 078a
आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः ॥ 078c
नराश्वकायैः सञ्छन्ना भूमिरासीद्विशाम्पते । 079a
रुधिरोदकचित्रा च भीरूणां भयवर्धिनी ॥ 079c
असिभिः पट्टसैः शूलैस्तक्षमाणाः पुनःपुनः । 080a
तावकाः पाण्वेयाश्च न न्यवर्तन्त भारत ॥ 080c
प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम् । 081a
योधाः परिपतन्ति स्म वमन्तो रुधिरं मुखैः ॥ 081c
शिरो गृहीत्वा केशेषु कबन्धः स प्रदृश्यते । 082a
उद्यम्य च शितं खड्गं रुधिरेण परिप्लुतम् ॥ 082c
तथोत्थितेषु बहुषु कबन्धेषु नराधिप । 083a
तथा रुधिरगन्धेन योधाः कश्मलमाविशन् ॥ 083c
मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम् । 084a
अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः ॥ 084c
ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्विनः । 085a
पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः ॥ 085c
कोष्ठकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः । 086a
शस्त्रैर्नानाविधैर्जघ्नुर्युद्धपारं तितीर्षवः ॥ 086c
त्वदीयास्तांस्तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान् । 087a
रथाश्वपत्तिद्विरदाः पाण्डवानभिदुद्रुवुः ॥ 087c
केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम् । 088a
निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन् ॥ 088c
रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः । 089a
विमानेभ्यो दिवो भ्रष्टाः सिद्धाः पुण्यक्षयादिव ॥ 089c
एवमन्योन्यमायत्ता योधा जघ्नुर्महाहवे । 090a
पितॄन्भ्रातॄन्वयस्यांश्च पुत्रानपि तथा परे ॥ 090c
एवमासीदमर्यादं युद्धं भरतसत्तम । 091a
प्रासासिबाणकलिलं वर्तमाने सुदारुणे ॥ ॥ 091c

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे द्वाविंशोऽध्यायः ॥ 22 ॥