अध्यायः 016
युधिष्ठिरेण शल्यशल्यानुजयोर्वधः ॥ 1 ॥
सञ्जय उवाच । 001
तं भीमसेनश्च शिनेश्च नप्ता माद्र्याश्च पुत्रौ पुरुषप्रवीरौ । 001a
समागतं भीमबलेन राज्ञा पर्यापुरन्योन्यमथाह्वयन्त ॥ 001c
ततस्तु शूराः समरे नरेन्द्र नरेश्वरं प्राप्य युधां वरिष्ठम् । 002a
आवार्य चैनं समरे नृवीरा जघ्नुः शितैः पत्रिभिरुग्रवेगैः ॥ 002c
संरक्षितो भीमसेनेन राजा माद्रीसुताभ्यामथ माधवेन । 003a
मद्राधिपं पत्रिभिरुग्रवेगैः स्तनान्तरे धर्मसुतो निजघ्ने ॥ 003c
ततो रणे तावकानां रथौघाः समीक्ष्य मद्राधिपतिं शरार्तम् । 004a
पर्यावव्रुः प्रवराः सर्वयोधा दुर्योधनस्यानुमते पुरस्तात् ॥ 004c
ततो द्रुतं मद्रजनाधिपो रणे युधिष्ठिरं सप्तभिरभ्यविद्ध्यत् । 005a
तं चापि पार्थो नवभिः पृषत्कैर्विव्याध राजंस्तुमुले महात्मा ॥ 005c
आकर्णपूर्णायतसम्प्रयुक्तैः शरैस्तदा संयति तैलधौतैः । 006a
अन्योन्यमाच्छादयतां महारथौ मद्राधिपश्चापि युधिष्ठिरश्च ॥ 006c
ततस्तु तूर्णं समरे महारथौ परस्परस्यान्तरमीक्षमाणौ । 007a
शरैर्भृशं विव्यधतुर्नृपोत्तमौ महबलौ शत्रुभिरप्रधृष्यौ ॥ 007c
तयोर्धनुर्ज्यातलनिःस्वनो महान्महेन्द्रवज्राशनितुल्यनिःस्वनः । 008a
परस्परं बाणगणैर्महात्मनोःप्रवर्षतोर्मद्रपपाण्डुवीरयोः ॥ 008c
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ महावनेष्वामिषगृद्धिनाविव । 009a
विषाणिनौ नागवराविवोभौ ततक्षतुः संयति जातदर्पौ ॥ 009c
ततस्तु मद्राधिपतिर्महात्मा युधिष्ठिरं भीमबलं प्रसह्य । 010a
विव्याध वीरं हृदयेऽतिवेगं शरेण सूर्याग्निसमप्रभेण ॥ 010c
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि सुसम्प्रयुक्तेन शरेण राजन् । 011a
जघान मद्राधिपतिं महात्मामुदं च लेभे वृषभः कुरूणाम् ॥ 011c
ततो मुहूर्तादिव पार्थिवेन्द्रोलब्ध्वा सञ्ज्ञां क्रोधसंरक्तनेत्रः । 012a
शरेण पार्थं त्वरितो जघानसहस्रनेत्रप्रतिमप्रभावः ॥ 012c
त्वरंस्ततो धर्मसुतो महात्माशल्यस्य कोपान्नवभिः पृषत्कैः । 013a
भित्त्वा ह्युरस्तपनीयं च वर्मजघान षड्भिस्त्वपरैः पृषत्कैः ॥ 013c
ततस्तु मद्राधिपतिः प्रकृष्टन्धनुर्विकृष्य व्यसृजत्पृषत्कान् । 014a
द्वाभ्यां शराभ्यां च तथैव राज्ञश्चिच्छेद चापं कुरुपुङ्गवस्य ॥ 014c
नवं ततोऽन्यत्समरे प्रगृह्यराजा धनुर्धोरतरं महात्मा । 015a
शल्यं तु विव्याध शरैः समन्ताद्यथा महेन्द्रो नमुचिं शिताग्रैः ॥ 015c
ततस्तु शल्यो नवभिः पृषत्कैर्भीमस्य राज्ञश्च युधिष्ठिरस्य । 016a
निकृत्य रौक्मे पटुवर्मणी तयोर्विदास्यामास भुजौ महात्मा ॥ 016c
ततोऽपरेण ज्वलनार्कतेजसाक्षुरेण राज्ञो धनुरुन्ममाथ । 017a
कृपश्च तस्यैव जघान सूतंषड्भिः शरैः सोऽभिमुखः पपात ॥ 017c
मद्राधिपश्चापि युधिष्ठिरस्यशरैश्चतुर्भिर्निजघान वाहान् । 018a
वाहांश्च हत्वा व्यकरोन्महात्मायोधक्षयं धर्मसुतस्य राज्ञः ॥ 018c
'यदद्भुतं कर्म न शक्यमन्यैःसुदुःसहं तत्कृतवन्तमेकम् । 019a
शल्यो नरेन्द्रः सविषण्णभावाद्विचिन्तयामास मृदङ्गकेतुः ॥ 019c
किमेतदिन्द्रावरजस्य वाक्यम्मोघं भवत्यद्य विधेर्बलेन । 020a
जहीति शल्यं ह्यवदत्तदाऽऽजौन लोकनाथस्य वचोऽन्यथा स्यात् ॥' 020c
तथा कृते राजनि भीमसेनोमद्राधिपस्याथ ततो महात्मा । 021a
छित्त्वा धनुर्वेगवता शरेण द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् ॥ 021c
तथापरेणास्य जहार यन्तुः कायाच्छिरः संहननीयमध्यात् । 022a
जघान चाश्वांश्चतुरः सुशीघ्रं तथा भृशं कुपितो भीमसेनः ॥ 022c
तमग्रणीः सर्वधनुर्धराणामेकं चरन्तं समरेऽतिवेगम् । 023a
भीमः शतेन व्यकिरच्छराणां माद्रीपुत्रः सहदेवस्तथैव ॥ 023c
तैः सायकैर्मोहितं वीक्ष्य शल्यं भीमः शरैरस्य चकर्त वर्म । 024a
स भीमसेनेन निकृत्तवर्मा मद्राधिपश्चर्म सहस्रतारम् ॥ 024c
प्रगृह्य खड्गं च रथान्महात्मा प्रस्कन्द्य कुन्तीसुतमभ्यधावत् । 025a
छित्त्वा रथेषां नकुलस्य सोऽथ युधिष्ठिरं भीमबलोऽभ्यधावत् ॥ 025c
तं चापि राजानमथोत्पतन्तं क्रुद्धं यथैवान्तकमापतन्तम् । 026a
धृष्टद्युम्नो द्रौपदेयाः शिखण्डी शिनेश्च नप्ता सहसा परीयुः ॥ 026c
अथास्य चर्माप्रतिमं न्यकृन्तद्भीमो महात्मा नवभिः पृषत्कैः । 027a
खड्गं च भल्लैर्निचकर्त मुष्टौ नदन्प्रहृष्टस्तव सैन्यमध्ये ॥ 027c
तत्कर्म भीमस्य समीक्ष्य हृष्टास्ते पाण्डवानां प्रवरा रथौघाः । 028a
नादं च चक्रुर्भृशमुत्स्मयन्तः शङ्खांश्च दध्मुः शशिसन्निकाशान् ॥ 028c
तेनाथ शब्देन विभीषणेन तथाऽभितप्तं बलमप्रधृष्यम् । 029a
स्वेदाभिभूतं रुधिरोक्षिताङ्गं विसञ्ज्ञकल्पं च तदा विषण्णम् ॥ 029c
स मद्रराजः सहसा विकीर्णो भीमाग्रगैः पाण्डवयोधमुख्यैः । 030a
युधिष्ठिरस्याभिमुखं जवेन सिंहो यथा मृगहेतोः प्रयातः ॥ 030c
स धर्मराजो निहताश्वसूतः क्रोधेन दीप्तो ज्वलनप्रकाशः । 031a
दृष्ट्वा च मद्राधिपतिं स्म तूर्णं समभ्यधावत्तमरिं बलेन ॥ 031c
गोविन्दवाक्यं त्वरितं विचिन्त्य दध्रे मतिं शल्यविनाशनाय । 032a
स धर्मराजो निहताश्वसूतो रथे तिष्ठञ्शक्तिमथान्वकर्षत् ॥ 032c
तच्चापि शल्यस्य निशाम्य कर्म तमात्मनो भागमथावशिष्टम् । 033a
कृत्वा मनः शल्यवधे महात्मा यथोक्तमिन्द्रावरजस्य चक्रे ॥ 033c
स धर्मराजो मणिहेमदण्डां जग्राह शक्तिं कनकप्रकाशाम् । 034a
नेत्रे च दीप्ते सहसा विवृत्य मद्राधिपं क्रुद्धमना निरैक्षत् ॥ 034c
निरीक्षितो धर्मसुतेन राज्ञा पूतात्मना निर्हृतकल्मषेण । 035a
आसीन्न यद्भस्मसान्मद्रराजस्तदद्भुतं मे प्रतिभाति राजन् ॥ 035c
ततस्तु शक्तिं रचिरोग्रदण्डां मणिप्रवेकोज्ज्वलितां प्रदीप्ताम् । 036a
चिक्षेप वेगात्सुभृशं महात्मा मद्राधिपाय प्रवरः कुरूणाम् ॥ 036c
दीप्तामथैनां प्रहितां बलेन सविस्फुलिङ्गां सहसापतन्तीम् । 037a
प्रैक्षन्त सर्वे कुरवः समेता दिवो युगान्ते महतीमिवोल्काम् ॥ 037c
तां कालरात्रीमिव पाशहस्तां यमस्य धात्रीमिव चोग्ररूपाम् । 038a
स ब्रह्मदण्डप्रतिमाममोघां ससर्ज यत्तो युधि धर्मराजः ॥ 038c
गन्धस्रगग्र्यासनपानभोजनैरभ्यर्चितां पाण्डुसुतैः प्रयत्नात् । 039a
सांवर्तकाग्निप्रतिमां ज्वलन्तीं कृत्यामथर्वाङ्गिरसीमिवोग्राम् ॥ 039c
ईशानहेतोः प्रतिनिर्मितां तां त्वष्ट्रा रिपूणामसुदेहभक्ष्याम् । 040a
भूम्यन्तरिक्षद्युजलाश्रयाणि प्रसह्य भूतानि निहन्तुमीशाम् ॥ 040c
घण्टापताकां मणिवज्रभूषां वैदूर्यचित्रां तपनीयदण्डाम् । 041a
त्वष्ट्रा प्रयत्नान्नियमेन क्लृप्तां ब्रह्मद्विषामन्तकरीममाोघाम् ॥ 041c
बलप्रयत्नादनिरोधवेगां मन्त्रैश्च घोरैरपि पूरयित्वा । 042a
ससर्ज मार्गेण च तां खगानां वधाय मद्राधिपतेस्तदानीम् ॥ 042c
हतो ह्यसावित्यभिगर्जमानो रुद्रोऽन्धकायान्तकरं यथेषुम् । 043a
प्रसार्य बाहुं सुदृढं सुपाणिं क्रोधेन नृत्यन्निव धर्मराजः ॥ 043c
'स्फुरत्प्रभामण्डलिनोंशुजालैर्धर्मात्मनो मद्रविनाशकाले । 044a
पुरत्रयप्रोत्सरणे पुरस्तान्माहेश्वरं रूपमभूत्तदानीम् ॥ 044c
आवर्तनाकुञ्चितबाहुदण्डः सन्ध्याविहारी तनुवृत्तमध्यः । 045a
विशालवक्षा भगवान्हरो यथा सुदुर्निरीक्ष्योऽभवदर्जुनाग्रजः' ॥ 045c
तां सर्वशक्त्या प्रहितां सुशक्तिं युधिष्ठिरेणाप्रतिवार्यवीर्याम् । 046a
प्रतिग्रहायाभिननन्द शल्यः सम्यग्घुतामग्निरिवाज्यधाराम् ॥ 046c
सा तस्य वर्माभिविदार्य शुभ्रमुरो विशालं च तथैव भित्त्वा । 047a
विवेश गां तोयमिवाप्रसक्ता यशो विशालं नृपतेर्हरन्ती ॥ 047c
नासाक्षिकर्णास्यविनिः सृतेन प्रस्यन्दता च व्रणसम्भवेन । 048a
संसिक्तगात्रो रुधिरेण सोऽभूत्क्रौञ्चो यथा स्कन्दहतो महाद्रिः ॥ 048c
प्रसार्य बाहू च रथाद्गतो गां सञ्छिन्नवर्मा कुरुनन्दनेन । 049a
महेन्द्रवाहप्रतिमो महात्मा वज्राहतं शृङ्गमिवाचलस्य ॥ 049c
ततो निपतितः सोऽभूदिन्द्रध्वज इवोच्छ्रितः । 050a
बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट् । 050c
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः ॥ 050e
प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः । 051a
प्रियया कान्तया कान्तः पतमान इवोरसि ॥ 051c
चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः । 052a
सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव चाभवत् ॥ 052c
धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुना । 053a
सम्यक्स्फीत इवोत्सृष्टः प्रशान्तोऽग्निरिवाध्वरे ॥ 053c
शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम् । 054a
संशान्तमपि मद्रेशं लक्ष्मीर्नैव विमुञ्चति ॥ 054c
ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम् । 055a
व्यधमद्द्विषतः सङ्ख्ये खगराडिव पन्नगान् । 055c
देहान्सुनिशितैर्भल्लै रिपूणां नाशयन्क्षणात् ॥ 055e
ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव । 056a
निमीलिताक्षाः क्षिण्वन्ति भृशमन्योन्यकर्शिताः । 056c
क्षरन्तो रुधिरं देहैर्विशस्त्रायुधजीविताः ॥ 056e
ततः शल्ये निपतिते मद्रराजानुजो युवा । 057a
भ्रातुस्तुल्यो गुणैः सर्वै रथी पाण्डवमभ्ययात् ॥ 057c
विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन् । 058a
हतस्यापचितिं भ्रातुश्चिकीषुर्युद्धदुर्मदः ॥ 058c
तं विव्याधाशुगैः षड्भिर्धर्मराजस्त्वरन्निव । 059a
कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च ॥ 059c
ततोऽस्य दीप्यमानेन सुदृढेन शितेन च । 060a
प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः ॥ 060c
सकुण्डलं तद्ददृशे पतमानं शिरो रथात् । 061a
पुण्यक्षयमनुप्राप्य पतन्स्वर्गादिव च्युतः ॥ 061c
तस्यापकृत्तशीर्षं तु शरीरं पतितं रथात् । 062a
रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत ॥ 062c
विचित्रकवचे तस्मिन्हते मद्रनृपानुजे । 063a
हाहाकारं प्रकुर्वाणाः कुरवोऽभिप्रदुद्रुवुः ॥ 063c
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः । 064a
वित्रेसुः पाण्डवभयात्प्रविध्वस्तास्तदा भृशम् ॥ 064c
तांस्तथा भज्यमानांस्तु कौरवान्भरतर्षभ । 065a
शिनेर्नप्ताऽकिरन्बाणैरभ्यवर्तत सात्यकिः ॥ 065c
तमायान्तं महेष्वासं दुष्प्रसह्यं दुरासदम् । 066a
हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् ॥ 066c
तौ समेतौ महात्मानौ वार्ष्णेयौ वरवाजिनौ । 067a
हार्दिक्यः सात्यकिश्चैव सिंहाविव बलोत्कटौ ॥ 067c
इषुभिर्विमलाभासैश्छादयन्तौ परस्परम् । 068a
अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ ॥ 068c
चापमार्गबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः । 069a
आकाशगानपश्याम पतङ्गानिव शीघ्रगान् ॥ 069c
सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः । 070a
चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा ॥ 070c
तन्निकृत्तं धनुःश्रेष्ठमपास्य शिनिपुङ्गवः । 071a
अन्यदादत्त वेगेन धनुर्जलदनिःस्वनम् ॥ 071c
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् । 072a
हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥ 072c
ततो युगं रथेषां च च्छित्त्वा भल्लैः सुसंयतैः । 073a
अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी ॥ 073c
हार्दिक्यं विरथं दृष्ट्वा कृपः शारद्वतः प्रभो । 074a
अपोवाह ततः क्षिप्रं रथमारोप्य वीर्यवान् ॥ 074c
मद्रराजे हते राजन्विरथे कृतवर्मणि । 075a
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ 075c
स्वे परे नान्वबुध्यन्त सैन्येन रजसा वृते । 076a
बलं तु हतभूयिष्ठं त्रस्तमासीत्पराङ्मुखम् ॥ 076c
ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम् । 077a
विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ॥ 077c
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात् । 078a
जवेनापततः पार्थानेकः सर्वानवारयत् ॥ 078c
पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम् । 079a
आनर्तं च दुराधर्षं शितैर्बाणैरवारयत् ॥ 079c
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम् । 080a
अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत ॥ 080c
ततो युधिष्ठिरो राजा त्वरमाणो महारथः । 081a
चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः । 081c
विव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः ॥ 081e
अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम् । 082a
तमपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् ॥ 082c
ततः शारद्वतः षड्भिः प्रत्यविध्यद्युधिष्ठिरम् । 083a
विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः ॥ 083c
एवमेतन्महाराज युद्धशेषमवर्तत । 084a
तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत ॥ 084c
तस्मिन्महेष्वासधरे विशस्ते सङ्ग्राममध्ये कुरुपुङ्गवेन । 085a
पार्थाः समेताः परमप्रहृष्टाः शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् ॥ 085c
युधिष्ठिरं च प्रशशंसुराजौ पुरा सुरा वृत्रवधे यथेन्द्रम् । 086a
चक्रुश्च नानाविधवाद्यशब्दान्निनादयन्तो वसुधां समन्तात् ॥ ॥ 086c
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे षोडशोऽध्यायः ॥ 16 ॥
9-16-22 संहननीयो दृढसन्धिको मध्यो यस्य तस्मात्कायात् ॥ 9-16-47 तोयमिव सुप्रवेशाङ्गाम् । अप्रसक्ता अप्रतिहता । नृपतेः शल्यस्य ॥