अध्यायः 012
शल्यपराक्रमवर्णनम् ॥ 1 ॥
सञ्जय उवाच । 001
पीडिते धर्मराजे तु मद्रराजेन मारिष । 001a
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ । 001c
परिवार्य रथैः शल्यं पीडयामासुराहवे ॥ 001e
तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः । 002a
साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः ॥ 002c
आश्चर्यमित्यभाषन्त मुनयश्चापि सङ्गताः ॥ 003ac
भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे । 004a
एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः ॥ 004c
सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया । 005a
मद्रेश्वरमवाकीर्य सिंहनादमथानदत् ॥ 005c
नकुलः पञ्चभिश्चैनं सहदेवश्च पञ्चभिः । 006a
विद्ध्वा तं तु पुनस्तूर्णं ततो विव्याध सप्तभिः ॥ 006c
स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः । 007a
विकृष्य कार्मुकं घोरं भारघ्नं वेगवत्तरम् ॥ 007c
सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष । 008a
भीमसेनं तु सप्तत्या नकुलं सप्तभिस्तथा ॥ 008c
ततः स विशिखं चापं सहदेवस्य धन्विनः । 009a
छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः ॥ 009c
सहदेवस्तु समरे मातुलं भूरिवर्चसम् । 010a
सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत् । 010c
शरैराशीविषाकारैर्ज्वलज्ज्वलनसन्निभैः ॥ 010e
सारथिं चास्य समरे शरेणानतपर्वणा । 011a
विव्याध भृशसङ्क्रुद्धस्तं वै भूयस्त्रिभिः शरैः ॥ 011c
भीमसेनस्तु सप्तत्या सात्यकिर्नवभिः शरैः । 012a
धर्मराजस्तथा षष्ट्या गात्रे शल्यं समार्पयत् ॥ 012c
ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः । 013a
सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा ॥ 013c
तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः । 014a
विव्याध तरसा राजंस्तदद्भुतमिवाभवत् ॥ 014c
ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष । 015a
धनुश्चिच्छेद समरे सज्ज्यं स सुमहारथः ॥ 015c
अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः । 016a
साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः ॥ 016c
स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः । 017a
युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः ॥ 017c
सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते । 018a
मद्राणामधिपं शूरं शरैर्विव्याध पञ्चभिः ॥ 018c
स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः । 019a
भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत् ॥ 019c
तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः । 020a
तोमरं प्रेषयामास स्वर्णदण्डं महारणे ॥ 020c
भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम् । 021a
नकुलः समरे शक्तिं सहदेवो गदां शुभाम् । 021c
धर्मराजः शतघ्नीं च जिघांसुः शल्यमाहवे ॥ 021e
तानापतत एवाशु पञ्चानां वै भुजच्युतान् । 022a
वारयामास समरे शस्त्रसङ्घैः स मद्रराट् ॥ 022c
सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम् । 023a
प्रहितं भीमसेनेन शरं कनकभूषणम् ॥ 023c
द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान् । 024a
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम् ॥ 024c
गदां च सहदेवेन शरौघैः समवारयत् । 025a
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत ॥ 025c
पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च । 026a
नामृष्यत्तत्र शैनेयः शत्रोर्विजयमाहवे ॥ 026c
अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्च्छितः । 027a
द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः ॥ 027c
ततः शल्यो रणे राजन्सर्वांस्तान्दशभिः शरैः । 028a
विव्याध भृशसङ्क्रुद्धस्तोत्रैरिव महाद्विपान् ॥ 028c
ते वार्यमाणाः समरे मद्रराज्ञा महारथाः । 029a
न शेकुः सम्मुखे स्थातुं तस्य शत्रुनिषूदनाः ॥ 029c
ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम् । 030a
निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान् । 030c
'तथाविधं महाराज मद्रराजस्य विक्रमम् । 031a
असह्यं मानवैर्युद्धे तद्बभूव नरर्षभ ॥' 031c
ततो राजन्महाबाहुर्भीमसेनः प्रतापवान् । 032a
सन्त्यज्य मनसा प्राणान्मद्राधिपमयोधयत् ॥ 032c
नकुलः सहदेवश्च सात्यकिश्च महारथः । 033a
परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः ॥ 033c
स चतुर्भिर्महेष्वासैः पाण्डवानां महारथः । 034a
वृतस्तान्योधयामास मद्रराजः प्रतापवान् ॥ 034c
तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे । 035a
चक्ररक्षं जघानाशु मद्रराजस्य पार्थिवः ॥ 035c
तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे । 036a
मद्रराजोऽपि बलवान्सैनिकानावृणोच्छरैः ॥ 036c
समावृतांस्ततस्तांस्तु राजन्वीक्ष्य स्वसैनिकान् । 037a
चिन्तयामास समरे धर्मपुत्रो युधिष्ठिरः ॥ 037c
कथं नु न भवेत्सत्यं तन्माधववचो महत् । 038a
अपि क्रुद्धो रणे राजन्क्षपयेत बलं मम ॥ 038c
'अहं मद्भ्रातरश्चैव सात्यकिश्च महारथः । 039a
पाञ्चालाः सृञ्जयाश्चैव न शक्तास्म हि मद्रपम् ॥ 039c
निहनिष्यति चैवाद्य मातुलोऽस्मान्महाबलः । 040a
गोविन्दवचनं सत्यं कथं भवति किन्त्विदम् ॥ 040c
ततः सरथनागाश्वा पाण्डवाः पाण्डुपूर्वज । 041a
मद्रराजं समासेदुः पीडयन्तः समन्ततः ॥ 041c
नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुद्यताम् । 042a
व्यधमत्समरे राजा महाभ्राणीव मारुतः ॥ 042c
ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम् । 043a
शरवृष्टिमपश्याम शलभानामिवायतिम् ॥ 043c
ते शरा मद्रराजेन प्रेषिता रणमूर्धनि । 044a
सम्पतन्तः स्म दृश्यन्ते शलभानां व्रजा इव ॥ 044c
मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः । 045a
निरन्तरमिवाकाशं सम्बभूव जनाधिप ॥ 045c
न पाण्डवानां नास्माकं तत्र किञ्चिद्व्यदृश्यत । 046a
बाणान्धकारे महति कृते तत्र महाहवे ॥ 046c
मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः । 047a
चाल्यमानं तु तं दृष्ट्वा पाण्डवानां बलार्णवम् । 047c
विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ॥ 047e
स तु तान्सर्वतो यत्ताञ्शरैः सञ्छाद्य मारिष । 048a
धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः ॥ 048c
ते च्छन्नाः समरे तेन पाण्डवानां महारथाः । 049a
नाशक्नुवंस्तदा युद्धे प्रत्युद्यातुं महारथम् ॥ 049c
धर्मराजपुरोगास्तु भीमसेनमुखा रथाः । 050a
निजघ्नुः समरे शूरंशल्यमाहवशोभिनम् ॥ ॥ 050c
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे द्वादशोऽध्यायः ॥ 12 ॥
9-12-25 सहदेवेन प्रेषितामिति पूर्वस्मात्सम्बध्यते ॥ 9-12-27 सारथिं च विव्याधेत्युत्तरस्मादपकृष्यते ॥ 9-12-38 कथनु समरे शक्यं-नहि क्रुद्धो रणे इति झ.पाठः ॥