अध्यायः 017
सङ्कुलयुद्धम् ॥ 1 ॥
सञ्जय उवाच । 001
शल्येऽथ निहते राजन्मद्रराजपदानुगाः । 001a
रथाः सप्तशता वीरा दुद्रुवुर्महतो बलात् ॥ 001c
दुर्योधनस्तु द्विरदमारुह्याचलसन्निभम् । 002a
छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः । 002c
न गन्तव्यं न गन्तव्यमिति मद्रानवारयत् ॥ 002e
दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः । 003a
युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम् ॥ 003c
ते तु शूरा महाराज कृतचित्ताश्च योधने । 004a
धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः ॥ 004c
श्रुत्वा च निहतं शल्यं धर्मपुत्रं च पीडितम् । 005a
मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः ॥ 005c
आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः । 006a
पूरयन्रथघोषेण दिशः सर्वा महारथः ॥ 006c
ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ । 007a
सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः ॥ 007c
धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः । 008a
युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन् ॥ 008c
ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभैः । 009a
क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा । 009c
वृक्षानिव महावाताः कम्पयन्ति स्म तावकाः ॥ 009e
पुरोवातेन गङ्गेव क्षोभ्यमाणा महानदी । 010a
अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी ततः ॥ 010c
प्रस्कन्द्य सेनां महतीं महात्मानो महारथाः । 011a
बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः । 011c
भ्रातरो वाऽस्य ते शूरा दृश्यन्ते नेह केचन ॥ 011e
धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः । 012a
पाञ्चालाश्च महावीर्याः शिखण्डी च महारथः ॥ 012c
एवं तान्वादिनः शूरान्द्रौपदेया महारथाः । 013a
अभ्यघ्नन्युयुधानश्च मद्रराजपदानुगान् ॥ 013c
चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः । 014a
सम्प्रदृश्यन्त समरे तावका निहताः परैः ॥ 014c
आलोक्य पाण्डवान्युद्धे योधा राजन्समन्ततः । 015a
वार्यमाणा ययुर्वेगात्पुत्रेण तव भारत ॥ 015c
दुर्योधनश्च तान्वीरान्वारयामास सान्त्वयन् । 016a
न चास्य शासनं केचित्तत्र चक्रुर्महारथाः ॥ 016c
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् । 017a
दुर्योधनं महाराज वचनं वचनक्षमम् ॥ 017c
किं नः सम्प्रेक्षमाणानां मद्राणां हन्यते बलम् । 018a
न युक्तमेतत्समरे त्वयि तिष्ठति भारत ॥ 018c
सहितैर्नाम योद्धव्यमित्येष समयः कृतः । 019a
अथ कस्मात्स्मरन्नेव घ्नतो मर्षयसे नृप ॥ 019c
दुर्योधन उवाच । 020
वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम । 020a
एते विनिहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम् ॥ 020c
शकुनिरुवाच । 021
न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः । 021a
अलं क्रोद्धुमथैतेषां नायं काल उपेक्षितुम् ॥ 021c
यामः सर्वेऽत्र सम्भूय सवाजिरथकुञ्जराः । 022a
परित्रातुं महेष्वासान्मद्रराजपदानुगान् ॥ 022c
अन्योन्यं परिरक्षामो यत्नेन महता नृप । 023a
एवं सर्वेऽनुसञ्चिन्त्य प्रययुर्यत्र सैनिकाः ॥ 023c
सञ्जय उवाच । 024
एवमुक्तस्तदा राजा बलेन महता वृतः । 024a
प्रययौ सिंहनादेन कम्पयन्निव मेदिनीम् ॥ 024c
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत । 025a
इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत ॥ 025c
पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान् । 026a
सहितानभ्यवर्तन्तं गुल्ममास्थाय मध्यमम् ॥ 026c
ते मुहूर्ताद्रणे वीरा हस्ताहस्ति विशाम्पते । 027a
निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः ॥ 027c
ततो नः सम्प्रयातानां हता मद्रास्तरस्विनः । 028a
हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे ॥ 028c
अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः । 029a
पपात महती चोल्का मध्येनादित्यमण्डलम् ॥ 029c
रथैर्भग्नयुगाक्षैश्च निहतैश्च महारथैः । 030a
अश्वैर्निपातितैश्चैव सञ्छन्नाऽभूद्वसुन्धरा ॥ 030c
वातायमानैस्तुरगैर्युगासक्तैस्ततस्ततः । 031a
अकृष्यन्त महाराज योधास्तत्र रणाजिरे ॥ 031c
भग्नचक्रान्रथान्केचिदहरंस्तुरगा रणे । 032a
रथार्धं केचिदादाय दिशो दश विबभ्रमुः । 032c
तत्रतत्र व्यदृश्यन्त योक्त्रैः श्लिष्टाः स्म वाजिनः ॥ 032e
रथिनः पतमानाश्च दृश्यन्ते स्म नरोत्तमाः । 033a
गगनात्प्रच्युताः सिद्धाः पुण्यानामिव सङ्क्षये ॥ 033c
निहतेषु च शूरेषु मद्रराजानुगेषु वै । 034a
अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः ॥ 034c
अभ्यवर्तन्त वेगेन जयगृद्धाः प्रहारिणः । 035a
बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिःस्वनैः ॥ 035c
अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः । 036a
शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः ॥ 036c
ततो हतमभिप्रेक्ष्य मद्रराजबलं महत् । 037a
मद्रराजं च समरे दृष्ट्वा शूरं निपातितम् । 037c
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ 037e
वध्यमानं महाराज पाण्डवैर्जितकाशिभिः । 038a
दिशो भेजेऽथ सम्भ्रान्तं त्रासितं दृढधन्विभिः ॥ ॥ 038c
इति श्रीमन्महाभारते शल्यवपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे सप्तदशोऽध्यायः ॥ 17 ॥
9-17-20 प्रस्कन्नाः प्रपन्नाः ॥