अध्यायः 006

दुर्योधनेन शल्यस्य सैनापत्येऽमिषेचनम् ॥ 1 ॥ कृष्णेन युधिष्ठिरम्प्रति शल्यवधविधानम् ॥ 2 ॥

सञ्जय उवाच । 001
एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान् । 001a
दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह ॥ 001c
दुर्योधन महाबाहो शृणु वाक्यविदां वर । 002a
यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनांवरौ । 002c
न मे तुल्यावुभावेतौ बाहुवीर्ये कथञ्चन ॥ 002e
उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम् । 003a
योधयेयं रणमुखे सङ्क्रुद्धः किमु पाण्डवान् ॥ 003c
विजेष्यामि रणे पार्थान्सोमकांश्च समागतान् । 004a
अहं सेनाप्रमेता ते भविष्यामि न संशयः ॥ 004
तं च व्यूहं विधास्यामि न क (त) रिष्यन्ति यं परे । 005a
इति सत्यं ब्रवीम्येष दुर्योधन न संशयः ॥ 005c
'अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः । 006a
निहनिष्यामि वा राजन्स्वर्गं यास्यामि वा हतः ॥ 006c
अद्य पश्यन्तु मां लोका विचरन्तमभीतवत् ॥ 007ac
अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः । 008a
पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः । 008c
धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः ॥ 008e
विक्रमं मम पश्यन्तु धनुषश्च महद्बलम् । 009a
लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि ॥ 009c
अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः । 010a
यादृशं मे बलं बाह्वोः सम्पदस्त्रेषु या च मे ॥ 010c
अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः । 011a
प्रतीकारपरा भूत्वा चेष्टन्ते विविधाः क्रियाः ॥ 011c
अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः ॥ 012ac
द्रोणभीष्मावति विभो सूतपुत्रं च संयुगे । 013a
विचरिष्ये रणमुखे प्रियार्थं तव कौरव ॥ 013c
सञ्जय उवाच । 014
एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा । 014a
अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम । 014c
विधिना शास्त्रदृष्टेन क्लिष्टरूपो विशाम्पते ॥ 014e
अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत् । 015a
तव सैन्येऽभ्यवाद्यन्त वादित्राणि च भारत ॥ 015c
हृष्टाश्चासंस्तथा योधा मद्रकाश्च महारथाः । 016a
तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम् ॥ 016c
जय राजंश्चिरं जीव जहि शत्रून्समागतान् । 017a
तव बाहुबलं प्राप्य धार्तराष्ट्रो महाबलः । 017c
निखिलां पृथिवीं सर्वां प्रशास्तु निहतद्विषम् ॥ 017e
त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान् । 018a
मर्त्यधर्माण इह तु किमु सृञ्जयसोमकान् ॥ 018c
एवं सम्पूज्यमानस्तु मद्राणामधिपो बली । 019a
हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः ॥ 019c
सञ्जय उवाच । 020
अभिषिक्ते तथा शल्ये तव सैन्येषु मानद । 020a
न कर्णव्यसनं किञ्चिन्मेनिरे तत्र भारत ॥ 020c
हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः । 021a
मेनिरे निहतान्पार्थान्मद्रराजवशङ्गतान् ॥ 021c
प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ । 022a
तां रात्रिं सुखिता सुप्ता हर्षचित्ता च साभवत् ॥ 022c
सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः । 023a
वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य पश्यतः ॥ 023c
मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव । 024a
सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः ॥ 024c
एतज्ज्ञात्वा यथाभूतं कुरु माधव यत्क्षमम् । 025a
भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम् ॥ 025c
तमब्रवीन्महाराज वासुदेवो जनाधिपम् । 026a
आर्तायनिमहं जाने यथातत्त्वेन भारत ॥ 026c
वीर्यवांश्च महातेजा महात्मा च विशेषतः । 027a
कृती च चित्रयोधी च संयुक्तो लाघवेन च ॥ 027c
यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे । 028a
तादृशस्तद्विशिष्टो वा मद्रराजो मतो मम ॥ 028c
युध्यमानस्य तस्याहं चिन्तयानश्च भारत । 029a
योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप ॥ 029c
शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत । 030a
धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे ॥ 030c
मद्रराजो महाराजः सिंहद्विरदविक्रमः । 031a
विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव ॥ 031c
तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहवे । 032a
त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम् ॥ 032c
स त्वमेको हि लोकेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत् । 033a
मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन ॥ 033c
अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव । 034a
तस्माज्जहि रणे शल्यं मघवानिव शम्बरम् ॥ 034c
सौतेः पश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः । 035a
तवैव हि जयो नूनं हते मद्रेश्वरे युधि । 035c
तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत् ॥ 035e
एतच्छ्रुत्वा महाराज वचनं मम साम्प्रतम् । 036a
प्रत्युद्याहि रणे पार्थ मद्रराजं महारथम् ॥ 036c
जहि चैनं महाबाहो वासवो नमुचिं यथा ॥ 037ac
न चैवात्र दया कार्या मातुलोऽयं ममेति वै । 038a
क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम् ॥ 038c
द्रोणभीष्मार्णवं तीर्त्वा कर्णपातालसम्भवम् । 039a
मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम् ॥ 039c
यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव । 040a
तद्दर्शय रणे सर्वं जहि चैनं महारथम् ॥ 040c
सञ्जय उवाच । 041
एतावदुक्त्वा वचनं केशवः परवीरहा । 041a
जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः ॥ 041c
केशवे तु तदा याते धर्मपुत्रो युधिष्ठिरः । 042a
विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान् । 042c
सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः ॥ 042e
ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा । 043a
कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा ॥ 043c
गतज्वरं महेष्वासं तीर्णपारं महारथम् । 044a
बभूव पाण्डवेयानां सैन्यं च मुदितं निशि । 044c
सूतपुत्रस्य निधनाज्जयं लब्ध्वा च मारिष ॥ ॥ 044e

इति श्रीमन्महाभारते कर्णपर्वणि शल्यवधपर्वणि षष्ठोऽध्यायः ॥ 6 ॥

9-6-14 क्लिष्टरूपः पराजयनिश्चयात् ॥ 9-6-18 मर्त्यधर्माणः मर्त्यधर्मणः ॥