अध्यायः 018

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच । 001
पातिते युधि दुर्धर्षे मद्रराजे महारथे । 001a
तावकास्तव पुत्राश्च प्रायशो विमुखाऽभवन् ॥ 001c
वणिजो नावि भिन्नायां यथागाधे महार्णवे । 002a
अपारे पारमिच्छन्तो हते शूरे महात्मनि ॥ 002c
मद्रराजे महाराज वित्रस्ताः शरविक्षताः । 003a
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ॥ 003c
वृषा यथा भग्नशृङ्गाः शीर्णदन्ता यथा गजाः । 004a
मध्याह्ने प्रत्यपायाम निर्जिताऽजातशत्रुणा ॥ 004c
न संस्थातुमनीकानि न च राजन्पराक्रमे । 005a
आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित् ॥ 005c
भीष्मे द्रोणे च निहते सूतपुत्रे च पातिते । 006a
यद्दुःखं तव योधानां भयं चासीद्विशाम्पते ॥ 006c
तद्भयं स च नः शोको भूय एवाभ्यवर्तत । 007a
निराशाश्च जये राजन्हते शल्ये महारथे ॥ 007c
हतप्रवीरा विध्वस्ता निकृत्ताश्च शितैः शरैः । 008a
मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् ॥ 008c
अश्वानन्ये गजानन्ये रथानन्ये महारथाः । 009a
आरुह्य जवसम्पन्नाः पादाताः प्राद्रवंस्तथा ॥ 009c
द्विसाहस्राश्च महातङ्गा गिरिरूपाः प्रहारिणः । 010a
सम्प्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठनोदिताः ॥ 010c
ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः । 011a
धावतश्चाप्यपश्याम श्वसमानाञ्शराहतान् ॥ 011c
तान्प्रभग्नान्हतान्दृष्ट्वा हतोत्साहान्पराजितान् । 012a
अभ्यवर्तन्त पाञ्चालाः पाण्डवाश्च जयैषिणः ॥ 012c
बाणशब्दरवाश्चापि सिंहनादाश्च पुष्कलाः । 013a
शङ्खशब्दश्च शूराणां दारुणः समपद्यत ॥ 013c
दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम् । 014a
अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह ॥ 014c
अद्य राजा सत्यधृतिर्हतामित्रो युधिष्ठिरः । 015a
अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया ॥ 015c
अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः । 016a
निःसञ्ज्ञः पतितो भूमौ किल्बिषं प्रतिपत्स्यते ॥ 016c
अद्य जानाति बीभत्सुं समर्थं स्वधन्विनाम् । 017a
अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् ॥ 017c
अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम् । 018a
अद्यप्रभृति पार्थं च प्रेष्यभूत इवाचरन् । 018c
विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः ॥ 018e
अद्य कृष्णस्य माहात्म्यं विजानातु महीपतिः । 019a
अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे ॥ 019c
अत्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे । 020a
'पुत्राणां च वधं घोरं भीमेन श्रोष्यते नृपः' ॥ 020c
अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः । 021a
हते दुर्योधने युद्धे शक्रेणेव तु शम्बरे ॥ 021c
यत्कृतं भीमसेनेन दुःशासनवधे तदा । 022a
कोऽन्यः कर्ताऽस्ति तल्लोके ऋते भीमान्महाबलात् । 022c
अद्य ज्येष्ठस्य जानीतां पाण्डवस्य पराक्रमम् । 023a
मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् ॥ 023c
अद्य ज्ञास्यति सङ्ग्रामे माद्रीपुत्रौ सुदुःसहौ । 024a
निहते सौबले वीरे गान्धारेषु च सर्वशः ॥ 024c
कथं जयो न तेषां स्याद्येषां योद्धा धनञ्जयः । 025a
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ 025c
द्रौपद्यास्तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ । 026a
शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः ॥ 026c
येषां च जगतो नाथो नाथः कृष्णो जनार्दनः । 027a
कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः ॥ 027c
'लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः । 028a
येषां नाथो हृषीकेशः सर्वलोकविभुर्हरिः' ॥ 028c
भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च । 029a
तथाऽन्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः ॥ 029c
कोऽन्यः शक्तो रणे जेतुमृते पार्थाद्युधिष्ठिरात् । 030a
यस्य नाथो हृषीकेशः सदा सत्ययशोनिधिः ॥ 030c
इत्येवं वदमानास्ते हर्षेण महता युताः । 031a
प्रभग्नांस्तावकान्योधान्संहृष्टाः पृष्ठतोऽन्वयुः ॥ 031c
धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान् । 032a
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः ॥ 032c
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् । 033a
दुर्योधनस्तदा सूतमब्रवीद्विस्मयन्निव ॥ 033c
मामतिक्रमते पार्थो धनुष्पाणिमवस्थितम् । 034a
जघने सर्वसैन्यानां शनैरश्वान्प्रचोदय ॥ 034c
जघने युध्यमानं हि कौन्तेयो मां न संशयः । 035a
नोत्सहेदभ्यतिक्रान्तुं वेलामिव महोदधिः ॥ 035c
पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम् । 036a
सैन्यरेणुं समुद्भूतं पश्य चैनं समन्ततः ॥ 036c
सिंहनादांश्च बहुशः शृणु घोरान्भयावहान् । 037a
तस्माद्याहि शनैः सूत जघनं परिपालय ॥ 037c
मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु । 038a
पुनरावर्तते तूर्णं मामकं बलमोजसा ॥ 038c
तच्छ्रुत्वा तव पुत्रस्य शूरस्य सदृशं वचः । 039a
सारथिर्हेमसञ्छन्नाञ्शरैरश्वानचोदयत् ॥ 039c
गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयः । 040a
एकविंशतिसाहस्राः संयुगायावतस्थिरे ॥ 040c
नानादेशसमुद्भूता नानारञ्जितवाससः । 041a
अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः ॥ 041c
तेषामापततां तत्र संहृष्टानां परस्परम् । 042a
सम्मर्दः सुमहाञ्चज्ञे घोररूपो भयानकः ॥ 042c
भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम् । 043a
बलेन चतुरङ्गेण नानादेश्यानवारयत् ॥ 043c
भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः । 044a
प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः ॥ 044c
आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः । 045a
धार्तराष्ट्रा विनेदुर्हि नान्यामकथनयन्कथाम् । 045c
परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः ॥ 045e
स वध्यमानः समरे पदातिगणसंवृतः । 046a
न चचाल ततः स्थानान्मैनाक इव पर्वतः ॥ 046c
ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् । 047a
निग्रहीतुं प्रवृत्ता हि योधांश्चान्यानवारयन् ॥ 047c
अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः । 048a
सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः ॥ 048c
जातरूपप्रतिच्छन्नां प्रगृह्य महतीं गदाम् । 049a
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥ 049c
रथाश्वविप्रहीणांस्तु तान्भीमो गदया बली । 050a
एकविंशतिसाहस्रान्पदातीन्समपोथयत् ॥ 050c
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः । 051a
धृष्टद्युम्नं पुरस्कृत्य न चिरात्प्रत्यदृश्यत ॥ 051c
पादाता निहता भूमौ शिश्यिरे रुधिरोक्षितः । 052a
सम्भग्ना इव वातेन कर्णिकाराः सुपुष्पिताः ॥ 052c
नानाशस्त्रसमायुक्ता नानाकुण्डलधारिणः । 053a
नानाजात्या हतास्तत्र नानादेशसमागताः ॥ 053c
पताकाध्वजसञ्छन्नं पदातीनां महद्बलम् । 054a
निकृत्तं विबभौ रौद्रं घोररूपं भयावहम् ॥ 054c
युधिष्ठिरपुरोगाश्च सहसैन्या महारथाः । 055a
अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव ॥ 055c
ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान् । 056a
नाभ्यवर्तन्त ते पुत्रं वेलामिव महोर्मयः ॥ 056c
तदद्भुतमपश्याम तव पुत्रस्य पौरुषम् । 057a
यदेकं सहिताः पार्था न शेकुरतिवर्तितुम् ॥ 057c
नातिदूरापयातं तु कृतबुद्वि पलायने । 058a
दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम् ॥ 058c
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च । 059a
यत्र यातान्न वा हन्युः पाण्डवाः किं सृतेन वः ॥ 059c
अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ । 060a
यदि सर्वेऽत्र तिष्ठामो ध्रुवं नो विजयो भवेत् ॥ 060c
विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतविप्रियाः । 061a
अनुयाय हनिष्यन्ति श्रेयान्नः समरे वधः ॥ 061c
शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः । 062a
यदा शूरं च भीरुं च मारयत्यन्तकः सदा ॥ 062c
को नु मूढो न युध्येत पुरुषः क्षत्रियो ध्रुवम् । 063a
श्रेयान्नो भीमसेनस्य क्रुद्धस्याभिमुखे स्थितः ॥ 063c
सुखः साङ्ग्रामिको मृत्युर्दुःखो व्याधिजरादिभिः । 064a
मर्त्येनावश्यमर्तव्यं गृहेष्वपि कदाचन ॥ 064c
युध्यतः क्षत्रधर्मेण मृत्युरेष सनातनः । 065a
हत्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम् ॥ 065c
न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः । 066a
अचिरेणैव ताल्ँलोकान्हतो युद्धे समश्नुते ॥ 066c
श्रुत्वा तद्वचनं तस्य पूजयित्वा च पार्थिवाः । 067a
पुनरेवाभ्यवर्तन्त पाण्डवानाततायिनः ॥ 067c
तानापतत एवाशु व्यूढानीकाः प्रहारिणः । 068a
प्रत्युद्ययुस्तदा पार्था जयगृद्धाः प्रमन्यवः ॥ 068c
धनञ्जयो रथेनाजावभ्यवर्तत वीर्यवान् । 069a
विश्रुतं त्रिषु लोकेषु व्याक्षिपन्गाण्डिवं धनुः ॥ 069c
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः । 070a
जवेनाभ्यपतन्हृष्टा यत्ता वै तावकं बलम् ॥ ॥ 070c

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे अष्टादशोऽध्यायः ॥ 18 ॥

9-18-34 न मातिक्रमते पाथः इति ङ. पाठः । न मानसस्यते इति क.पाठः ॥