अध्यायः 020

सात्यकिना कृतवर्मपराजयः ॥ 1 ॥

सञ्जय उवाच । 001
तस्मिंस्तु निहते शूरे साल्वे समितिशोभने । 001a
तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः ॥ 001c
तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः । 002a
दधार समरे शूरः शत्रुसैन्यं महाबलः ॥ 002c
सन्निवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे । 003a
शैलोपमं स्थिरं राजन्कीर्यमाणं शरैर्युधि ॥ 003c
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह । 004a
निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् ॥ 004c
तत्राश्चर्यमभूद्युद्वं सात्वतस्य परैः सह । 005a
यदेको वारयामास पाण्डुसेनां दुरासदाम् ॥ 005c
तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे । 006a
सिंहनादः प्रहृष्टानां दिविस्पृक्सुमहानभूत् ॥ 006c
तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ । 007a
शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः ॥ 007c
स समासाद्य राजानं क्षेमधूर्तिं महाबलम् । 008a
सप्तभिर्निशितैर्बाणैरनयद्यमसादनम् ॥ 008c
तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान् । 009a
जवेनाभ्यपतद्धीमान्हार्दिक्यः शिनिपुङ्गवम् ॥ 009c
तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ । 010a
अन्योन्यमभिधावन्तौ शस्त्रप्रवरधारिणौ ॥ 010
पाण्डवाः सहपाञ्चाला योधाश्चान्ये नृपोत्तमाः । 011a
प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः ॥ 011c
नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ । 012a
अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्जरौ ॥ 012c
चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुङ्गवौ । 013a
मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम् ॥ 013c
चापवेगबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः । 014a
आकाशे समपश्याम पतङ्गानिव शीघ्रगान् ॥ 014c
तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः । 015a
अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान् ॥ 015c
स दीर्घबाहुः सङ्क्रुद्धस्तोत्रार्दित इव द्विपः । 016a
अष्टभिः कृतवर्माणमविध्यत्परमेषुभिः ॥ 016c
ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः । 017a
सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे ॥ 017c
निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुङ्गवः । 018a
अन्यदादत्त वेगेन शैनेयः सशरं धनुः ॥ 018c
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् । 019a
आरोप्य च धनुः शीघ्रं महावीर्यो महाबलः ॥ 019c
अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा । 020a
कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात् ॥ 020c
ततः सुनिशितैर्बाणैर्दशभिः शिनिपुङ्गवः । 021a
जघान सूतं चाश्वांश्च ध्वजं च कृतवर्मणः ॥ 021c
ततो राजन्महेष्वासः कृतवर्मा महारथः । 022a
हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम् ॥ 022c
रोषेण महताऽऽविष्टः शूलमुद्यम्य मारिष । 023a
चिक्षेप भुजवेगेन जिघांसुः शिनि पुङ्गवम् ॥ 023c
तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः । 024a
चूर्णितं पातयामास मोहयन्निव माधवम् । 024c
ततोऽपरेण भल्लेन हृद्येनं समताडयत् ॥ 024e
सुयुद्धे युयुधानेन हताश्वो हतसारथिः । 025a
कृतवर्मा कृतास्त्रेण धरणीमन्वपद्यत ॥ 025c
तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते । 026a
समपद्यत सर्वेषां सैन्यानां सुमहद्भयम् ॥ 026c
पुत्राणां तव चात्यर्थं विषादः समजायत । 027a
हतसूते हताश्वे तु विरथे कृतवर्मणि ॥ 027c
हताश्वं च समालक्ष्य हतसूतमरिन्दम । 028a
अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुङ्गवम् ॥ 028c
तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम् । 029a
अपोवाह महाबाहुं तूर्णमायोधनादपि ॥ 029c
शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि । 030a
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ 030c
तत्परे नान्वबुध्यन्त सैन्येन रजसा वृताः । 031a
तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् ॥ 031c
दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्वबलमन्तिकात् । 032a
जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत् ॥ 032c
पाण्डूंश्च सर्वान्सङ्क्रुद्धो धृष्टद्युम्नं च पार्षतम् । 033a
शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः ॥ 033c
केकयान्सोमकांश्चैव सृञ्जयांश्चैव मारिष । 034a
असम्भ्रमं दुराधर्षः शितैर्बाणैरवाकिरत् ॥ 034c
अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः । 035a
यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशते । 035c
तथा दुर्योधनो राजा सङ्ग्रामे सर्वतोऽभवत् ॥ 035e
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे । 036a
अथान्यं रथमास्थाय हार्दिक्यः समपद्यत ॥ ॥ 036c

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे विंशोऽध्यायः ॥ 20 ॥

9-20-3 सात्वतं कृतवर्माणम् ॥