अध्यायः 021
सङ्कुलयुद्धम् ॥ 1 ॥
सञ्जय उवाच । 001
पुत्रस्तु ते महाराज रथस्थो रथिनां वरः । 001a
दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान् ॥ 001c
तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही । 002a
परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान् ॥ 002c
न च सोऽस्ति पुमान्कश्चित्पाण्डवानां बलार्णवे । 003a
हयो गजो रथो वाऽपि यः स्याद्बाणैरविक्षतः ॥ 003c
यं यं हि समरे योधं प्रपश्यामि विशाम्पते । 004a
स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत ॥ 004c
यथा सैन्येन रजसा समुद्भूतेन वाहिनी । 005a
प्रत्यदृश्यत सञ्छन्ना तथा बाणैर्महात्मनः ॥ 005c
बाणभूतामपश्याम पृथिवीं पृथिवीपते । 006a
दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना ॥ 006c
तेषु योधसहस्रेषु तावकेषु परेषु च । 007a
नास्ति दुर्योधनसमः पुमानिति मतिर्मम ॥ 007c
तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम् । 008a
यदेकं सहिताः पार्था नाभ्यवर्तन्त भारत ॥ 008c
युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ । 009a
भीमसेनं च सप्तत्या सहदेवं च पञ्चभिः ॥ 009c
नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः । 010a
पञ्चभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम् ॥ 010c
धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष । 011a
तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान् ॥ 011c
अभ्यद्रवत राजानं प्रगृह्यान्यन्महद्धनुः । 012a
ततो दुर्योधनं सङ्ख्ये विव्याध दशभिः शरैः ॥ 012c
नकुलस्तु ततो वीरो राजानं नवभिः शरैः । 013a
घोररूपैर्महेष्वासो विव्याध च ननाद च ॥ 013c
सात्यकिश्चैव राजानं शरेणानतपर्वणा । 014a
द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च पञ्चभिः । 014c
अशीत्या भीमसेनश्च शरै राजानमार्पयन् ॥ 014e
समन्तात्कीर्यमाणस्तु बाणसङ्घैर्महात्मभिः । 015a
न चचाल महाराज सर्वसैन्यस्य पश्यतः ॥ 015c
लाघवात्सौष्ठवाच्चापि वीर्याच्चापि महात्मनः । 016a
अति सर्वाणि भूतानि ददृशुः सर्वपार्थिवाः ॥ 016c
धार्तराष्ट्रा हि राजेन्द्र योधास्तु स्वल्पमन्तरम् । 017a
अपश्यमाना राजानं पर्यवर्तन्त दंशिताः ॥ 017c
तेषामापततां घोरस्तुमुलः समपद्यत । 018a
क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा स्वनः ॥ 018c
समासाद्य रणे ते तु राजानमपराजितम् । 019a
प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः ॥ 019c
भीमसेनं रणे क्रुद्धो द्रोणपुत्रो न्यवारयत् । 020a
तयोर्बाणैर्महाराज प्रमुक्तैः सर्वतोदिशम् । 020c
नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा ॥ 020e
तावुभौ क्रूरकर्माणावुभौ भारतदुःसहौ । 021a
घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ ॥ 021c
त्रासयन्तौ दिशः सर्वा ज्याक्षेपकठिनत्वचौ । 022a
शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत् ॥ 022c
तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभो । 023a
नादं चकार बलवत्सर्वसैन्यानि कम्पयन् ॥ 023c
एतस्मिन्नन्तरे वीरं राजानमपराजितम् । 024a
अपोवाह रथेनाजौ सहदेवः प्रतापवान् ॥ 024c
अथान्यं रथमास्थाय धर्मपुत्रो युधिष्ठिरः । 025a
शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः । 025c
ननाद च महानादं प्रवरः सर्वधन्विनाम् ॥ 025e
तद्युद्धमभवच्चित्रं घोररूपं च मारिष । 026a
प्रेक्षतां प्रीतिजननं सिद्धचारणसेवितम् ॥ 026c
उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम् । 027a
अभ्यवर्षदमेयात्मा शरवर्षैः समन्ततः ॥ 027c
तथैव नकुलः शूरः सौबलस्य सुतं रणे । 028a
शरवर्षेण महता समन्तात्पर्यवारयत् ॥ 028c
तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ । 029a
योधयन्तावपश्येतां कृतप्रतिकृतैषिणौ ॥ 029c
तथैव कृतवर्माणं शैनेयः शत्रुतापनः । 030a
योधयञ्शुशुभे राजन्बलिं शक्र इवाहवे ॥ 030c
दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे । 031a
अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः ॥ 031c
धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम् । 032a
राजानं योधयामास पश्यतां सर्वधन्विनाम् ॥ 032c
तयोर्युद्धं महच्चासीत्सङ्ग्रामे भरतर्षभ । 033a
प्रभिन्नयोर्यथा सक्तं मत्तयोर्वनहस्तिनोः ॥ 033c
गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबालान् । 034a
विव्याध बहुभिः शूरः शरैः सन्नतपर्वभिः ॥ 034c
तस्य तैरभवद्युद्धमिन्द्रियैरिव देहिनः । 035a
घोररूपमसंवार्यं निर्मर्यादमवर्तत ॥ 035c
ते च सम्पीडयामासुरिन्द्रियाणीव बालिशम् । 036a
स च तान्प्रतिसंरब्धः प्रत्ययोधयदाहवे ॥ 036c
एवं चित्रमभूद्युद्धं तस्य तैः सह भारत । 037a
उत्थायोत्थाय हि यथा देहिनामिन्द्रियैर्विभो ॥ 037c
नराश्चैव नरैः सार्धं दन्तिनो दन्तिभिस्तथा । 038a
हया हयैः समासक्ता रथिनो रथिभिः सह ॥ 038c
सङ्कुलं चाभवद्भूयो घोररूपं विशाम्पते ॥ 039ac
इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो । 040a
युद्धान्यासन्महाराज घोराणि च बहूनि च ॥ 040c
ते समासाद्य समरे परस्परमरिन्दमाः । 041a
व्यनदंश्चैव जघ्नुश्च समासाद्य महाहवे ॥ 041c
तेषां पत्रसमुद्भूतं रजस्तीव्रमदृश्यत । 042a
वातेन चोद्धतं राजन्धावद्भिश्चाश्वसादिभिः ॥ 042c
रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम् । 043a
रजः सन्ध्याभ्रकलिलं दिवाकरपथं ययौ ॥ 043c
रजसा तेन सम्पृक्तो भास्करो निष्प्रभः कृतः । 044a
सञ्छादिताऽभवद्भूमिस्ते च शूरा महारथाः ॥ 044c
मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः । 045a
वीरशोणितसिक्तायां भूमौ भरतसत्तम ॥ 045c
उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम् ॥ 046ac
ततोऽपश्यमहं भूयो द्वन्द्वयुद्धानि भारत । 047a
यथाप्राणं यथाश्रेष्ठं मध्याह्ने वै सुदारुणम् ॥ 047c
वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः । 048a
शब्दश्च तुमुलः सङ्ख्ये शराणां पततामभूत् 048c
महावेणुवनस्येव दह्यमानस्य पर्वते ॥ ॥ 048e
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे एकविंशोऽध्यायः ॥ 21 ॥
9-21-42 पत्रं वाहनम् ॥