अध्यायः 009

नकुकेन कर्णपुत्राणां त्रयाणां मारणम् ॥ 1 ॥

सञ्जय उवाच । 001
तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान् । 001a
उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान् ॥ 001c
एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः । 002a
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता ॥ 002c
अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम् । 003a
न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि ॥ 003c
एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः । 004a
यत्र राजा सत्यसन्धो धर्मपुत्रो युधिष्ठिरः ॥ 004c
आपतन्तं च सहसा पाण्डवानां महद्बलम् । 005a
दधारैको रणे शल्यो वेलोद्वृत्तमिवार्णवम् ॥ 005c
पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष । 006a
व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम् ॥ 006c
मद्रराजं तु समरे दृष्ट्वा युद्धाय धिष्ठितम् । 007a
कुरवः सन्न्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥ 007c
तेषु राजन्निवृत्तेषु व्यूढानीकेषु सर्वशः । 008a
प्रावर्तत महारौद्रः सङ्ग्रामः शोणितोदकः ॥ 008c
समार्च्छच्चित्रसेनं तु नकुलो युद्धदुर्मदः । 009a
तौ परस्परमासाद्य चित्रकार्मुकधारिणौ ॥ 009c
मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ । 010a
शरतोयैः सिषिचतुस्तौ परस्परमाहवे ॥ 010c
नान्तरं तत्र पश्यामः पाण्डवस्येतरस्य च । 011a
उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ । 011c
परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ ॥ 011e
चित्रसेनस्तु भल्लेन पीतेन निशितेन च । 012a
नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः ॥ 012c
अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः । 013a
त्रिभिः शरैरसम्भ्रान्तो ललाटे वै समार्पयत् ॥ 013c
हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे । 014a
तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत् ॥ 014c
स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः । 015a
नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः ॥ 015c
स च्छिन्नधन्वा विरथः खङ्गमादाय चर्म च । 016a
रथादवातरद्वीरः शैलाग्रादिव केसरी ॥ 016c
पद्भ्यामापततस्तस्य शरवृष्टिं समासृजत् । 017a
नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः ॥ 017c
चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः । 018a
आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः ॥ 018c
सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम् । 019a
चित्रसेनशिरः कायादपाहरत पाण्डवः ॥ 019c
स पपात रथात्तस्माद्दिवाकरसमद्युतिः ॥ 020ac
चित्रसेनशिरस्तत्तु दृष्ट्वा तत्र महारथाः । 021a
साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥ 021c
विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ । 022a
सुशर्मा सत्यसेनश्च मुञ्चन्तौ विविधाञ्शरान् ॥ 022c
ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम् । 023a
जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने ॥ 023c
तावभ्येत्य महाबाहू द्वावप्यतिमहारथौ । 024a
शरौघान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा ॥ 024c
स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः । 025a
अन्यत्कार्मुकमादाय रथमारुह्य वेगवान् । 025c
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः ॥ 025e
तस्य तौ भ्रातरौ राजञ्शरैः सन्नतपर्वभिः । 026a
रथं विशकलीकर्तुं समारब्धौ विशाम्पते ॥ 026c
ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे । 027a
जघान निशितैर्बाणैः सत्यसेनस्य वाजिनः ॥ 027c
ततः सन्धाय नारचं रुक्मपुङ्खं शिलाशितम् । 028a
धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः ॥ 028c
अथान्यं रथमास्थाय धनुरादाय चापरम् । 029a
सत्यसेनः सुशर्मा च पाण्डवं पर्यधावताम् ॥ 029c
अविध्यत्तावसम्भ्रान्तौ माद्रीपुत्रः प्रतापवान् । 030a
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि ॥ 030c
सुशर्मा तु ततः क्रुद्धः पाण्डवस्य महद्धनुः । 031a
चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः ॥ 031c
अथान्यद्धनुरादाय नकुलः क्रोधमूर्च्छितः । 032a
सुशर्माणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥ 032c
सत्यसेनस्य स धनुर्हस्तावापं च मारिष । 033a
चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः ॥ 033c
अथान्यद्धनुरादाय वेगघ्नं भारसाधनम् । 034a
शरैः सञ्छादयामास समन्तात्पाण्डुनन्दनम् ॥ 034c
सन्निवार्य तु तान्बाणान्नकुलः परवीरहा । 035a
सत्यसेनसुशर्माणौ द्वाभ्यां द्वाभ्यामविध्यत ॥ 035c
तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः । 036a
सारथिं चास्य राजेन्द्र शितैर्विव्यधतुः शरैः ॥ 036c
सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा । 037a
पृथक् शराभ्यां चिच्छेद कृतहस्तः प्रतापवान् ॥ 037c
स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत् ॥ 038ac
स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम् । 039a
लेलिहानामिव विभो नागकन्यां महाविषाम् ॥ 039c
समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे ॥ 040ac
सा तस्य हृदयं गत्वा विभेद शतधा नृप । 041a
स पपात रथाद्भूमिं गतसत्वोऽल्पचेतनः ॥ 041c
भ्रातरं निहतं दृष्ट्वा सुशर्मा क्रोधमूर्च्छितः । 042a
अभ्यवर्षच्छरैस्तूर्णं पादातं पाण्डुनन्दनम् ॥ 042c
चतुर्भिश्चतुरो वाहान्ध्वजं छित्त्वा च पञ्चभिः । 043a
त्रिभिर्वै सारथिं हत्वा कर्णपुत्रो ननाद ह ॥ 043c
नकुलं विरथं दृष्ट्वा द्रौपदेयो महारथम् । 044a
सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे ॥ 044c
ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम् । 045a
शुशुभे भरतश्रेष्ठो गिरिस्य इव केसरी ॥ 045c
अन्यत्कार्मुकमादाय सुशर्माणमयोधयत् ॥ 046ac
तत्र तौ शरवर्षाभ्यां समासाद्य परस्परम् । 047a
परस्परवधे यत्नं चक्रतुः सुमहारथौ ॥ 047c
सुशर्मा तु तः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः । 048a
सुतसोमं तु विंशत्या वाह्वोरुरसि चार्पयत् ॥ 048c
ततः क्रुद्धो महाराज नकुलः परवीरहा । 049a
शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान् ॥ 049c
ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम् । 050a
आकर्णपूर्णं चिक्षेप कर्णपुत्राय संयुगे ॥ 050c
तस्य तेन शिरः कायाज्जहार नृपसत्तम । 051a
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥ 051c
स हतः प्रापतद्राजन्नकुलेन महात्मना । 052a
नदीवेगादिवारुग्णस्तीरजः पादपो महान् ॥ 052c
कर्णपुत्रवचं दृष्ट्वा नकुलस्य च विक्रमम् । 053a
प्रदुद्राव भवात्सेना तावकी भरतर्षभ ॥ 053c
तां तु सेनां महाराज्ञ मद्रराजः प्रतापवान् । 054a
अपालयद्रणे शूरः सेनापतिररिन्दमः ॥ 054c
विभीतस्थौ महाराज व्यवस्थाप्य च वाहिनीम् । 055a
सिंहनादं भृशं कृत्वा धनुःशब्दं च दारुणम् ॥ 055c
तावकाः सगरे राजन्राङ्क्षेता दृढधन्वना । 056a
प्रत्युद्ययुश्च तांस्ते तु समन्ताद्विगतव्यथाः ॥ 056c
मद्रराजं महेष्वासं परिवार्य समन्ततः । 057a
स्थिता राजन्महासेना योद्धुकामा समन्ततः ॥ 057c
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ । 058a
युधिष्ठिरं पुरस्कृत्य ह्रीनिषेवमरिन्दमम् ॥ 058c
परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे । 059a
बाणशङ्खरवांस्तीव्रान्क्ष्वेलाश्च विविधा दधुः ॥ 059c
तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा । 060a
परिवार्य सुसंरब्धाः पुनर्युद्धमरोचयन् ॥ 060c
ततः प्रववृते युद्धं भीरूणां भयवर्धनम् । 061a
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम् ॥ 061c
यथा देवासुरं युद्धं पूर्वमासीद्विशाम्पते । 062a
अभीतानां तथाऽऽसीत्तद्यमराष्ट्रविवर्धनम् ॥ 062c
ततः कपिध्वजो राजन्हत्वा संशप्तकान्रणे । 063a
अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः ॥ 063c
तथैव पाण्डवाः सर्वे धृष्टद्युम्नपुरोगमाः । 064a
अभ्यधावन्ततां सेनां विसृजन्तः शिताञ्शरान् ॥ 064c
पाण्डवैरवकीर्णानां सम्मोहः समजायत । 065a
न च जज्ञुस्त्वनीकानि दिशो वा विदिशस्तथा ॥ 065c
आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः । 066a
हतप्रवीरा विध्वस्ता वार्यमाणा समन्ततः । 066c
कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः ॥ 066e
तथैव पाण्डवं सैन्यं शरै राजन्समन्ततः । 067a
रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः ॥ 067c
ते सेने भृशसन्तप्ते वध्यमाने परस्परम् । 068a
व्याकुले समपद्येतां वर्षासु सरिताविव ॥ 068c
आविवेश ततस्तीव्रं तावकानां महद्भयम् । 069a
पाण्डवानां च राजेन्द्र तथाभूते महाहवे ॥ ॥ 069c

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे नवमोऽध्यायः ॥ 9 ॥

9-9-9 चित्रसेनः कर्णपुत्रः ॥