अध्यायः 013
सङ्कुलयुद्धम् ॥ 1 ॥
सञ्जय उवाच । 001
अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः । 001a
तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः ॥ 001c
द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः । 002a
तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनञ्जयः । 002c
भूयश्चैव महाराज शरवर्षैरवाकिरत् ॥ 002e
शरकण्टकितास्ते तु तावका भरतर्षभ । 003a
न जहुः पार्थमासाद्य ताड्यमानाः शितैः शरैः ॥ 003c
अर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः । 004a
परिवार्य मुदा युक्ता योधयन्तश्चकाशिरे ॥ 004c
तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः । 005a
अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा ॥ 005c
तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम् । 006a
विव्यधुश्च शरैर्घोरैः प्रहृष्टा युद्धदुर्मदाः ॥ 006c
कूबरं रथचक्राणि ईषा योक्त्राणि वा विभो । 007a
युगं चैवानुकर्षं च शरभूतमभूत्तदा ॥ 007c
नैतादृशं दृष्टपूर्वं राजन्नेव च नः श्रुतम् । 008a
यादृशं तत्र पार्थस्य तावकाः सम्प्रचक्रिरे ॥ 008c
स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः । 009a
उल्काशतैः सम्प्रदीप्तं विमानमिव भूतले ॥ 009c
ततोऽर्जुनो महाराज शरैः सन्नतपर्वभिः । 010a
अवाकिरत्तां पृतनां मेघो वृष्ट्येव पर्वतम् ॥ 010c
ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः । 011a
पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम् ॥ 011c
कोपोद्धूतशरज्वालो धनुःशब्दानिलो महान् । 012a
सैन्येन्धनं ददाहाशु तावकं पार्थपावकः ॥ 012c
चक्राणां पततां चापि युगानां च धरातले । 013a
तूणीराणां पताकानां ध्वजानां च रथैः सह ॥ 013c
ईषाणामनुकर्षाणां त्रिवेणूनां च भारत । 014a
अक्षाणामथ योक्त्राणां प्रतोदानां च राशयः ॥ 014c
शिरसां पततां चापि कुण्डलोष्णीषधारिणाम् । 015a
भुजानां च महाभाग स्कन्धानां च समन्ततः ॥ 015c
छत्राणां व्यजनैः सार्धं मकुटानां च राशयः । 016a
समदृश्यन्त पार्थस्य रथमार्गेषु भारत ॥ 016c
अगम्यरूपा पृथिवी मांसशोणितकर्दमा । 017a
भीरूणां त्रासजननी शूराणां हर्षवर्धिनी । 017c
बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा ॥ 017e
हत्वा तु समरे पार्थः सहस्रे द्वे परन्तपः । 018a
रथानां सवरूथानं विधूमोऽग्निरिव ज्वलन् ॥ 018c
यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम् । 019a
विधूमो दृश्यते राजंस्तथा पार्थो धनञ्जयः ॥ 019c
द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम् । 020a
रथेनातिपताकेन पाण्डवं प्रत्यवारयत् ॥ 020c
तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ । 021a
समीयतुस्तदाऽन्योन्यं परस्परवधैषिणौ ॥ 021c
तयोरासीन्महाराज बाणवर्षं सुदारुणम् । 022a
जीमूतयोर्यथा वृष्टिस्तपान्ते भरतर्षभ ॥ 022c
अन्योन्यस्पर्धिनौ तौ तु शरैः सन्नतपर्वभिः । 023a
ततक्षतुस्तदाऽन्योन्यं शृङ्गाभ्यां वृषभाविव ॥ 023c
तयोर्युद्धं महाराज चिरं सममिवाभवत् । 024a
शस्त्राणां सङ्गमश्चैव घोरस्तत्राभवत्पुनः ॥ 024c
ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः । 025a
वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत ॥ 025c
ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः । 026a
मानयित्वा मुहूर्तं तु गुरुपुत्रं महाहवे ॥ 026c
व्यश्वसूतरथं चक्रे सव्यसाची परन्तपः । 027a
मृदुपूर्वं ततश्चैनं पुनःपुनरताडयत् ॥ 027c
हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम् । 028a
मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् ॥ 028c
तमापतन्तं सहसा हेमपट्टविभूषितम् । 029a
चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः ॥ 029c
स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः । 030a
आददे परिघं घोरं नगेन्द्रशिखरोपमम् । 030c
चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः ॥ 030e
तमन्तकमिव क्रुद्दं परिघं प्रेक्ष्य पाण्डवः । 031a
अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः ॥ 031c
स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे । 032a
दारयन्पृथिवीन्द्राणां मनः शब्देन भारत ॥ 032c
ततोऽपरैस्त्रिभिर्भल्लैर्द्रौणिं विव्याध पाण्डवः ॥ 033ac
सोऽतिविद्धो बलवता पार्थेन सुमहात्मना । 034a
नाकम्पत तदा द्रौणिः पौरुषेषु व्यवस्थितः ॥ 034c
सुरथं च ततो राजन्भारद्वाजो महारथम् । 035a
अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः ॥ 035c
ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः । 036a
रथेन मेघघोषेण द्रौणिमेवाभ्यधावत ॥ 036c
विकर्षन्वै धनुःश्रेष्ठं सर्वभारसहं दृढम् । 037a
ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् ॥ 037c
सुरथं तं ततः क्रुद्धमापतन्तं महारथम् । 038a
चुकोप समरे द्रौणिर्दण्डाहत इवोरगः ॥ 038c
त्रिशिखां भ्रुकुटीं कृत्वा सृक्विणी परिसंलिहन् । 039a
उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च । 039c
मुमोच तीक्ष्णं नाराचं यमदण्डोपमद्युतिम् ॥ 039e
स तस्य हृदयं भित्त्वा प्रविवेशातिवेगितः । 040a
शक्ताशनिरिवोत्सृष्टो विदार्य धरणीतलम् ॥ 040c
ततः स पतितो भूमौ नाराचेन समाहतः । 041a
वज्रेण च यथा शृङ्गं पर्वतस्येव दीर्यतः ॥ 041c
तस्मिन्विनिहते वीरे द्रोणपुत्रः प्रतापवान् । 042a
आरुरोह रथं तूर्णं तमेव रथिनां वरः ॥ 042c
ततः सज्जो महाराज द्रौणिराहवदुर्मदः । 043a
अर्जुनं योधयामास संशप्तकवृतो रणे ॥ 043c
तत्र युद्धं महच्चासीदर्जुनस्य परैः सह । 044a
मध्यन्दिनगते सूर्ये यमराष्ट्रविवर्धनम् ॥ 044c
तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम् । 045a
यदेको युगपद्वीरान्समयोधयदर्जुनः ॥ 045c
विमर्दः सुमहानासीदर्जुनस्य परैः सह । 046a
शतक्रतोर्यथापूर्वं महत्या दैत्यसेनया ॥ ॥ 046c
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे त्रयोदशोऽध्यायः ॥ 13 ॥