अध्यायः 019

सात्यकिना साल्ववधः ॥ 1 ॥

सञ्जय उवाच । 001
सन्निवृत्तेषु सैन्येषु साल्वो म्लेच्छगणाधिपः । 001a
अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवानां महद्बलम् ॥ 001c
आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम् । 002a
दृप्तमैरावतप्रख्यममित्रगणमर्दनम् ॥ 002c
योऽसौ महान्भद्रकुलप्रसूतः सुपूजितो धार्तराष्ट्रेण नित्यम् । 003a
सुकल्पितः शास्त्रविनिश्चयज्ञैः सदौपवाह्यः समरेषु राजन् ॥ 003c
ऐरावतं दैत्यगणान्विमृद्नञ्शक्रो यथा सञ्जनयन्भयानि । 004a
तमास्थितो राजवरो बभूव यथोदयस्थः सविता क्षपान्ते ॥ 004c
स तेन नागप्रवरेण राजन्नभ्युद्ययौ पाण्डुसुतान्समेतान् । 005a
शितैः पृषत्कैर्विददार वेगैर्महेन्द्रवज्रप्रतिमैः सुघोरैः ॥ 005c
ततः शरान्वै सृजतो महारणे योधांश्च राजन्नयतो यमालयम् । 006a
नास्यान्तरं ददृशुः स्वे परे वा यथा पुरा वज्रधरस्य दैत्याः ॥ 006c
ते पाण्डवाः सोमकाः सृञ्जयाश्च तमेकनागं ददृशुः समन्तात् । 007a
सहस्रशो वै विचरन्तमेकं यथा महेन्द्रस्य गजं समीपे ॥ 007c
सन्द्राव्यमाणं तु बलं परेषां परेतकल्पं विबभौ समन्ततः । 008a
नैवावतस्थे समरे भृशं भयाद्विमृद्यमानं तु परस्परं तदा ॥ 008c
ततः प्रभग्ना सहसा महाचमूः सा पाण्डवी तेन नराधिपेन । 009a
दिशश्चतस्रः सहसा विधाविता गजेन्द्रवेगं तमपारयन्ती ॥ 009c
दृष्ट्वा च तां वेगवता प्रभग्नां सर्वे त्वदीया युधि योधमुख्याः । 010a
अपूजयंस्ते तु नराधिपं तं दध्मुश्च शङ्खाञ्शशिसन्निकाशान् ॥ 010c
श्रुत्वा निनादं त्वथ कौरवाणां हर्षाद्विमुक्तं सह शङ्खशब्दैः । 011a
सेनापतिः पाण्डवसृञ्जयानां पाञ्चालपुत्रो ममृषे न कोपात् ॥ 011c
ततस्तु तं वै द्विरदं महात्मा प्रत्युद्ययौ त्वरमाणो जयाय । 012a
जम्भो यथा शक्रसमागमे वै नागेन्द्रमैरावणमिन्द्रवाह्यम् ॥ 012c
तमापतन्तं सहसा तु दृष्ट्वा पाञ्चालपुत्रं युधि राजसिंहः । 013a
तं वै द्विपं प्रेषयामास तूर्णं वधाय राजन्द्रुपदात्मजस्य ॥ 013c
स तं द्विपेन्द्रं सहसापतन्तमविध्यदग्निप्रतिमैः पृषत्कैः । 014a
कर्मारधौतैर्निशितैर्ज्वलद्भिर्नाराचमुख्यैस्त्रिभिरुग्रवेगैः ॥ 014c
ततोऽपरान्पञ्चशतान्महात्मा नाराचमुख्यान्विससर्ज कुम्भे । 015a
स तैस्तु विद्धः परमद्विपो रणे तदा परावृत्य भृशं प्रदुद्रुवे ॥ 015c
तं नागराजं सहसा प्रणुन्नं विद्राव्यमाणं विनिवर्त्य साल्वः । 016a
तोत्राङ्कुशैः प्रेषयामास तूर्णं पाञ्चालराजस्य सुतं प्रदिश्य ॥ 016c
दृष्ट्वा पतन्तं सहसा तु नागं धृष्टद्युम्नः स्वरथाच्छीघ्रमेव । 017a
गदां प्रगृह्योग्रजवेन वीरो भूमिं प्रपन्नो भयविह्वलाङ्गः ॥ 017c
स तं रथं हेमविभूषिताङ्गं साश्वं ससूतं सहसा विमृद्य । 018a
उत्क्षिप्य हस्तेन नदन्महाद्विपो विपोथयामास वसुन्धरातले ॥ 018c
पाञ्चालराजस्य सुतं च दृष्ट्वा तदार्दितं नागवरेण तेन । 019a
तमभ्यधावत्सहसा जवेन भीमः शिखण्डी च शिनेश्च नप्ता ॥ 019c
शरैश्च वेगं सहसा निगृह्य तस्याभितो व्यापततो गजस्य । 020a
स सङ्गृहीतो रथिभिर्गजो वै चचाल तैर्वार्यमाणश्च सङ्ख्ये ॥ 020c
ततः पृषत्कान्प्रववर्ष राजा सूर्यो यथा रश्मिजालं समन्तात् । 021a
तैराशुगैर्वध्यमाना रथौघाः प्रदुद्रुवुः सहितास्तत्रतत्र ॥ 021c
तत्कर्म साल्वस्य समीक्ष्य सर्वे पाञ्चालपुत्रा नृप सृञ्जयाश्च । 022a
हाहाकारैर्नादयन्ति स्म युद्धे द्विपं समन्ताद्रुरुधुर्नराग्र्याः ॥ 022c
पाञ्चालपुत्रस्त्वरितस्तु शूरो गदां प्रगृह्याचलशृङ्गकल्पाम् । 023a
ससम्भ्रमं भारत शत्रुघाती जवेन वीरोऽनुससार नागम् ॥ 023c
ततस्तु नागं धरणीधराभं मदं स्रवन्तं जलदप्रकाशम् । 024a
गदां समाविध्य भृशं जघान पाञ्चालराजस्य सुतस्तरस्वी ॥ 024c
स भिन्नकुम्भः सहसा विनद्य मुखात्प्रभूतं क्षतजं विमुञ्चन् । 025a
पपात नागो धरमीधराभः क्षितिप्रकम्पाच्चलितो यथाऽद्रिः ॥ 025c
निपात्यमाने तु तदा गजेन्द्रे हाहाकृते तव पुत्रस्य सैन्ये । 026a
स साल्वराजस्य शिनिप्रवीरो जहार भल्लेन शिरः शितेन ॥ 026c
हृतोत्तमाङ्गो युधि सात्वतेन पपात भूमौ सह नागराज्ञा । 027a
यथाऽद्रिशृङ्गं सुमहत्प्रणुन्नं वज्रेण देवाधिपचोदितेन ॥ ॥ 027c

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे एकोनविंशोऽध्यायः ॥ 19 ॥