अध्यायः 002
धृतराष्ट्रेण सञ्जयस्य पुरतो दुर्योधनवचनानुस्मरणेन विलापः ॥ 1 ॥
वैशम्पायन उवाच । 001
विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः । 001a
विललाप महाराज दुःखाद्दुःखतरं गतः ॥ 001c
सधूममिव निःश्वस्य करौ धुन्वन्पुनःपुनः । 002a
बहु सञ्चिन्तयित्वा तु सञ्जयं वाक्यमब्रवीत् ॥ 002c
धृतराष्ट्र उवाच । 003
अहो बत महद्दुःखं यदहं पाण्डवान्रणे । 003a
क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै ॥ 003c
वज्रसारमयं नूनं हृदयं सुदृढं मम । 004a
यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा ॥ 004c
चिन्तयित्वा वचस्तेषां बालक्रीडां च सञ्जय । 005a
अद्य चैव हताञ्श्रुत्वा दीर्यते मे भृशं मनः ॥ 005c
अन्धत्वाद्यदि पुत्राणां न मे रूपिनिदर्शनम् । 006a
पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता ॥ 006c
बालभावमतिक्रम्य यौवनस्थांश्च तानहम् । 007a
श्रियं प्राप्तांश्च ताञ्श्रुत्वा हृष्ट आसं तदाऽनघ ॥ 007c
तानद्य निहताञ्श्रुत्वा हतैश्वर्यान्हतौजसः । 008a
न लभेयं क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः ॥ 008c
एह्येहि वत्स राजेन्द्र ममानाथस्य पुत्रक । 009a
त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम् ॥ 009c
कथं त्वं पृथिवीपालांस्त्यक्त्वा तात समागतान् । 010a
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा ॥ 010c
गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा । 011a
अन्धं वृद्धं च मां वीर विहाय क्व नु यास्यसि ॥ 011c
सा कृपा सा च ते प्रीतिः सा च राजसु मानिता । 012a
कथं त्वं निहतः पार्थैः संयुगेष्वपराजितः ॥ 012c
को नु मामुत्थितः काले ताततातेति वक्ष्यति । 013a
महाराजेति सततं लोकनाथेति चासकृत् ॥ 013c
परिष्वज्य च कं कण्ठे स्नेहेन क्लिन्नलोचनः । 014a
अनुशास्ताऽस्मि कौरव्य तत्साधु वद मे वचः ॥ 014c
ननु नामाहमश्रौषं वचनं तव पुत्रक । 015a
भूयसी मम पृथ्वीयं तात पार्थस्य नो तथा ॥ 015c
भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः । 016a
भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः ॥ 016c
अश्वत्थामा च भोजश्च मागधश्च महाबलः । 017a
बृहद्बलश्च क्राथश्च शकुनिश्चापि सौबलः ॥ 017c
म्लेच्छाश्च शतसाहस्राः शकाश्च यवनैः सह । 018a
सुदक्षिणश्च काम्भोजस्त्रिगर्ताधिपतिस्तथा ॥ 018c
भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः । 019a
श्रुतायुश्चाश्रुतायुश्च शतायुश्चापि वीर्यवान् ॥ 019c
जलसन्धोऽथार्ष्यशृङ्गी राक्षसश्चाप्यलायुधः । 020a
अलम्बुसो वीरबाहुः सुबाहुश्च महारथः ॥ 020c
एते चान्ये च बहवो राजानो राजसत्तम । 021a
मदर्थं प्रहरिष्यन्ति प्राणांस्त्यक्त्वा धनानि च ॥ 021c
तेषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः । 022a
योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः ॥ 022c
चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे । 023a
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम् ॥ 023c
एकोऽप्येषां महाराज समर्थः सन्निवारणे । 024a
समरे पाण्डवेयानां सङ्क्रुद्धो ह्यभिधावताम् ॥ 024c
किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः । 025a
अथवा सर्व एवैते पाण्डवस्यानुयायिभिः ॥ 025c
योत्स्यन्ते सह राजेन्द्र हनिष्यन्ति च तान्मृधे । 026a
कर्ण एको मया सार्धं निहनिष्यति पाण्डवान् ॥ 026c
ते वै नृपतयो वीराः स्थास्यन्ति मम शासने ॥ 027ac
यश्च तेषां प्रणेता वै वासुदेवो महाबलः । 028a
न स सन्नह्यते राजन्निति मामब्रवीद्वचः ॥ 028c
एवं च वदतः सूत बहुशो मम सन्निधौ । 029a
युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्रणे ॥ 029c
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः । 030a
व्यायच्छमानाः समरे किमन्यद्भागधेयतः ॥ 030c
भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान् । 031a
शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम् ॥ 031c
द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः । 032a
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः ॥ 032c
कर्णश्च निहतः सङ्ख्ये दिव्यास्त्रज्ञो महाबलः । 033a
भूरिश्रवा हतो पत्र सोमदत्तश्च संयुगे । 033c
बाह्लिकश्च महाराज किमन्यद्भागधेयतः ॥ 033e
भगदत्तो हतो यत्र गजयुद्धविशारदः । 034a
जयद्रथश्च निहतः किमन्यद्भागधेयतः ॥ 034c
सुदक्षिणो हतो यत्र जलसन्धश्च पौरवः । 035a
श्रुतायुश्चाश्रुतायुश्च किमन्यद्भागधेयतः ॥ 035c
महाबलस्तथा पाण्ड्यः सर्वशस्त्रभृतां वरः । 036a
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः ॥ 036c
बृहद्बलो हतो यत्र मागधश्च महाबलः । 037a
उग्रायुधश्च विक्रान्तः प्रतिमानं धनुष्मताम् ॥ 037c
आवन्त्यो निहतो यत्र त्रैगर्तश्च जनाधिपः । 038a
संशप्तकाश्च निहताः किमन्यद्भागधेयतः ॥ 038c
अलम्बुसस्तथा राजन्राक्षसश्चाप्यलायुधः । 039a
आर्ष्यशृङ्गिश्च निहतः किमन्यद्भागधेयतः ॥ 039c
नारायणा हता यत्र गोपाला युद्धदुर्मदाः । 040a
म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः ॥ 040c
शकुनिः सौबलो यत्र कैतव्यश्च महाबलः । 041a
निहतः सबलो वीरः किमन्यद्भागधेयतः ॥ 041c
एते चान्ये च बहवः कृतास्त्रा युद्धदुर्मदाः । 042a
राजानो राजपुत्राश्च शूराः परिघबाहवः । 042c
निहता बहवो यत्र किमन्यद्भागधेयतः ॥ 042e
यत्र शूरा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः । 043a
बहवो निहताः सूत महेन्द्रसमविक्रमाः ॥ 043c
नानादेशसमावृत्ताः क्षत्रिया यत्र सञ्जय । 044a
निहताः समरे सर्वे किमन्यद्भागधेयतः ॥ 044c
पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः । 045a
वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः ॥ 045c
भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः । 046a
यस्तु भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः ॥ 046c
अहं वियुक्तस्तैर्भाग्यैः पुत्रैश्चैवेह सञ्जय । 047a
कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः ॥ 047c
नान्यदत्र परं मन्ये वनवासादृते प्रभो । 048a
सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसङ्क्षये ॥ 048c
न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते । 049a
इमामवस्थां प्राप्तस्य लूनपक्षस्य सञ्जय ॥ 049c
दुर्योधनो हतो यत्र शल्यश्च निहतो युधि । 050a
दुःशासनो विविंशश्च विकर्णश्च महाबलः ॥ 050c
कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम् । 051a
एकेन समरे येन हतं पुत्रशतं मम ॥ 051c
असकृद्वदतस्तस्य दुर्योधनवधेन च । 052a
दुःखशोकाभिसन्तप्तो न श्रोष्ये परुषा गिरः ॥ 052c
वैशम्पायन उवाच । 053
एवं स शोकसन्तप्तः पार्थिवो हतबान्धवः । 053a
मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः ॥ 053c
विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः । 054a
दीर्घमुष्णं स निःश्वस्य चिन्तयित्वा पराभवम् ॥ 054c
दुःखेन महता राजन्सन्तप्तो भरतर्षभः । 055a
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥ 055c
धृतराष्ट्र उवाच । 056
भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम् । 056a
सेनापतिं प्रणेतारं कमकुर्वत मामकाः ॥ 056c
यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः । 057a
अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः ॥ 057c
रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना । 058a
एवमेव हतो द्रोणः सर्वेषामेव पश्यताम् ॥ 058c
एवमेव हतः कर्णः सूतपुत्रः प्रतापवान् । 059a
सराजकानां सर्वेषां पश्यतां वः किरीटिना ॥ 059c
पूर्वमेवाहमुक्तो वै विदुरेण महात्मना । 060a
दुर्योधनापराधेन प्रजेयं विनशिष्यति ॥ 060c
केचिन्न सम्यक्पश्यन्ति मूढाः सम्यगवेक्ष्य च । 061a
तदिदं मम मूढस्य तथाभूतं वचः स्म तत् ॥ 061c
यदब्रवीत्स धर्मात्मा विदुरो दीर्घदर्शिवान् । 062a
तत्तथा समनुप्राप्तं वचनं सत्यवादिनाः ॥ 062c
दैवोपहतचित्तेन यन्मयाऽनुष्ठितं पुरा । 063a
अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः ॥ 063c
को वा मुखमनीकानामासीत्कर्णे निपातिते । 064a
अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी ॥ 064c
केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे । 065a
वामं च योद्वुकामस्य के वा वीरस्य पृष्ठतः ॥ 065c
कथं च वः समेतानां मद्रराजो महारथः । 066a
निहतः पाण्डवैः सङ्ख्ये पुत्रो वा मम सञ्जय ॥ 066c
ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम् । 067a
यथा च निहतः सङ्ख्ये पुत्रो दुर्योधनो मम ॥ 067c
पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः । 068a
धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः ॥ 068c
पाण्डवाश्च यथा मुक्तास्तथोभौ माधवौ युधि । 069a
कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः ॥ 069c
यद्यथा यादृशं चैव युद्धं वृत्तं च साम्प्रतम् । 070a
अखिलं श्रोतुमिच्छामि कुशलो ह्यसि सञ्जय ॥ ॥ 070c
इति श्रीमन्महाभारते कर्णपर्वणि शल्यवधपर्वणि द्वितीयोऽध्यायः*॥ 2 ॥*
9-2-2 सधूममिव अत्युष्णित्यर्थः ॥ 9-2-14 परिष्वज्य च मां कण्ठे स्नेहेन क्लिन्नलोचनः । अनुशाधीति कौरव्य तत्साधु वद मे वचः इति झ.पाठः ॥ 9-2-37 प्रतिमानं केतुभूतः ॥ 9-2-61 केचित्सम्यक्प्रपश्यन्ति मूढास्तु न तथा परे इति ख.पाठः । सम्यगवेक्ष्य निपुणं विभाव्यापि मूढास्तथाभूतं तद्वचः केचिन्न पश्यन्तीति सम्बन्धः । तथाभूतं यथार्थम् ॥