अध्यायः 003
कृपेण कर्णवधदुःखितं दुर्योधनं प्रति स्वपरक्षयोर्दौर्बल्यप्राबल्याभिधानपूर्वकमुपायं प्रदर्श्य सन्धिविधानम् ॥ 1 ॥
सञ्जय उवाच । 001
शृणु राजन्नवहितो यथावृत्तो महान्क्षयः । 001a
कुरूणां पाण्डवानां च समासाद्य परस्परम् ॥ 001c
निहते सूतपुत्रे च फल्गुनेन महात्मना । 002a
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् ॥ 002c
विमुखे तव पुत्रे च शोकोपहतचेतसि । 003a
भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम् ॥ 003c
ध्यायमानेषु योधेषु दुःखं प्राप्तेषु भारत । 004a
बलानां मथ्यमानानां श्रुत्वा निनदमुत्तमम् ॥ 004c
अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे । 005a
पतितानवनीपालान्धवजांश्चैव महात्मनाम् । 005c
रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च भारत ॥ 005e
आयोधनं महाघोरं रुद्रस्याक्रीडसन्निभम् । 006a
अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः ॥ 006c
कृपाविष्टः कृपो दृष्ट्वा वयः शीलसमन्वितः । 007a
अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम् । 007c
दुर्योधनमनुक्रोशाद्वाक्यं वाक्यविशारदः ॥ 007e
दुर्योधन निबोधेयं यत्त्वां वक्ष्यामि कौरव । 008a
श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ ॥ 008c
न युद्धधर्माच्छ्रेयान्वै पन्था राजेन्द्र विद्यते । 009a
यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ ॥ 009c
पुत्रो भ्राता पिता चैव स्वस्रीयो मातुलस्तथा । 010a
सम्बन्धिबान्धवाश्चैव योद्वव्याः क्षत्रजीविनः ॥ 010c
वधे चैव परो धर्मस्तथाऽधर्मः पलायने । 011a
ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः । 011c
तदत्र प्रतिवक्ष्यामि किञ्चिदेव हितं वचः ॥ 011e
हते भीष्मे च द्रोणे च कर्णे चैव महारथे । 012a
जयद्रथे च निहते तव भ्रातृषु चानघ । 012c
लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे ॥ 012e
येषु भारं समासज्य राज्ये मतिमकुर्महि । 013a
ते सन्त्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम् ॥ 013c
वयं त्विह विनाभूता गुणवद्भिर्महारथैः । 014a
कृपणं वर्तयिष्यामः पातयित्वा नृपान्बहून् ॥ 014c
सर्वैरथ च जीवद्भिर्बीभत्सुरपराजितः । 015a
कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः ॥ 015c
इन्द्रकार्मुकवज्राभमिन्द्रकेतुमिवोच्छ्रितम् । 016a
वानरं केतुमासाद्य सञ्चचाल महाचमूः ॥ 016c
सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च । 017a
गाण्डीवस्य च निर्घोषात्सम्मुह्यन्ते मनांसि नः ॥ 017c
स्फुरन्तीव महाविद्युन्मुष्णन्ती नयनप्रभाम् । 018a
अलातमिव चाविद्धं गाण्डीवं समदृश्यत ॥ 018c
जाम्बूनदविचित्रं च धूयमानं महद्धनुः । 019a
दृश्यते दिक्षु स्रवासु विद्युदभ्रघनेष्विव ॥ 019c
उह्यमानश्च कृष्णेन वायुनेव बलाहकः । 020a
तावकं तद्बलं राजन्नर्जुनोऽस्त्रविशारदः । 020c
गहनं शिशिरापाये ददाहाग्निरिवोल्बणः ॥ 020e
गाहमानमनीकानि महेन्द्रसदृशप्रभम् । 021a
विक्षोभयन्तं सेनां वै त्रासयन्तं च पार्थिवान् । 021c
धनञ्जयमपश्याम नलिनीमिव कुञ्जरम् ॥ 021e
त्रासयन्तं तथा योधान्धनुर्घोषेण पाण्डवम् । 022a
भूय एनमपश्याम सिंहं मृगगणानिव ॥ 022c
सर्वलोकमहेष्वासौ वृषभौ सर्वधन्विनाम् । 023a
आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः ॥ 023c
अद्य सप्तदशाहानि वर्तमानस्य भारत । 024a
सङ्ग्रामस्यातिघोरस्य युध्यतां चाभितो युधि ॥ 024c
वायुनेव विधूतानि एव सैन्यानि गच्छता । 025a
शरदम्भोदजालानि विशीर्यन्ते समन्ततः ॥ 025c
तां नावमिव पर्यस्तां मज्जमानां महार्णवे । 026a
तव सेनां महाराज सव्यसाची व्यकम्पयत् ॥ 026c
क्वनु ते सूतपुत्रोऽभूत्क्वनु द्रोणः सहात्मजः । 027a
अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्वनु ॥ 027c
दुःशासनश्च ते भ्राता भ्रातृभिः सहितः क्वनु ॥ 028ac
बाणगोचरसम्प्राप्तं युध्यमानं जयद्रथम् । 029a
सम्बन्धिनस्ते भ्रातॄंश्च साहयान्मातुलांस्तथा । 029c
सर्वान्विक्रम्य मिषतो लोकमाक्रम्य मूर्धनि ॥ 029e
जयद्रथो हतो राजन्किन्नु शेषमुपास्महे । 030a
को वेह स पुमानास्ते यो विजेष्यति पाण्डवम् ॥ 030c
तस्य चास्त्राणि दिव्यानि विदितानि महात्मनः । 031a
गाण्डीवस्य च निर्घोषो धैर्याणि हरते हि नः ॥ 031c
नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका । 032a
नागभग्नद्रुमा शुष्का नदीव प्रतिभाति मे ॥ 032c
ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः । 033a
चरिष्यति महाराजः कक्षेष्वग्निरिव ज्वलन् ॥ 033c
सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः । 034a
दारयेत गिरीन्सर्वाञ्शोषयेच्चैव सागरान् ॥ 034c
उवाच वाक्यं यद्भीमः सभामध्ये विशाम्पते । 035a
कृतं तत्सफलं सर्वं भूयश्चैव करिष्यति ॥ 035c
प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम् । 036a
दुरासदं तदा गुप्तं व्यूढं गाण्डीवधन्वना ॥ 036c
युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु । 037a
अकारणकृतान्येव तेषां वः फलमागतम् ॥ 037c
आत्मनोऽर्थे त्वया लोके यत्नतः सर्व आहृतः । 038a
स ते संशयितस्तात आत्मा च भरतर्षभ ॥ 038c
रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् । 039a
भिन्ने हि भाजने तात दिशो गच्छति तद्गतम् ॥ 039c
हीयमानेन वै सन्धिः पर्येष्टव्यः समेन वा । 040a
विग्रहो वर्धमानेन नीतिरेषा बृहस्पतेः ॥ 040c
ते वयं पाण्डुपुत्रेभ्यो हीनाः स्म बलशक्तितः । 041a
अत्र ते पाण्डवैः सार्धं सन्धिं मन्ये क्षमं प्रभो ॥ 041c
न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते । 042a
स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दति ॥ 042c
प्रणिपत्य हि राजानं राज्यं यदि लभेमहि । 043a
श्रेयः स्यान्न तु मौढ्येन राजन्गन्तुं पराभवम् ॥ 043c
वैचित्रवीर्यवचनात्कृपाशीलो युधिष्ठिरः । 044a
विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च ॥ 044c
'अजातशत्रुः कौरव्यो गुरुशुश्रूषणे रतः । 045a
धृतराष्ट्रस्य वचनं नावमंस्यति धार्मिकः ॥ 045c
कुर्वन्ति भ्रातरश्चास्य वचनं नात्र संशयः ॥ 046ac
यद्ब्रूयाद्धि हृषीकेशो राजानमपराजितम् । 047a
अर्जुनो भीमसेनश्च सर्वे कुर्युरसंशयम् ॥ 047c
नातिक्रमिष्यते कृष्णो वचनं पाण्डवस्य तु । 048a
धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः ॥ 048c
एतत्क्षममहं मन्ये तव पार्थैरविग्रहम् । 049a
न त्वां ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात् ॥ 049c
पथ्यं राजन्ब्रवीमि त्वां तत्परासुः स्मरिष्यसि ॥ 050ac
इति वृद्धो विलप्यैतत्कृपः शारद्वतो वचः । 051a
दीर्घमुष्णं च निःश्वस्यशुशोच च मुमोह च ॥ ॥ 051c
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि तृतीयोऽध्यायः ॥ 3 ॥
9-3-12 शेषास्त्वां पर्युपास्महे इति ङ.पाठः ॥ 9-3-15 कृष्णो नेत्रं नेता यस्य स तथा ॥ 9-3-24 वर्तमानस्य सङ्ग्रामस्य अभितो वध्यतां वध्यमानानां च अद्य सप्तदशाहानि जातानीत्यन्वयः । जातानीति शेषः ॥ 9-3-47 अर्जुनं भीमसेनं च इति झ. पाठः । असंशयं गतवैरमित्यर्थः ॥ 9-3-48 वचनं कौरवस्य तु इति झ. पाठः ॥