अध्यायः 005

दुर्योधनेन सैनापत्यविधानप्रार्थनायां अश्वत्थाम्ना शल्यस्य सेनापतित्वविधानम् ॥ 1 ॥ दुर्योधनेन शल्यम्प्रति सैनापत्यस्वीकारप्रार्थना ॥ 2 ॥

सञ्जय उवाच । 001
अथ हैमवते प्रस्थे स्थित्वा युद्धाभिनन्दिनः । 001a
सर्व एव महायोधास्तत्रतत्र समागताः ॥ 001c
शल्यश्च चित्रसेनश्च शकुनिश्च महारथः। 002a
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥ 002c
सुषेणोऽरिष्टसेनश्च धृतसेनश्च वीर्यवान् । 003a
जयत्सेनश्च राजानस्ते रात्रिमुषितास्ततः ॥ 003c
रणे कर्णे हते वीरे त्रासिता जितकाशिभिः । 004a
नालभञ्शर्म ते पुत्रा हिमवन्तमृते गिरिम् ॥ 004c
तेऽब्रुवन्सहितास्तत्र राजानं शल्यसन्निधौ । 005a
कृतयत्ना रणे राजन्सम्पूज्य विधिवत्तदा ॥ 005c
कृत्वा सेनाप्रणेतारं परांस्त्वं योद्धुमर्हसि। 006a
येनाभिगुप्ताः सङ्ग्रामे जयेमासुहृदो वयम् ॥ 006c
ततो दुर्योधनः स्थित्वा रथे रथवरोत्तमम् । 007a
सर्वयुद्धविभावज्ञमन्तकप्रतिमं युधि ॥ 007c
स्वङ्गं प्रच्छिन्नशिरसं कम्बुग्रीवं प्रियंवदम् । 008a
व्याकोचपद्मपत्राक्षं व्याघ्रास्यं मेरुगौरवम् ॥ 008c
स्थाणोर्वृषस्य सदृशं स्कन्धनेत्रगतिस्वरैः 009a
पुष्टश्लिष्टायतभुजं सुविस्तीर्णवरोरसम् ॥ 009c
बले जवे च सदृशमरुणानुजवातयोः । 010a
आदित्यस्यार्चिषा तुल्यं बुद्ध्या चोशनसा समम् ॥ 010c
कान्तिरूपमुखैश्वर्यैस्त्रिभिश्चन्द्रमसा समम् । 011a
काञ्चनोपलसङ्घातैः सदृशं श्लिष्टसन्धिकम् ॥ 011c
सवृत्तोरुकटीजङ्घं सुपादं स्वङ्गुलीनखम् । 012a
स्मृत्वा स्मृत्वैव तु गुणान्धात्रा यत्नाद्विनिर्मितम् ॥ 012c
सर्वलक्षणसम्पन्नं निपुणं श्रुतिसागरम् । 013a
जेतारं तरसाऽरीणामजेयमरिभिर्बलात् ॥ 013c
'प्रयोगबलसंहारप्रायश्चित्तं सुमङ्गलम् । 014a
प्रयोगविनियोगौ च स्मृतिं यस्य गुणान्विदुः'॥ 014c
दशाङ्गं यश्चतुर्पादमिष्वस्त्रं वेद तत्वतः । 015a
साङ्गांस्तु चतुरो वेदान्सम्यगाख्यानपञ्चमान् ॥ 015c
आराध्य त्र्यम्बकं यत्नाद्व्रतैरुग्रैर्महातपाः । 016a
अयोनिजायामुत्पन्नो द्रोणेनायोनिजेन यः ॥ 016c
तमप्रतिमकर्माणं रूपेणाप्रतिमं भुवि । 017a
पारगं सर्व विद्यानां गुणार्णवमनिन्दितम् । 017c
तमभ्येत्यात्मजस्तुभ्यमश्वत्थामानमब्रवीत् ॥ 017e
गुरुपुत्राद्य सर्वेषामस्माकं परमा गतिः । 018a
भवांस्तस्मान्नियोगात्ते कोऽस्तु सेनापतिर्मम । 018c
यं पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान् ॥ 018a
द्रौणिरुवाच । 019
अयं कुलेन रूपेण तेजसा यशसा श्रिया । 019a
सर्वैर्गुणैः समुदितः शल्यो नोऽस्तु चमूपतिः ॥ 019c
भागिनेयान्निजांस्त्यक्त्वा कृतज्ञोऽस्मानुपागतः । 020a
महासेनो महाबाहुर्महासेन इवापरः ॥ 020c
एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम । 021a
शक्यः प्राप्तुं जयोऽस्माभिर्देवैःस्कन्दमिवाजितम् ॥ 021c
तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः । 022a
परिवार्य स्थिताः शल्यं जयशब्दांश्च चक्रिरे ॥ 022c
युद्धाय च मतिं चक्रुरावेशं च परं ययुः ॥ 023ac
ततो दुर्योधनः शल्यं भूमौ स्थित्वा रथे स्थितम् । 024a
उवाच प्राञ्जलिर्भूत्वा द्रोणभीष्मसमं रणे ॥ 024c
अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल । 025a
यत्र मित्रममित्रं वा परीक्षन्ते बुधा जनाः ॥ 025c
स भवानस्तु नः शूरः प्रणेता वाहिनीमुखे । 026a
रणं याते च भवति पाण्डवा मन्दचेतसः । 026c
भविष्यन्ति सहामात्याः पाञ्चालाश्च निरुद्यमाः ॥ 026e
दुर्योधनवचः श्रुत्वा शल्यो मद्राधिपस्तदा । 027a
उवाच वाक्यं वाक्यज्ञो राजानं राजसन्निधौ ॥ 027c
यत्र मां मन्यसे राजन्कुरुराज करोमि तत् । 028a
त्वत्प्रियार्थं हि मे सर्वं प्राणा राज्यं धनानि च ॥ 028c
दुर्योधन उवाच । 029
सैनापत्येन वरये त्वामहं मातुलातुलम् । 029a
सोऽस्मान्पाहि युधां श्रेष्ठ स्कन्दो देवानिवाहवे ॥ 029c
अभिषिच्यस्व राजेन्द्र देवानामिव पावकिः । 030a
जहि शत्रून्रणे वीर महेन्द्रो दानवानिव ॥ 030c

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥

9-5-1 प्रस्थे शिखरे ॥ 9-5-3 ततस्तत्र ॥ 9-5-8 स्वङ्गं शोभनाङ्गम् ॥ 9-5-9 स्थाणोः सम्बन्धिनो वृषस्य ॥ 9-5-17 तुभ्यं तव ॥ 9-5-20 महासेनइव कार्तिकेयइव ॥