अध्यायः 007

उभयसैन्यानां व्यूहरचनापूर्वकं द्वन्द्वीभूय युद्धाय निर्गमनम् ॥ 1 ॥

सञ्जय उवाच । 001
व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा । 001a
अब्रवीत्तावकान्सर्वान्सन्नह्यन्तां महारथाः ॥ 001c
राज्ञश्च मतमाज्ञाय समनह्यत सा चमूः । 002a
अयोजयन्रथांस्तूर्णं पर्यधावंस्तथा परे ॥ 002c
अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः । 003a
हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः ॥ 003c
वादित्राणां च निनदः प्रादुरासीद्विशाम्पते । 004a
योधानां सैन्यमुख्यानामन्योन्यं प्रतिगर्जताम् ॥ 004c
ततो बलानि सर्वाणि हतशिष्टानि भारत । 005a
सन्नद्धानि व्यदृश्यन्त मृत्युं कृत्वा निवर्तनम् ॥ 005c
शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः । 006a
प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः ॥ 006c
ततः सर्वे समागम्य पुत्रेण तव सैनिकाः । 007a
कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः । 007c
अन्ये च पार्थिवाः शेषाः समयं चक्रुरादृताः ॥ 007e
'अद्याचार्यसुतो द्रौणिर्नैको युध्येत शत्रुभिः' । 008a
न न एकेन योद्धव्यं कथञ्चिदपि पाण्डवैः ॥ 008c
यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत् । 009a
स पञ्चभिर्भवेद्युक्तः पातकैश्चोपपातकैः । 009c
अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः ॥ 009e
एवं ते समयं कृत्वा सर्वे तत्र महारथाः । 010a
मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान् ॥ 010c
तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे । 011a
अभ्ययुः कौरवान्युद्धे योत्स्यमानाः समन्ततः ॥ 011c
ततो बलं समभवत्क्षुब्धार्णवसमस्वनम् । 012a
समुद्भूतार्णवाकारमुदीर्णरथकुञ्जरम् ॥ 012c
धृतराष्ट्र उवाच । 013
द्रोणस्य चैव भीष्मस्य राधेयस्य च मे श्रुतम् । 013a
पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे ॥ 013c
कथं रणे हतः शल्यो धर्मराजेन सञ्जय । 014a
भीमेन च महाबाहुः पुत्रो दुर्योधनो मम ॥ 014c
सञ्जय उवाच । 015
क्षयं मनुष्यदेहानां तथा नागाश्वसङ्क्षयम् । 015a
शृणु राजन्स्थिरो भूत्वा सङ्ग्रामं शंसतो मम ॥ 015c
आशा बलवती राजन्पुत्राणां तेऽभवत्तदा ॥ 016ac
हते द्रोणे च भीष्मे च सूतपुत्रे च पातिते । 017a
शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष ॥ 017c
तामाशां हृदये कृत्वा समाश्वस्य च भारत । 018a
मद्रराजं च समरे समाश्रित्य महारथम् । 018c
नाथवन्तं तदाऽऽत्मानममन्यत सुतस्तव ॥ 018e
यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे । 019a
तदा राजन्धार्तराष्ट्रान्प्रविवेश महद्भयम् ॥ 019c
तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान् । 020a
व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत् ॥ 020c
प्रत्युद्ययौ रणे पार्थान्मद्रराजः प्रतापवान् । 021a
विधून्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम् । 021c
रथप्रवरमास्थाय सैन्धवाश्वं महारथः ॥ 021e
तस्य सूतो महाराज रथस्थोऽशोभयद्रथम् । 022a
स तेन संवृतो वीरो रथेनामित्रकर्शनः । 022c
तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत् ॥ 022e
प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः । 023a
मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः ॥ 023c
सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः । 024a
गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह ॥ 024c
अश्वत्थामा पृष्ठतोऽभूत्काम्भोजैः परिवारितः । 025a
दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः ॥ 025c
हयानीकेन महता सौबलश्चापि संवृतः । 026a
प्रययौ सर्वसैन्येन कैतव्यश्च महारथः ॥ 026c
पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिन्दमाः । 027a
त्रिधाभूता महाराज तव सैन्यमुपाद्रवन् ॥ 027c
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः । 028a
शल्यस्य वाहिनीं हन्तुमभिदुद्रुवुराहवे ॥ 028c
ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः । 029a
शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभः ॥ 029c
हार्दिक्यं च महेष्वासमर्जुनः शत्रुपूगहा । 030a
संशप्तकगणांश्चैव वेगितोऽभिविदुद्रुवे ॥ 030c
गौतमं भीमसेनो वै सोमकाश्च महारथाः । 031a
अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान्युधि ॥ 031c
माद्रीपुत्रौ तु शकुनिमुलूकं च महारथम् । 032a
ससैन्यौ सहसैन्यौ तावुपतस्थतुराहवे ॥ 032c
तथैवायुतशो योधास्तावकाः पाण्डवान्रणे । 033a
अभ्यवर्तन्त सङ्क्रुद्धा विविधायुधपाणयः ॥ 033c
धृतराष्ट्र उवाच । 034
हते भीष्मे महेष्वासे द्रोणे कर्णे जयद्रथे । 034a
कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे ॥ 034c
संरब्धेषु च पार्थेषु पराक्रान्तेषु सञ्जय । 035a
मामकानां परेषां च किं शिष्टमभवद्बलम् ॥ 035c
सञ्जय उवाच । 036
यथा वयं परे राजन्युद्धाय समुपस्थिताः । 036a
यावच्चासीद्बलं शिष्टं सङ्ग्रामे तन्निबोध मे ॥ 036c
एकादश सहस्राणि रथानां भरतर्षभ । 037a
दश दन्तिसहस्राणि सप्त चैव शतानि च ॥ 037c
पूर्णे शतसहस्रे द्वे हयानां तत्र भारत । 038a
पत्तिकोट्यस्तथा तिस्रो बलमेतत्तवाभवत् ॥ 038c
रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः । 039a
दश चाश्वसहस्राणि पत्तिकोटी च भारत ॥ 039c
एतद्बलं पाण्डवानामभवच्छेषमाहवे । 040a
एत एव समाजग्मुर्युद्धाय भरतर्षभ ॥ 040c
एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः । 041a
पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः ॥ 041c
तथैव पाण्डवाः शूराः समरे जितकाशिनः । 042a
उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः ॥ 042c
एवमेते बलौघेन परस्परवधैषिणः । 043a
उपयाता नरव्याघ्राः पूर्वां सन्ध्यां प्रति प्रभो ॥ 043c
ततः प्रववृते युद्धं घोररूपं भयानकम् । 044a
तावकानां परेषां च निघ्नतामितरेतरम् ॥ ॥ 044c

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि सप्तमोऽध्यायः ॥ 7 ॥

9-7-39 पत्तिकोटी इति द्विवचनम् ॥