शल्यपर्व

अध्यायः 001

दुर्योधनेन शल्यस्य सैनापत्येऽभिषेचनपूर्वकं पुनर्युद्धाय निर्याणम् ॥ 1 ॥ सञ्जयाच्छल्यदुर्योधनादिवधश्रवणेन मूर्च्छितस्य धृतराष्ट्रस्य विदुरेण समाश्वासनम् ॥ 2 ॥

श्रीवेदव्यासाय नमः ॥ 001
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । 001a
देवीं सरस्वतीं (व्यासं) चैव ततो जयमुदीरयेत् ॥ 001c
जनमेजय उवाच । 001
एवं निपातिते कर्णे समरे सव्यसाचिना । 001a
अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज ॥ 001c
विदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः । 002a
पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः ॥ 002c
एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम । 003a
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ 003c
वैशम्पायन उवाच । 004
ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः । 004a
भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत् ॥ 004c
हाकर्ण हाकर्ण इति शोचमानो मुहुर्मुहुः । 005a
कृच्छ्रात्स्वशिबिरं प्रायाद्धतशिष्टैर्नृपैः सह ॥ 005c
स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः । 006a
राजन्विभूतिमिच्छद्भिः सूतपुत्रमनुस्मरन् ॥ 006c
स दैवं बलवन्मत्वा प्रभाते विमले सति । 007a
सङ्ग्रामे निश्चयं कृत्वा पुनर्युद्वाय निर्ययौ ॥ 007c
शल्यं सेनापतिं कृत्वा विधिवद्राजसत्तमम् । 008a
रणाय निर्ययौ राजा हतशिष्टैर्नृपैः सह ॥ 008c
ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः । 009a
बभूव भरतश्रेष्ठ देवासुररणोपमम् ॥ 009c
ततः शल्यो महाराज कृत्वा कदनमाहवे । 010a
पाण्डुसैन्येऽथ मध्याह्ने धर्मराजेन पातितः ॥ 010c
ततो दुर्योधनो राजा हतबन्धू रणाजिरात् । 011a
अपसृत्य ह्रदं घोरं विवेश रिपुजाद्भुयात् ॥ 011c
अथापराह्णे तस्याह्नः परिवार्य महारथैः । 012a
ह्रदादाहूय युद्वाय भीमसेनेन पातितः ॥ 012c
तस्मिंस्तु निहते वीरे महेष्वासास्त्रयो रणे । 013a
कृतवर्मा कृपो द्रौणिर्जघ्नुः पाण्डवसैनिकान् ॥ 013c
ततः पूर्वाह्णसमये शिबिरादेत्य सञ्जयः । 014a
प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः ॥ 014c
स प्रविश्य पुरीं सूतो भूजावुच्छ्रित्य दुःखितः । 015a
वेपमानस्ततो राज्ञः प्रविवेश निवेशनम् ॥ 015c
धावतश्चाप्यपश्यत्स तत्रत्यान्पुरुषर्षभान् । 016a
नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशदुःखितान् ॥ 016c
दृष्ट्वैव च नराञ्शीघ्रं व्याजहारातिदुःखितः । 017a
अहो बत विपन्नोऽस्मि निधनेन महात्मनः ॥ 017c
अहो सुबलवान्कालो गतिश्च परमा तथा । 018a
शुक्रतुल्यबलाः सर्वे यत्राहन्यन्त पार्थिवाः ॥ 018c
तं दृष्ट्वैव पुरे राजञ्जनः सर्वः स्म सञ्जयम् । 019a
प्ररुरोद भयोद्विग्नो हा राजन्निति सुस्वरम् ॥ 019c
आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः । 020a
आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम् ॥ 020c
तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम् । 021a
ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम् ॥ 021c
दृष्ट्वा चासीनमनघं समन्तात्परिवारितम् । 022a
स्नुषामिर्भरतश्रेष्ठ गान्धार्या विदुरेण च । 022c
तथाऽन्यैश्च सुहृद्भिश्च ज्ञातिभिश्च हितैषिभिः ॥ 022e
तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति । 023a
रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय ॥ 023c
नातिहृष्टमनाः सूतो बाष्पसन्दिग्धया गिरा । 024a
सञ्जयोऽहं नरव्याघ्र नमस्ते भरतर्षभ ॥ 024c
मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा । 025a
उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः ॥ 025c
संशप्तका हताः सर्वे काम्भोजाश्च शकैः सह । 026a
म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः ॥ 026c
प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः । 027a
उदीच्याश्च हताः सर्वे प्रतीच्याश्च नरोत्तमाः । 027c
राजानो राजपुत्राश्च सर्वे विनिहता नृप ॥ 028a
कर्णपुत्रो हतः शूरः सत्यसेनो महाबलः ॥ 028c
दुर्योधनो हतो राजा ययोक्तं पाण्डवेन ह । 029a
भग्नसक्थो महाराज शेते पांसुषु रूषितः ॥ 029c
धृष्टद्युम्नो हतो राजञ्शिखण्डी चापराजितः । 030a
उत्तमौजा युधामन्युस्तथा सर्वे प्रभद्रकाः ॥ 030c
पाञ्चालश्च नरव्याघ्र चेदयश्च निषूदिताः । 031a
तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत ॥ 031c
नरा विनिहताः सर्वे गजाश्च विनिपातिताः । 032a
रथिनत्र नरव्याघ्र हयाश्च निहता युधि ॥ 032c
निःशेषं शिबिरं राजंस्तावकानां कृतं प्रभो । 033a
पाण्डवानां च शूराणां समासाद्य परस्परम् ॥ 033c
प्रायः स्त्रीशेषमभवज्जगत्कालेन मोहितम् । 034a
सप्त पाण्डवतः शिष्टा धार्तराष्ट्रास्त्रयोरथाः ॥ 034c
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः । 035a
कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः ॥ 035c
एते शेषा महाराज रथिनो नृपसत्तम । 036a
अक्षौहिणीनामष्टानां दशानां च न संशयः ॥ 036c
एते शेषा महाराज सर्वेऽन्ये निधनं गताः । 037a
कालेन निहतं सर्वं जगद्वै भरतर्षभ । 037c
दुर्योधनं वै पुरतः कृत्वा सर्वे नरा हताः ॥ 037e
वैशम्पायन उवाच । 038
एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः । 038a
निपपात स राजेन्द्रो गतसत्वो महीतले ॥ 038c
तस्मिन्निपतिते वीरे विदुरोऽपि महायशाः । 039a
निपपात महाराज शोकव्यसनकर्शितः ॥ 039c
गान्धारी च महाभागा सर्वाश्च कुरुयोषितः । 040a
पतिताः सहसा भूमौ श्रुत्वा घोरतरं वचः ॥ 040c
निःसञ्ज्ञं पतितं भूमौ तदाऽऽसीद्राजमण्डलम् । 041a
विलापमुक्तोपहतं चित्रं न्यस्तं पटे यथा ॥ 041c
कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः । 042a
शनैरलभत प्राणान्पुत्रव्यसनकर्शितः ॥ 042c
लब्ध्वा तु स नृपः प्राणान्वेपमानः सुदुःखितः । 043a
निरीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत् ॥ 043c
विद्धि क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ । 044a
ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः । 044c
एवमुक्त्वा ततो भूयो विसञ्ज्ञो निपपात ह ॥ 044e
तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन । 045a
शीतैस्ते सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि ॥ 045c
स तु दीर्घेण कालेन प्रत्याश्वस्तो नराधिपः । 046a
तूष्णीमासीन्महीपालः पुत्रव्यसनकर्शितः ॥ 046c
निःश्वसञ्जिह्मग इव कुम्भक्षिप्तोऽभवन्नृपः ॥ 047ac
सञ्जयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम् । 048a
तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी ॥ 048c
ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत् । 049a
धृतराष्ट्रो नरश्रेष्ठ मुह्यमानो मुहुर्मुहुः ॥ 049c
गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी । 050a
तथेमे सुहृदः सर्वे मुह्यते मे मनो भृशम् ॥ 050c
एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ । 051a
विसर्जयामास शनैर्मुह्यमानः पुनःपुनः ॥ 051c
निश्चक्रमुस्ततः सर्वाः स्त्रियो भरतसत्तम । 052a
सुहृदश्च तथा सर्वे दृष्ट्वा राजानमातुरम् ॥ 052c
ततो नरपतिस्तत्र लब्ध्वा सञ्ज्ञां परन्तपः । 053a
गतिर्मे को भवेदद्य इति चिन्तासमाकुलः । 053c
अपृच्छत्सञ्जयं तत्र रोदमानं भृशातुरम् ॥ 053e
प्राञ्जलिं सञ्जयं दृष्ट्वा रोदमानं मुहुर्मुहुः । 054a
ज्ञातीन्स्त्रियोऽथ निर्याप्य प्रविश्य विदुरः पुनः ॥ 054c
राजानं शोचमानस्तु तं शोचन्तं मुहुर्मुहुः । 055a
समाश्वासयत क्षत्ता वचसा मधुरेण च ॥ ॥ 055c

इति श्रीमन्महाभारते कर्णपर्वणि शल्यवधपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

9-1-12 अपराह्णे अपरार्धे ॥ 9-1-41 विलापयुक्तोपहतं इति ङ.पाठः । विलापयुक्तं सुमहत् इति घ. पाठः ॥