अध्यायः 101

कर्णवधानन्तरमर्जुनेन युधिष्ठिराभिवादनम् ॥ 1 ॥ तेन कृष्णार्जुनप्रशंसनम् ॥ 2 ॥ कृष्णयुधिष्ठिरसंवादः ॥ 3 ॥

सञ्जय उवाच । 001
हते वैकर्तने कर्णे कुरवो भयपीडिताः । 001a
वीक्षमाणा दिशः सर्वाः पलायन्त सहस्रशः ॥ 001c
रावणं निहतं दृष्ट्वा राक्षसा राघवेण वा । 002a
दिशो भीता द्रवन्नेव तावका भयपीडिताः ॥ 002c
ततो महारवं चक्रुर्योधा राजन्समन्ततः । 003a
वार्यमाणा भृशोद्विग्नास्तव पुत्रेण भारत ॥ 003c
तेषां तु मतमाज्ञाय पुत्रस्ते भरतर्षभ । 004a
अवहारं ततश्चक्रे शल्यस्यानुमतेन च ॥ 004c
कृतवर्मा रणे तूर्णं वृतो भारत तावकैः । 005a
नारायणावशिष्टैश्च शिबिरायैव दुद्रुवे ॥ 005c
अश्वत्थामा ततः शूरो विनिश्वस्य मुहुर्मुहुः । 006a
पाण्डवानां जयं दृष्ट्वा शिबिरायैव दुद्रुवे ॥ 006c
कृपः शारद्वतो राजन्नागानीकेन भारत । 007a
महता मेघकल्पेन शिबिरायैव दुद्रुवे ॥ 007c
गान्धाराणां सहस्रेण शकुनिः परिवारितः । 008a
सुशर्मा च ययौ राजन्वीक्षमाणो भयार्दितः ॥ 008c
दुर्योधनोऽपि स ययौ ह्वतसर्वस्व आतुरः । 009a
ज्ञातिशोकसमापन्नश्चिन्तयित्वा मुहुर्मुहुः ॥ 009c
छिन्नध्वजेन शल्यस्तु रथेन रथिनां वरः । 010a
प्रययौ शिबिरायैव वीक्षमाणो दिशो दश ॥ 010c
ततोऽपरे सुबहुशो भारतानां महारथाः । 011a
व्यद्रवन्त दिशो भीता भयविह्वलचेतसः ॥ 011c
अश्रूपूर्णा भयोद्विग्ना वेपमाना भयातुराः । 012a
कुरवः प्राद्रवन्सर्वे दृष्ट्वा कर्णं निपातितम् ॥ 012c
प्रशंसन्तोऽर्जुनं केचित्केचित्कर्णं महारथाः । 013a
प्राद्रवन्त रणे भीताः कुरवः कुरुसत्तम ॥ 013c
तेषां योधसहस्राणां तावकानां महामृधे । 014a
नासीत्तत्र पुमान्कश्चिद्यस्तु युद्धे मनो दधे ॥ 014c
कर्णे हते महाराज निराशाः कुरवोऽभवन् । 015a
जीवनेषु च राज्येषु दारेषु च धनेषु च ॥ 015c
तान्समानीय पुत्रस्ते यत्नेन महता विभो । 016a
निवेशाय मनो दध्रे दुःखशोकसमन्वितः ॥ 016c
तस्याज्ञां शिरसा दीनाः प्रतिगृह्य विशाम्पते । 017a
विषण्णमनसो भीत्या न्यविशन्त महारथाः ॥ 017c
चिन्तयन्तो वधं घोरं सूतपुत्रस्य संयुगे । 018a
अर्जुनस्य जयं युद्धे चिन्तयानाः पुनःपुनः ॥ 018c
पाण्डवाश्च महेष्वासा न्यविशन्त परन्तपाः । 019a
प्रहृष्टमनसः सर्वे जित्वा शत्रुं महारथाः ॥ 019c
ततो युधिष्ठिरं तत्र निविष्टं वै मुदान्वितम् । 020a
समेत्य सर्वे पाञ्चाला वर्धयन्तो यथाविधि ॥ 020c
अर्जुनस्तु रथात्तूर्णमवरुह्य महायशाः । 021a
धर्मराजस्य चरणौ पीडयामास हृष्टवत् ॥ 021c
तमुत्थाप्य महाराज धर्मपुत्रः प्रतापवान् । 022a
सस्वजे भरतश्रेष्ठमुपजिघ्रन्नुपस्पृशन् ॥ 022c
नकुलः सहदेवश्च पाण्डवश्च वृकोदरः । 023a
अभिवाद्य महाराजमस्वजन्त स्म फल्गुनम् ॥ 023c
धृष्टद्युम्नः शिखण्डी च पाण्डवानां च ये रथाः । 024a
वर्धयन्ते स्म राजानं निहते सूतनन्दने ॥ 024c
ततः कृष्णो महाराज सात्यकिश्चापि सात्वतः । 025a
वर्धयन्ते स्म राजानं निहते सूतनन्दने ॥ 025c
वासुदेवश्च कौन्तेयं प्रणयादिदमब्रवीत् । 026a
अद्य राजन्हताः सर्वे धार्तराष्ट्राः सराजकाः । 026c
हते वैकर्तने कर्णे रथानां प्रवरे रथे ॥ 026e
यदि लोकास्त्रयः सर्वे योधयेयुः सवासवाः । 027a
तथापि दुर्जयः सूतस्तव कोपात्तु सूदितः ॥ 027c
एवमुक्तः प्रत्युवाच धर्मराजो जनार्दनम् ॥ 028ac
तव प्रसादाद्गोविन्द हतः कर्णो महायशाः । 029a
पाण्डवाश्च जयं प्राप्तानाशिताश्चापि शत्रवः ॥ 029c
त्वं हि शक्तो भयात्त्रातुं यस्य कस्यचिदाहवे । 030a
त्वमस्य जगतो गोप्ता पाण्डवानां च सर्वदा ॥ 030c
त्वां समासाद्य शक्रोऽपि मोदते दिवि नित्यशः । 031a
त्वं पाता पाण्डुपुत्राणां यथैव जगतस्तथा ॥ 031c
अनाश्चर्यो जयस्तेषां भक्तिर्येषां त्वयि प्रभो ॥ 032ac
त्वया नाथेन गोविन्द नाथवन्तो वयं युधि । 033a
यथेन्द्रेण पुरा देवास्त्वया चापि जनार्दन ॥ 033c
स्वप्स्याम्यद्य सुखं कृष्ण निद्रां लप्स्ये त्वहं क्षपाम् । 034a
विगतं हि भयं मेऽद्य त्वत्प्रसादान्न संशयः ॥ 034c
एवमुक्तस्तु पार्थेन केशवः प्राह पाण्डवम् । 035a
निमित्तमात्रं हि वयं तवाप्यस्मिन्मुदागमे ॥ 035c
यस्य ते भ्रातरः शूरा भीमसेनादयो नृप । 036a
सम्बन्धिनश्चेन्द्रवीर्याः पार्षतप्रमुखास्तथा ॥ 036c
अर्हते च भवान्नित्यं प्रियं नित्यं च मद्धितम् । 037a
प्रियो हि मे त्वमेतेन वचनेन नरोत्तम ॥ 037c
इत्युक्तो धर्मराजस्तु स्वरथं हेमभूषितम् । 038a
दन्तवर्णैर्हयैर्युक्तं कालवालैर्महीपतिः ॥ 038c
आस्थाय पुरुषव्याघ्रः स्वबलेनापि संवृतः । 039a
प्रययौ बहुवृत्तान्तं द्रष्टुमायोधनं प्रति ॥ 039c
सम्भाषमाणौ तौ वीर उभौ माधवपाण्डवौ ॥ 040ac
स ददर्श रणे कर्णं शयानं पुरुषर्षभम् । 041a
गाण्डीवमुक्तैर्विशिखैः सर्वतः सन्निपीडितम् ॥ 041c
सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः । 042a
प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ ॥ 042c
अद्य राजाऽस्मि सर्वस्यां पृथिव्यां मधुसूदन । 043a
दिष्ट्या जयसि गोविन्द दिष्ट्याशत्रुर्निपातितः ॥ 043c
एवं सुबहुशो राजन्प्रशशंस जनार्दनम् । 044a
अर्जुनं च कुरुश्रेष्ठो धर्मराजो युधिष्ठिरः ॥ 044c
दृष्ट्वा च निहतं कर्णं स पुत्रं पार्थसायकैः । 045a
पुनर्जातमिवात्मानं मेने कुरुकुलोद्वहः ॥ 045c
समेत्य च कुरुश्रेष्ठं कुन्तीपुत्रं युधिष्ठिरम् । 046a
वर्धयन्ति स्म राजानो हर्षयुक्ता महारथाः ॥ 046c
सञ्जय उवाच । 047
एवमेष क्षयो वृत्तः सुमहान्रोमहर्षणः । 047a
तव दुर्मन्त्रिते राजन्दिष्ट्या त्वमनुशोचसि ॥ 047c
वैशम्पायन उवाच । 048
श्रुत्वैतदप्रियं राजा धृतराष्ट्रो महीपतिः । 048a
पपात भूमौ निश्चेष्टः कौरव्यः परमासनात् । 048c
तथा सत्यव्रता देवी गान्धारी दिव्यदर्शना ॥ 048e
ततस्तूर्णं तु विदुरस्तं नृपं सञ्जयस्तथा । 049a
पर्याश्वासयतां चैतावुभावेव तु भूमिपम् ॥ 049c
तथैवाश्वासयामासुर्गान्धारीं कुरुयोषितः ॥ 050ac
स दैवं परमं मेने भवितव्यं च भारत । 051a
ताभ्यामाश्वासितो राजा तूष्णीमास्ते विशाम्पते ॥ 051c
एवमाख्याय राज्ञे च सञ्जयो राजसत्तम । 052a
जगाम शिबिरं भूयो हते कर्णे महात्मनि ॥ 052c
स दृष्ट्वा निहतं शल्यं राजानं च सुयोधनम् । 053a
शकुनिं सुबहून्राजन्सैनिकांश्च सहस्रशः ॥ 053c
तथैव पाण्डवीं सेनां निहतां प्रेक्ष्य सञ्जयः । 054a
सौप्तिके द्रौणिना राजन्हतवाजिनरद्विपाम् ॥ 054c
स हि दृष्ट्वा हतान्सर्वान्समन्ताद्युधि सञ्जयः । 055a
प्रयातो हास्तिनपुरं शोकार्तो भयविह्वलः ॥ 055c
हतेषु पुनरेतेषु प्रभूतगजवाजिषु । 056a
योधैश्च तैर्महाराज नानादेशसमुद्भवैः ॥ 056c
कुरुक्षेत्रं तु तत्सर्वं शून्यमासीद्विशाम्पते । 057a
निहतैः पाण्डवेयैश्च धार्तराष्ट्रैश्च संयुगे ॥ 057c
यथाहि विषयं वृत्तं धार्तराष्ट्रस्य सञ्जयः । 058a
निवेदयति तत्सर्वं यथावृत्तं यथाविधि ॥ 058c
एवं महायुद्धमिदं महात्मनो धनञ्जयस्याधिरथेश्च यः पठेत् । 059a
स सम्यगिष्टस्य मखस्य यत्फलं तदाप्नुयाद्यः शृणुयाच्च नित्यशः ॥ 059c
मखो हि विष्णुर्भगवान्सनातनो वहन्ति यं चाप्यनिलेन्दुभानवः । 060a
अतोऽनसूयुः शृणुयात्पठेच्च यः स सर्वलोकांश्च जयेत्सुखी भवेत् ॥ ॥ 060c

इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां कर्णपर्वणि एकाधिकशततमोऽध्यायः ॥ 101 ॥ ॥ कर्णपर्व समाप्तम् ॥ 8 ॥

अतः परं शल्यपर्व भविष्यति । तस्यायमाद्यः श्लोकः ॥

जनमेजय उवाच । एवं निपातिते कर्णे समरे सव्यसाचिना । अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज ॥

इदं कर्णपर्व कुम्भघोणस्थेन टी.आर्.कृष्णाचार्येण टी. आर्. व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1829 सन 1907.