अध्यायः 010
सङ्कुलयुद्धम् ॥ 1 ॥
सञ्जय उवाच । 001
तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम् । 001a
द्रवमाणेषु योधेषु विद्रवत्सु च दन्तिषु ॥ 001c
कूजतां स्तनतां चैव पदातीनां महाहवे । 002a
निहतेषु महाराज हयेषु बहुधा तदा ॥ 002c
प्रक्षये दारुणे घोरे संहारे सर्वदेहिनाम् । 003a
नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे ॥ 003c
हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने । 004a
गाहमानेषु योधेषु परस्परवधैषिषु ॥ 004c
प्राणादाने महाघोरे वर्तमाने दुरोदरे । 005a
सङ्ग्रामे घोररूपे तु यमराष्ट्रविवर्धने ॥ 005c
पाण्डवास्तावकं सैन्यं व्यधमन्निशितैः शरैः । 006a
तथैव तावका योधा जघ्नुः पाण्डवसैनिकान् ॥ 006c
तस्मिंस्तथा वर्तमाने युद्धे भीरुभयावहे । 007a
पूर्वाह्णे चापि सम्प्राप्ते भास्करोदयनं प्रति ॥ 007c
लब्धलक्षाः परे राजन्रक्षितास्तु महात्मना । 008a
अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम् ॥ 008c
बलिभिः पाण्डवैर्दृप्तैर्लैब्धलक्षैः प्रहारिभिः । 009a
कौरव्यसीदत्पृतना मृगीवाग्निबयाकुला ॥ 009c
तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम् । 010a
उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुसुतान्प्रति ॥ 010c
मद्रराजः सुसङ्क्रुद्धो गृहीत्वा धनुरुत्तमम् । 011a
अभ्यद्रवत सङ्ग्रामे पाण्डवानाततायिनः ॥ 011c
पाण्डवा अपि भूपाल समरे जितकाशिनः । 012a
मद्रराजं समासाद्य बिभिदुर्निशितैः शरैः ॥ 012c
ततः शरशतैस्तीक्ष्णैर्मद्रराजो महारथः । 013a
अर्दयामास तां सेनां धर्मराजस्य पश्यतः ॥ 013c
प्रादुरासन्निमित्तानि नानारूपाण्यनेकशः । 014a
चचाल शब्दं कुर्वाणा मही चापि सपर्वता ॥ 014c
[सदण्डशूला दीप्ताग्रा दीर्यमाणाः समन्ततः ।] 015a
उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम् ॥ 015c
मृगाश्च महिषाश्चापि पक्षिणश्च विशाम्पते । 016a
अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप ॥ 016c
[भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ । 017a
चरमं पाण्डुपुत्राणां पुरस्तात्सर्वभूभुजाम् ॥ 017c
शस्त्राग्रेष्वभवज्ज्वाला नेत्राण्याहत्य वर्षती । 018a
शिरःस्वलीयन्त भृशं काकोलूकाश्च केतुषु] ॥ 018c
ततस्तद्युद्धमत्युग्रमभवत्सहचारिणाम् । 019a
तथा सर्वाण्यनीकानि सन्निपत्य जनाधिप ॥ 019c
अभ्यघ्नत्कौरवो राजा पाण्डवानामनीकिनीम् । 020a
शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक् ॥ 020c
अभ्यवर्षत धर्मात्मा कुन्तीपुत्रं युधिष्ठिरम् । 021a
भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितैः ॥ 021c
द्रौपदेयांस्तथा सर्वान्माद्रीपुत्रौ च पाण्डवौ । 022a
धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च ॥ 022c
एकैकं दशभिर्बाणैर्विव्याध स महाबलः । 023a
ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव ॥ 023c
ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः । 024a
पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः ॥ 024c
भ्रमराणामिव व्राताः शलभानामिव व्रजाः । 025a
ह्रादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ्शराः ॥ 025c
द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा । 026a
शल्यस्य बाणैरपतन्बभ्रमुर्व्यनदंस्तथा ॥ 026c
आविष्ट इव मद्रेशो मन्युना पौरुषेण च । 027a
प्राच्छादयदरीन्सङ्ख्ये कालसृष्ट इवान्तकः । 027c
विनर्दमानो मद्रेशो मेघह्रादो महाबलः ॥ 027e
सा वध्यमाना शल्येन पाण्डवानामनीकिनी । 028a
अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम् ॥ 028c
तां सम्मर्द्य शतैः सङ्ख्ये लघुहस्तः शितैः शरैः । 029a
बाणवर्षेण महता युधिष्ठिरमताडयत् ॥ 029c
तमापतन्तं जात्यश्वैः क्रुद्धो राजा युधिष्ठिरः । 030a
अवारयच्छरैस्तीक्ष्णैर्महाद्विपमिवाङ्कुशैः ॥ 030c
तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम् । 031a
सोऽभ्यविध्यन्महात्मानं वेगेनाभ्यपतच्च गाम् ॥ 031c
ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः । 032a
पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः ॥ 032c
द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः । 033a
अभ्यवर्षन्महाराज मेघा इव महीधरम् ॥ 033c
ततो दृष्ट्वा वार्यमाणं शल्यं पार्थैः समन्ततः । 034a
कृतवर्मा कृपश्चैव सङ्क्रुद्धावभ्यधावताम् ॥ 034c
उलूकश्च महावीर्यः शकुनिंश्चापि सौबलः । 035a
समागम्याथ शनकैरश्वत्थामा महाबलः । 035c
तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे ॥ 035e
भीमसेनं त्रिभिर्विद्ध्वा कृतवर्मा शिलीमुखैः । 036a
बाणवर्षेण महता क्रुद्धरूपमवारयत् । 036c
धृष्टद्युम्नं ततः क्रुद्धो बाणवर्षैरपीडयत् ॥ 036e
द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात् ॥ 037ac
दुर्योधनो युधांश्रेष्ठ आहवे केशवार्जुनौ । 038a
समभ्ययादुग्रतेजाः शरैश्चाप्यहनद्बली ॥ 038c
एवं द्वन्द्वशतान्यासंस्त्वदीयानां परैः सह । 039a
घोररूपाणि चित्राणि तत्रतत्र विशाम्पते ॥ 039c
ऋक्षवर्णाञ्जघानाश्वान्भोजो भीमस्य संयुगे । 040a
सोऽवतीर्य रथोपस्थाद्धताश्वात्पाण्डुनन्दनः । 040c
कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत ॥ 040e
प्रमुखे सहदेवस्य जघानाश्वान्स मद्रराट् । 041a
ततः शल्यस्य तनयं सहदेवोऽसिनावधीत् ॥ 041c
गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत् । 042a
असम्भ्रान्तमसम्भ्रान्तो यत्नवान्यत्नवत्तरम् ॥ 042c
द्रौपदेयांस्तथा वीरानेकैकं दशभिः शरैः । 043a
अविद्ध्यदाचार्यसुतो नातिक्रुद्धो हसन्निव ॥ 043c
[पुनश्च भीमसेनस्य जघानाश्वांस्तथाऽऽहवे । 044a
सोऽवतीर्य रथात्तूर्णं हताश्वः पाण्डुनन्दनः ॥ 044c
कालो दण्डमिवोद्यम्य गदां क्रुद्धो महाबलः । 045a
पोथयामास तुरगान्रथं च कृतवर्मणः । 045c
कृतवर्मा त्ववप्लुत्य रथात्तस्मादपाक्रमत् ॥] 045e
शल्योऽपि राजन्सङ्क्रुद्धो निघ्नन्सोमकपाण्डवान् । 046a
पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत् ॥ 046c
तस्य भीमो रणे क्रुद्धः सन्दश्य दशनच्छदम् । 047a
विनाशायाभिसन्धाय गदामादाय वीर्यवान् ॥ 047c
यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम् । 048a
गजवाजिमनुष्याणां देहान्तकरणीमति ॥ 048c
हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव । 049a
शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयोमयीम् ॥ 049c
चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव । 050a
वसामेदोपदिग्धाङ्गीं जिह्वां वैवस्वतीमिव ॥ 050c
पटुघण्टाशतरवां वासवीमशनीमिव । 051a
निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि ॥ 051c
त्रासनीं सर्वभूतानां स्वसैन्यपरिहर्षिणीम् । 052a
मनुष्यलोके विख्यातां गिरिशृङ्गविदारणीम् ॥ 052c
यया कैलासभवने महेश्वरसखं बली । 053a
आह्वयामास कौन्तेयः सङ्क्रुद्धमलकाधिपम् ॥ 053c
यया मायामयान्दृप्तान्सुबहून्धनदालये । 054a
जघान गुह्यकान्क्रुद्धो मन्दारार्थे महाबलः । 054c
निवार्यमाणो बहुभिर्द्रौपद्याः प्रियमास्थितः ॥ 054e
तां वज्रमणिरत्नौघकल्माषां वज्रगौरवाम् । 055a
समुद्यम्य महाबाहुः शल्यमभ्यपतद्रणे ॥ 055c
गदया युद्धकुशलस्तया दारुणनादया । 056a
पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान् ॥ 056c
ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम् । 057a
निचखान नदन्वीरोवर्म भित्त्वा च सोभ्ययात् ॥ 057c
वृकोदरस्त्वसम्भ्रान्तस्तमेवोद्धृत्य तोमरम् । 058a
यन्तारं मद्रराजस्य निर्बिभेद तदा हृदि ॥ 058c
स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः । 059a
पपाताभिमुखो भीमं मद्रराजस्त्वपाक्रमत् ॥ 059c
कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः । 060a
गदामाश्रित्य धर्मात्मा प्रत्यमित्रमवैक्षत ॥ 060c
ततः सुमनसः पार्था भीमसेनमपूजयन् । 061a
ते दृष्ट्वा कर्म सङ्ग्रामे घोरमक्लिष्टकर्मणः ॥ ॥ 061c
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे दशमोऽध्यायः ॥ 10 ॥
9-10-17 भृग्विति । सर्वभूभुजां कृत्स्नपृथ्वीपतीनां पाण्डुपुत्राणां पाण्डवानां चरमं विलोमगणनया प्रथमं युधिष्ठिरमभिलक्ष्य शक्रभौमबुधाः सप्तमस्थाने बलावहाः आसन् । एतच्च सर्वभूभुजामिति फलस्य जनकमित्यर्थः ॥ 9-10-18 आहत्य स्पृष्ट्वा । वर्षती भुवि पतन्ती ॥ 9-10-49 परिक्षिप्तां परिच्छन्नाम् ॥ 9-10-51 वासवीमैन्द्रीम् । रासनीमिति पाठे शब्दवतीम् ॥ 9-10-53 महेश्वरसखं कुबेरम् ॥