अध्यायः 011

शल्यभीमयोर्गदायुद्धम् ॥ 1 ॥

सञ्जय उवाच । 001
पतितं प्रेक्ष्य यन्तारं शल्यः शैक्यायसीं गदाम् । 001a
आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः ॥ 001c
तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम् । 002a
सशृङ्गमिव कैलासं सवज्रमिव वासवम् ॥ 002c
सशूलमिव हर्यक्षं सचक्रमिव चक्रिणम् । 003a
सशक्तिमिव सेनान्यं वने मत्तमिव द्विपम् । 003c
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ॥ 003e
ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः । 004a
सिंहनादश्च सञ्जज्ञे शूराणां हर्षवर्धनः ॥ 004c
प्रैक्षन्त सर्वतस्तौ हि योधा मत्ताविव द्विपौ । 005a
तावकाश्चापरे चैव साधुसाध्वित्यपूजयन् ॥ 005c
न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात् । 006a
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे ॥ 006c
तथा मद्राधिपस्यापि गदावेगं महात्मनः । 007a
सोढुमुत्सहते नान्यः पुमान्युधि वृकोदरात् ॥ 007c
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः । 008a
आवर्तितौ गदाहस्तौ मद्रराजवृकोदरौ ॥ 008c
मण्डलावर्तमार्गेषु गदाविहरणेषु च । 009a
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः ॥ 009c
तप्तहेममयैः शुभ्रैर्बभूव भयवर्धिनी । 010a
अग्निज्वालैरिवाबद्धा पट्टैः शल्यस्य सा गदा ॥ 010c
तथैव चरतो मार्गान्मण्डलेषु महात्मनः । 011a
विद्युदभ्रग्रतीकाशा भीमस्य शुशुभे गदा ॥ 011c
ताडिता मद्रराजेन भीमस्य गदया गदा । 012a
दह्यमानेव खे राजन्साऽसृजत्पावकार्चिषः ॥ 012c
तथा भीमेन शल्यस्य ताडिता गदया गदा । 013a
अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत् ॥ 013c
दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ । 014a
तौ विरेजतुरन्योन्यं गदाग्राभ्यां परिक्षतौ ॥ 014c
तौ गदाभिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ । 015a
प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ ॥ 015c
गदया मद्रराजस्य सव्यदक्षिणमाहतः । 016a
भीमसेनो महाबाहुर्न चचालाचलो यथा ॥ 016c
तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः । 017a
शल्यो न विव्यथे राजन्दन्तिनेव महागिरिः ॥ 017c
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः । 018a
गदानिपातसंह्रादो वज्रयोरिव निःस्वनः ॥ 018c
निवृत्य तु महावीर्यौ समुच्छ्रितमहागदौ । 019a
पुनरन्तरमार्गस्थौ पण्डलानि विचेरतुः ॥ 019c
अथाभ्येत्य पदान्यष्टौ सन्निपातोऽभवत्तयोः । 020a
उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः ॥ 020c
पोथयन्तौ तदाऽन्योन्यं मण्डलानि विचेरतुः । 021a
क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा ॥ 021c
अभ्युद्यतगदौ वीरौ सशृङ्गाविव पर्वतौ । 022a
तावाजघ्नतुरन्योन्यं मण्डलानि विचेरतुः ॥ 022c
क्रियाविशेषकृतिनौ रणभूमितलेऽचलौ । 023a
तौ परस्परसंरम्भाद्गदाभ्यां सुभृशाहतौ ॥ 023c
युगपत्पेततुर्वीरावुभाविन्द्रबली इव । 024a
उभयोः सेनयोर्योधास्तदा हाहाकृताभवन् ॥ 024c
भृशं मर्मस्वभिहतावुभावास्तां सुविह्वलौ ॥ 025ac
ततः स्वरथमारोप्य मद्राणामृषभं रणे । 026a
अपोवाह कृपः शल्यं तूर्णमायोधनादथ ॥ 026c
क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः । 027a
भीमसेनो गदापाणिः समाह्वयत मद्रपम् ॥ 027c
ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः । 028a
नानावादित्रशब्देन पाण्डुसेनामयोधयन् ॥ 028c
भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः । 029a
अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः ॥ 029c
तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः । 030a
प्रययुः सिंहनादेन दुर्योधनवधेप्सया ॥ 030c
तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ । 031a
प्रासेन चेकितानं वै विव्याध हृदये भृशम् ॥ 031c
स पपात रथोपस्थे तव पुत्रेण पातितः । 032a
रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः ॥ 032c
चेकितानं हतं दृष्ट्वा पाण्डवेया महारथाः । 033a
असक्तमभ्यवर्षन्त शरवर्षाणि भागशः ॥ 033c
तावकानामनीकेषु पाण्डवा जितकाशिनः । 034a
व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः ॥ 034c
कृपश्च कृतवर्मा च सौबलश्च महारथः । 035a
अयोधयन्धर्मराजं मद्रराजपुरस्कृताः ॥ 035c
भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम् । 036a
दुर्योधनो महाराज धृष्टद्युम्नमयोधयत् ॥ 036c
त्रिसाहस्रास्तथा राजंस्तव पुत्रेण चोदिताः । 037a
अयोधयन्त विजयं जैगर्तानां महारथाः ॥ 037c
विजये धृतसङ्कल्पाः समरे त्यक्तजीविताः । 038a
प्राविशंस्तावका राजन्हंसा इव महत्सरः ॥ 038c
ततो युद्धमभूद्धोरं परस्परवधैषिणाम् । 039a
अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम् ॥ 039c
तस्मिन्प्रवृत्ते सङ्ग्रामे राजन्वीरवरक्षये । 040a
अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः ॥ 040c
श्रवणान्नामधेयानां पार्थिवानां च कीर्तनात् । 041a
परस्परं विजानीमस्तदायुध्यन्नभीतवत् ॥ 041c
तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम् । 042a
दिशश्च विमला जातास्तस्मिन्रजसि नाशिते ॥ 042c
तथा प्रवृत्ते सङ्ग्रामे घोररूपे भयानके । 043a
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥ 043c
ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि । 044a
सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः ॥ 044c
भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः । 045a
स्वर्गसंसक्तमनसो योधा युयुधिरे तदा ॥ 045c
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः । 046a
अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम् ॥ 046c
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत । 047a
इति स्म वाचः श्रूयन्ते तवतेषां च वै बले ॥ 047c
ततः शल्यो महाराज धर्मपुत्रं युधिष्ठिरम् । 048a
विव्याध निशितैर्बाणैर्हन्तुकामो महारथम् ॥ 048c
तस्य पार्थो महाराज नाराचान्वै चतुर्दश । 049a
मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव ॥ 049c
आवार्य पाण्डवं बाणैर्हन्तुकामो महाबलः । 050a
विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः ॥ 050c
अथ मद्रो महाराज शरेणानतपर्वणा । 051a
युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः ॥ 051c
धर्मराजोऽपि सङ्क्रुद्धो मद्रराजं महाबलः । 052a
विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः ॥ 052c
चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः । 053a
द्रुमसेनं चतुःषष्ट्या निजघान महारथः ॥ 053c
चक्ररक्षे हते शल्यः पाण्डवेन महात्मना । 054a
निजघान ततो राजंश्चेदीन्वै पञ्चविंशतिम् ॥ 054c
सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः । 055a
माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः ॥ 055c
एवं विचरतस्तस्य सङ्ग्रामे राजसत्तम । 056a
सम्प्रैषयच्छितान्पार्थः शरानाशीविषोपमान् ॥ 056c
ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः । 057a
प्रमुखे वर्तमानस्य भल्लेनापाहरद्रथात् ॥ 057c
पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना । 058a
निपतन्तमपश्याम गिरिशृङ्गमिवाहतम् ॥ 058c
ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम् । 059a
सङ्क्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह ॥ 059c
शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान् । 060a
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ॥ 060c
सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ । 061a
एकैकं पञ्चभिर्विद्ध्वा युधिष्ठिरमपीडयत् ॥ 061c
ततो बाणमयं जालं विततं पाण्डवोरसि । 062a
अपश्याम महाराज मेघजालमिवोद्गतम् ॥ 062c
तस्य शल्यो रणे क्रुद्धः शरैः सन्नतपर्वभिः । 063a
दिशः सञ्छादयामास प्रदिशश्च महारथः ॥ 063c
ततो युधिष्ठिरो राजा बाणजालेन पीडितः । 064a
बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा ॥ ॥ 064c

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे एकादशोऽध्यायः ॥ 11 ॥

9-11-3 हर्यक्षं रुद्रम् ॥ 9-11-10 शुभ्रैर्दीप्तिमद्भिः ॥