अध्यायः 014

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच । 001
दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः । 001a
चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम् ॥ 001c
ततो राजन्समापेतुः शरधाराः सहस्रशः । 002a
अम्बुदानां यथा काले जलधाराः समन्ततः ॥ 002c
राजा च पार्षतं विद्ध्वा शरैः पञ्चभिराशुगैः । 003a
द्रोणहन्तारमुग्रेषुं पुनर्विव्याध सप्तभिः ॥ 003c
धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः । 004a
सप्तत्या विशिखानां वै दुर्योधनमपीडयत् ॥ 004c
पीडितं वीक्ष्य राजानं सोदर्या भरतर्षभ । 005a
महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम् ॥ 005c
स तैः परिवृतः शूरः सर्वतोऽतिरथै र्भृशम् । 006a
व्यचरत्समरे राजन्दर्शयन्नस्त्रलाघवम् ॥ 006c
शिखण्डी कृतवर्माणं गौतमं च महारथम् । 007a
प्रभद्रकैः समायुक्तो योधयामास धन्विनौ ॥ 007c
तत्रापि सुमहद्युद्धं घोररूपं विशाम्पते । 008a
प्राणान्सन्तजतां युद्धे प्राणद्यूताभिदेवने ॥ 008c
शल्यः सायकवर्षाणि विमुञ्चन्सर्वतोदिशम् । 009a
पाण्डवान्पीडयामास ससात्यकिवृकोदरान् ॥ 009c
तथा तौ तु यमौ यमतुल्यपराक्रमौ । 010a
योधयामास राजेन्द्र वीर्येणास्त्रबलेन च ॥ 010c
शल्यसायकनुन्नानां पाण्डवानां महामृधे । 011a
त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः ॥ 011c
ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते । 012a
अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः ॥ 012c
सञ्छाद्य समरे वीरं नकुलः परवीरहा । 013a
विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे ॥ 013c
सर्वपारसवैर्बाणैः कर्मारपरिमार्जितैः । 014a
स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः ॥ 014c
शल्यस्तु पीडितस्तेन स्वस्रीयेण हि मातुलः । 015a
नकुलं पीडयामास पत्रिभिर्नतपर्वभिः ॥ 015c
ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः । 016a
सहदेवश्च माद्रेणो मद्रराजमुपाद्रवन् ॥ 016c
तानापतत एवाशु पूरयाणान्रथस्वनैः । 017a
दिशश्च विदिशश्चैव कम्पयानांश्च मेदिनीम् । 017c
प्रतिजग्राह समरे सेनापतिरमित्रजित् ॥ 017e
युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च पञ्चभिः । 018a
सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः ॥ 018c
ततस्तु सशरं चापं नकुलस्य महात्मनः । 019a
मद्रेश्वरः क्षुरप्रेण मध्ये चिच्छेद मारिष ॥ 019c
तदपास्य धनुश्छिन्नं ततः शल्यस्य सायकैः । 020a
अथान्यद्धनुरादाय माद्रीपुत्रो महारथः । 020c
मद्रराजरथं तूर्णं पूरयामास पत्रिभिः ॥ 020e
युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष । 021a
दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम् ॥ 021c
भीमसेनस्तु तं षष्ट्या सात्यकिर्दशभिः शरैः । 022a
मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः ॥ 022c
मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः । 023a
विव्याध भूयः सप्तत्या शराणां नतपर्वणाम् ॥ 023c
अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष । 024a
हयांश्च चतुरः सङ्ख्ये प्रेषयामास मृत्यवे ॥ 024c
विरथं सात्यकिं कृत्वा मद्रराजो महारथः । 025a
विशिखानां शतेनैनमाजघान समन्ततः ॥ 025c
माद्रीपुत्रं च संरब्धो भीमसेनं च पाण्डवम् । 026a
युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः ॥ 026c
तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम् । 027a
यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे ॥ 027c
अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः । 028a
पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान् । 028c
अभिदुद्राव वेगेन मद्राणामधिपं बलात् ॥ 028e
आपतन्तं रथं तस्य शल्यः समितिशोभनः । 029a
प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम् ॥ 029c
स सन्निपातस्तुमुलो बभूवाद्भुतदर्शनः । 030a
सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च । 030c
यादृशो वै पुरा वृत्तः शम्बरामरराजयोः ॥ 030e
सात्यकिः प्रेक्ष्य समरे मद्रराजमवस्थितम् । 031a
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत् ॥ 031c
मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना । 032a
सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः ॥ 032c
ततः पार्था महेष्वासाः सात्वताऽभिसृतं नृपम् । 033a
अभ्यवर्तन्रथैस्तूर्णं मातुलं वधकाङ्क्षया ॥ 033c
तत आसीत्परामर्दस्तुमुलः शोणितोदकः । 034a
शूराणां युध्यमानानां सिंहानामिव नर्दताम् ॥ 034c
तेषामासीन्महाराज व्यधिक्षेपः परस्परम् । 035a
सिंहानामामिषेप्सूनां कूजतामिव संयुगे ॥ 035c
तेषां बाणसहस्रौघैराकीर्णा वसुधाऽभवत् । 036a
अन्तरिक्षं च सहसा बाणभूतमभूत्तदा ॥ 036c
शरान्धकारं सहसा कृतं तेन समन्ततः । 037a
अभ्रच्छायेव सञ्जज्ञे शरैर्मुक्तैर्महात्मभिः ॥ 037c
तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नैगः । 038a
स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तदा ॥ 038c
तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः । 039a
यदेकः समरे शूरो योधयामास वै बहून् ॥ 039c
मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः । 040a
सम्पतद्भिः शरैर्घोररैवाकीर्यत मेदिनी ॥ 040c
तत्र शल्यरथं राजन्विचरन्तं महाहवे । 041a
अपश्याम यथापूर्वं शक्रस्यासुरसङ्क्षये ॥ ॥ 041c

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे चतुर्दशोऽध्यायः ॥ 14 ॥