अध्यायः 015

शल्ययुधिष्ठिरयोर्युद्धम् ॥ 1 ॥

सञ्जय उवाच । 001
ततः सेना तव विभो मद्रराजपुरस्कृता । 001a
पुनरभ्यद्रवत्पार्थान्वेगेन महता रणे ॥ 001c
पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः । 002a
क्षणेन चैव पार्थांस्ते बहुत्वात्समलोडयन् ॥ 002c
ते वध्यमानाः समरे पाण्डवा नावतस्थिरे । 003a
क्षणेनैव महाराज पश्यतोः कृष्णपार्थयोः ॥ 003c
ततो धनञ्जयः क्रुद्धः कृपं सह पदानुगैः । 004a
अवाकिरच्छरौघेण कृतवर्माणमेव च ॥ 004c
शकुनिं सहदेवस्तु सहसैन्यमवाकिरत् । 005a
नकुलः पार्श्वतः स्थित्वा मद्रराजमयोधयत् ॥ 005c
द्रौपदेया नरेन्द्राश्च भूयिष्ठान्समवारयन् । 006a
द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत् ॥ 006c
भीमसेनस्तु राजानं गदापाणिरवारयत् । 007a
शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः ॥ 007c
ततः समभवद्युद्धं संसक्तं तत्रतत्र ह । 008a
तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् ॥ 008c
तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे । 009a
यदेकः सर्वसैन्यानि पाण्डवानामयोधयत् ॥ 009c
व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः । 010a
क्रूरश्चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः ॥ 010c
पीडयित्वा तु राजानं शरैराशीविषोपमैः । 011a
अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत् ॥ 011c
तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम् । 012a
अपूजयन्ननीकानि परेषां तावकानि च ॥ 012c
पीड्यमानास्तु शल्येन पाण्डवा भृशविक्षताः । 013a
प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे ॥ 013c
वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः । 014a
अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः ॥ 014c
ततः पौरुषमास्थाय मद्रराजमताडयत् । 015a
जयो वाऽस्तु वधो वेति कृतबुद्धिर्महारथः ॥ 015c
समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च पाण्डवः ॥ 016ac
भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः । 017a
कौरवार्थे पराक्रान्ताः सङ्ग्रामे निधनं गताः । 017c
यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः ॥ 017e
भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः । 018a
सोऽहमद्य युधा जेतुमाशंसे मद्रकाधिपम् ॥ 018c
तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः । 019a
चक्ररक्षाविमौ वीरौ मम माद्रवतीसुतौ ॥ 019c
अजेयौ वासवेनापि समरे शूरसम्मतौ । 020a
साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ ॥ 020c
मदर्थे प्रतियुध्येतां मानार्हौ सत्यसङ्गरौ । 021a
मां वा शल्यो रणे हन्ता तं वाऽहं भद्रमस्तु वः । 021c
इति सत्यामिमां वाणीं लोकवीरा निबोधत ॥ 021e
योत्स्येऽहं मातुलेनाद्य क्षात्रधर्मेण पार्थिवाः । 022a
स्वमंशमभिसन्धाय विजयायेतराय वा ॥ 022c
तस्य मेऽप्यधिकं शस्त्रं सर्वोपकरणानि च । 023a
संयुज्यन्तां रथे क्षिप्रं शास्त्रवद्रथयोजकैः ॥ 023c
शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम् । 024a
पृष्ठगोपो भवत्वद्य मम पार्थो धनञ्जयः ॥ 024c
पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः । 025a
एवमभ्यधिकः शल्याद्भविष्यामि महामृधे ॥ 025c
एवमुक्तास्तथा चक्रुस्तदा राज्ञः प्रियैषिणः ॥ 026ac
ततः प्रहर्षः सैन्यानां पुनरासीत्तदाः मृधे । 027a
पाञ्चालानां सोमकानां मात्स्यानां च विशेषतः ॥ 027c
प्रतिज्ञातं च सङ्ग्रामे धर्मराजस्य पूजयन् । 028a
ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान् । 028c
अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे ॥ 028e
तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनम् । 029a
महता हर्षजेनाथ नादेन कुरुपुङ्गवाः ॥ 029c
ह्रादेन गजघण्टानां शङ्खानां निनदेन च । 030a
तूर्यशब्देन महता नादयन्तश्च मेदिनीम् ॥ 030c
तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान् । 031a
महामेघानिव बहूञ्शैलावस्तोदयावुभौ ॥ 031c
शल्यस्तु समरश्लाघी धर्मराजमरिन्दमम् । 032a
ववर्ष शरवर्षेण शम्बरं मघवा इव ॥ 032c
तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः । 033a
द्रोणोपदेशान्विविधान्दर्शयानो महामनाः । 033c
ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च ॥ 033e
न चास्य विवरं कश्चिद्ददर्श चरतो रणे ॥ 034ac
तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम् । 035a
शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे ॥ 035c
भीमस्तु तव पुत्रेण युद्धशौण्डेन सङ्गतः ॥ 036ac
पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ । 037a
शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः ॥ 037c
तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम् । 038a
तावकानां परेषां च राजन्दुर्मन्त्रिते तव ॥ 038c
दुर्योधनस्तु भीमस्य शरेणानतपर्वणा । 039a
चिच्छेदादिश्य सङ्ग्रामे ध्वजं हेमपरिष्कृतम् ॥ 039c
स किङ्किणीकजालेन महता चारुदर्शनः । 040a
पपात रुचिरः सिंहो भीमसेनस्य पश्यतः ॥ 040c
पुनश्चास्य धनुश्चित्रं गजराजकरोपमम् । 041a
क्षुरेण शितधारेण प्रचकर्त नराधिपः ॥ 041c
स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव । 042a
बिभेदोरसि विक्रम्य स रथोपस्थ आविशत् ॥ 042c
तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः । 043a
यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा ॥ 043c
हतसूता हयास्तस्य रथमादाय भारत । 044a
व्यद्रवन्त दिशो राजन्हाहाकारस्तदाऽभवत् ॥ 044c
तमभ्यधावंस्त्राणार्थं द्रोणपुत्रो महारथः । 045a
कृपश्च कृतवर्मां च पुत्रं ते हि परीप्सवः ॥ 045c
तस्मिन्विलुलिते सैन्ये त्रस्तांस्तस्य पदानुगान् । 046a
गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः ॥ 046c
युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः । 047a
स्वयं सन्नोदयन्नश्वान्दन्तवर्णान्मनोजवान् ॥ 047c
तत्राश्चर्यपमश्याम कुन्तीपुत्रे युधिष्ठिरे । 048a
पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत् ॥ 048c
विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना । 049a
चिच्छेद योधान्निशितैः शरैः शतसहस्रशः ॥ 049c
यांयां प्रत्युद्ययौ सेनां तान्तां ज्येष्ठः स पाण्डवः । 050a
शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः ॥ 050c
साश्वसूतध्वजरथान्रथिनः पातयन्बहून् । 051a
अक्रीडदेको बलवान्पवनस्तोयदानिव ॥ 051c
साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रधा । 052a
व्यपोथयत सङ्ग्रामे क्रुद्धो रुद्रः पशूनिव ॥ 052c
शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः । 053a
अभ्यद्रवत मद्रेशं तिष्ठतिष्ठेति चाब्रवीत् ॥ 053c
तस्य तच्चरितं दृष्ट्वा सङ्ग्रामे भीमकर्मणः । 054a
वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात् ॥ 054c
ततस्तौ भृशसङ्क्रुद्धौ प्रध्माय सलिलोद्भवौ । 055a
समाहूय तदाऽन्योन्यं भर्त्सयन्तौ समीयतुः ॥ 055c
शल्यस्तु शरवर्षेण पीडयामास पाण्डवम् । 056a
मद्रराजं तु कौन्तेयः शरवर्षैरवाकिरत् ॥ 056c
अदृश्येतां तदा राजन्कङ्कपत्रिभिराचितौ । 057a
उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ । 057c
पुष्पिताविव रेजाते वने शाल्मलिकिंशुकौ ॥ 057e
दीव्यमानौ महात्मानौ प्राणद्यूतेन दुर्मदौ । 058a
दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम् ॥ 058c
हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम् । 059a
शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम् ॥ 059c
इतीव निश्चयो नाभूद्योधानां तत्र भारत । 060a
प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः ॥ 060c
ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे । 061a
धनुश्चास्य शिताग्रेण बाणेन निरुकृन्तत ॥ 061c
सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः । 062a
अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत ॥ 062c
अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः । 063a
द्वाभ्यामतिशिताग्राभ्यामुभौ तत्पार्ष्णिसारथी ॥ 063c
ततोऽस्य दीप्यमानेन पीतेन निशितेन च । 064a
प्रमुखे वर्तमानस्य भल्लेनापाहरद्ध्वजम् ॥ 064c
ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिन्दम ॥ 065ac
ततो मद्राधिपं द्रौणिरभ्यधावत्तथा कृतम् । 066a
आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे ॥ 066c
मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे । 067a
गत्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः ॥ 067c
विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम् । 068a
सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम् ॥ 068c
तथान्यद्धनुरादाय बलवान्वेगवत्तरम् ॥ 069a
युधिष्ठिरं मद्रपतिर्भित्त्वा सिंह इवानदत् ॥ 069c
ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् । 070a
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ॥ 070c
सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः । 071a
सहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत् ॥ 071c
तांस्तानन्यान्महेष्वासान्साश्वान्सरथकूबरान् । 072a
अर्दयामास विशिखैरुल्काभिरिव कुञ्जरान् ॥ 072c
कुञ्जरान्कुञ्जरारोहानश्वप्रयायिनः । 073a
रथांश्च रथिभिः सार्धं जघान रथिनां वरः ॥ 073c
बाहूंश्चिच्छेद तरसा सायुधान्केतनानि च । 074a
चकार च महीं योधैः स्तीर्णां वेदीं कुशैरिव ॥ 074c
तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् । 075a
परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ॥ ॥ 075c

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे पञ्चदशोऽध्यायः ॥ 15 ॥

9-15-42 रथशक्त्या रथस्थया शक्त्या ॥ 9-15-50 यां यामभ्यगमत्सेनां तां तां सद्यो व्यनीनशत् । न्यपातयत कौन्तेयो गिरीन्वज्र इवोत्तमान् । इति क.ख.पाठः ॥ 9-15-67 मुहूर्तमिव तान्हत्वा नर्दमाने युधिष्ठिरे इति क.ख.पाठः ॥