अध्यायः 004

दुर्योधनेन कृपम्प्रति कारणकथनपूर्वकं सन्ध्यनङ्गीकरणम् ॥ 1 ॥

सञ्जय उवाच । 001
एवमुक्तस्ततो राजा गौतमेन तपस्विना । 001a
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशाम्पते ॥ 001c
ततो मुहूर्तं स ध्यात्वा तव पुत्रो महामनाः । 002a
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः ॥ 002c
यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् । 003a
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता ॥ 003c
गाहमानमनीकानि युध्यमानं महारथैः । 004a
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् ॥ 004c
सुहृदा यदिदं वाक्यं भवता श्रावितो ह्यहम् । 005a
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् ॥ 005c
हेतुकारणसंयुक्तं हितं वचनमुत्तमम् । 006a
उच्यमानं महाबाहो न मे विप्राग्र्य रोचते ॥ 006c
राज्याद्विनिकृतोऽस्माभिःकथं सोस्मासु विश्वसेत् ॥ 007ac
अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः । 008a
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु ॥ 008c
तथा दूत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः । 009a
प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम् । 009c
स च मे वचनं ब्रह्मन्कथमेवाभिमन्यते ॥ 009e
विललाप च यत्कृष्णा सभामध्ये समेयुषी । 010a
न तन्मर्षयते कृष्णो न राज्यहरणं तथा ॥ 010c
एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ । 011a
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो ॥ 011c
स्वस्रीयं निहतं दृष्ट्वा दुःखं स्वपिति केशवः । 012a
कृतागसो वयं तस्य हितं मे स कथं चरेत् ॥ 012c
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः । 013a
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः ॥ 013c
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः । 014a
प्रतिज्ञातं च तेनोग्रं भज्येतापि न सन्नमेत् ॥ 014c
उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ । 015a
कृतवैरावुभौ वीरौ यमावपि यमोपमौ ॥ 015c
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह । 016a
तौ कथं मद्धिते यत्नं कुर्यातां द्विजसत्तम ॥ 016c
दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला । 017a
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः ॥ 017c
तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः । 018a
न निवारयितुं शक्याः सङ्ग्रामात्ते परन्तपाः ॥ 018c
यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता । 019a
उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये । 019c
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातनम् ॥ 019e
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा । 020a
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा ॥ 020c
इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन । 021a
अभिमन्योर्विनाशेन स सन्धेयः कथं मया ॥ 021c
कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम् । 022a
पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम् ॥ 022c
उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा । 023a
युधिष्ठिरं कथं पञ्चादनुयास्यामि दासवत् ॥ 023c
कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् । 024a
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ॥ 024c
नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया ॥ 025ac
न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन । 026a
सुनीतमनुपश्यामि सुयुद्धेन परन्तप ॥ 026c
नायं क्लीबायितुं कालः संयोद्वुं काल एव नः ॥ 027ac
इष्टं मे बहुभिर्जज्ञैर्दत्ता विप्रेषु दक्षिणाः । 028a
प्राप्ताः कामाः श्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम् ॥ 028c
भृत्या मे सुभृतास्तात दीनश्चाभ्युद्धृतो जनः । 029a
नोत्सहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम् ॥ 029c
जितानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् । 030a
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया ॥ 030c
पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः । 031a
न ध्रुवं सुखमस्तीह कुतो राष्ट्रं कुतो यशः । 031c
इह कीर्तिर्विचेतव्या सा च युद्धेन नान्यथा ॥ 031e
वृथा च यत्क्षत्रियस्य निधनं तद्विगर्हितम् । 032a
अधर्मः सुमहानेष यच्छय्यामरणं गृहे ॥ 032c
अरण्ये यो विमुच्येत सङ्ग्रामे वा तनुं नृपः । 033a
क्रतूनाहृत्य महतो महिमानं स गच्छति ॥ 033c
कृपणं विलपन्नार्तो जरयाऽभिपरिप्लुतः । 034a
म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः ॥ 034c
त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम् । 035a
अपीदानीं सुयुद्धेन गच्छेयं यत्सलोकताम् ॥ 035c
शूराणामार्यवृत्तानां सङ्क्रामेष्वनिवर्तिनाम् । 036a
धीमतां सत्यसन्धानां सर्वेषां क्रतुयाजिनाम् । 036c
शस्त्रावभृथपूतानां ध्रुवो वासस्त्रिविष्टपे ॥ 036e
मुदा नूनं प्रपश्यन्ति युद्धे ह्यप्सरसां गणाः ॥ 037ac
पश्यन्ति नूनं पितरः पूजितान्सुरसंसदि । 038a
अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे ॥ 038c
पन्थानममरैर्यान्तं शूरैश्चैवानिवर्तिभिः । 039a
अपि तत्सङ्गतं मार्गं वयमध्यारुहेमहि ॥ 039c
पितामहेन वृद्धेन तथाऽचार्येण धीमता । 040a
जयद्रथेन कर्णेन तथा दुःशासनेन च ॥ 040c
घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः । 041a
शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः ॥ 041c
उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः । 042a
त्यक्त्वा प्राणान्यथान्यायमिन्द्रसद्मसु धिष्ठिताः ॥ 042c
तैः स्वयं रचितो मार्गो दुर्गमो हि पुनर्भवेत् । 043a
सम्पतद्भिर्महावेगैरितो यास्यामि सद्गतिम् ॥ 043c
ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन् । 044a
ऋणं तत्प्रतियुञ्जानो न राज्ये मन आदधे ॥ 044c
पातयित्वा वयस्यांश्च भ्रातृनथ पितामहान् । 045a
जीवितं यदि रक्षेयं लोको मां गर्हयेद्ध्रुवम् ॥ 045c
कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः । 046a
सखिभिश्च विशेषेण प्रणिपत्य च पाण्डवम् ॥ 046c
सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम् । 047a
सुयुद्धेन हतः स्वर्गं प्राप्सामि न तदन्यथा ॥ 047c
सञ्जय उवाच । 048
एवं दुर्योधनेनोक्ते सर्वे सम्पूज्य तद्वचः । 048a
साधुसाध्विति राजानं क्षत्रियाः सम्बभाषिरे ॥ 048c
पराजयमशोचन्तः कृतचित्ताश्च विक्रमे । 049a
सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन् ॥ 049c
ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः । 050a
ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः ॥ 050c
आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे । 051a
अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च तेजलम् ॥ 051c
तव पुत्रकृतोत्साहाः पर्यवर्तन्त ते ततः । 052a
पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा । 052c
सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः ॥ ॥ 052e

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥

9-4-11 पुरा यच्छान्तमेवासीत् इति क. पाठः । पुरा यः शन्तमो नासीदद्य पश्यामि तं कथम् इति ङ.पाठः ॥ 9-4-15 उरश्छदः कङ्कटक इत्यमरः ॥ 9-4-32 विप्रवन्मरणं गृहे इति क.पाठः । विण्मूत्रमरणं गृहे इति ङ.पाठः ॥