अध्यायः 100

कर्णवधानन्तरं कृष्णार्जुनयोर्युधिष्ठिरसमीपगमनम् ॥ 1 ॥

सञ्जय उवाच । 001
शरसङ्कृत्तवर्माणं रुधिरोक्षितवक्षसम् । 001a
गतासुमपि राधेयं नैव लक्ष्मीर्विमुञ्चति ॥ 001c
तप्तजाम्बूनदनिभं बालार्कसदृशद्युतिम् । 002a
जीवन्तमिव तं शूरं सर्वभूतानि मेनिरे ॥ 002c
हतस्यापि महाराज सूतपुत्रस्य संयुगे । 003a
वित्रेसुः सर्वतो योधाः सिंहस्येवेतरे मृगाः ॥ 003c
हतोऽपि पुरुषव्याघ्रो व्याहरन्निव लक्ष्यते । 004a
नाभवद्विकृतिः काचिन्मृतस्यापि महात्मनः ॥ 004c
चारुवेषधरं राजंश्चारुमौलिशिरोधरम् । 005a
तन्मुखं सूतपुत्रस्य पूर्णचन्द्रसमद्युति ॥ 005c
कनकोत्तमसह्काशो ज्वलन्निव विभावसुः । 006a
स शान्तः पुरुषव्याघ्रः पार्थसायकवारिणा ॥ 006c
यथाऽग्निर्ज्वलनो दीप्तो जलमासाद्य शाम्यति । 007a
कर्णाग्निः समरे तद्वत्पार्थमेघेन शामितः ॥ 007c
आहृत्य स यशो दीप्तं सुयुद्धेनात्मनो भुवि । 008a
सपुत्रः समरे कर्णः प्रशान्तः पार्थतेजसा ॥ 008c
प्रताप्य पाण्डवान्सर्वान्पाञ्चालानस्त्रतेजसा । 009a
नानाभरणवान्रजंस्तप्तजाम्बूनदप्रभः ॥ 009c
वर्षित्वा शरवर्षाणि प्रताप्य रिपुवाहिनीम् । 010a
श्रीमानिव सहस्रांशुर्ज्वलन्सर्वान्प्रताप्य च । 010c
हतो वैकर्तनः कर्णः पादपोऽङ्कुरवानिव ॥ 010e
ददानीत्येव यः प्रादान्न नास्तीत्यर्थितोऽवदत् । 011a
सद्भ्यः सदा सत्पुरुषः स हतो द्वैरथे वृषा ॥ 011c
यस्य ब्राह्मणसात्सर्वं वित्तमासीन्महात्मनः । 012a
नादेयं ब्राह्मणेष्वासीद्यस्य स्वमपि जीवितम् ॥ 012c
स दातॄणां प्रियो राजन्दाता चैव मनोरथान् । 013a
स पार्थास्त्रविनिर्दग्धो गतः परमिकां गतिम् ॥ 013c
यमाश्रित्याकरोद्वैरं सुतस्ते स गतो दिवम् । 014a
आदाय तव पुत्राणां जयाशां शर्म वर्म च ॥ 014c
हते च कर्णे सरितो न सस्रुर्जगाम चास्तं कलुषो दिवाकरः । 015a
श्वेतो ग्रहश्च ज्वलितार्कवर्णो यमस्य पुत्रोऽभ्युदितः स तिर्यक् ॥ 015c
नभश्चचालाथ ननाद चोर्वी ववुश्च वाताः परुषाश्च घोराः । 016a
दिशो बभूवुर्ज्वलिताः सधूमा महार्णवाः सस्वनुश्चुक्षुभुश्च ॥ 016c
सकाननाश्चाद्रिवराश्चकम्पिरे प्रविव्यथुर्भूतगणाश्च मारिष । 017a
बृहस्पतिः सम्परिवार्य रोहिणीं बभूव चन्द्रार्कसमो विशाम्पते ॥ 017c
हते कर्णे न दिशो विप्रचाराः सचन्द्रार्का द्यौर्विचचाल भूमिः । 018a
पपात चोल्का ज्वलनप्रभा च निशाचरा हृष्टतरा बभूवुः ॥ 018c
शशिप्रकाशाननमर्जुनो यदा जहार कर्णस्य शिरः शरेण । 019a
ततोऽन्तरिक्षे सहसैव शब्दो बभूव हाहेति सुरैर्विमुक्तः ॥ 019c
सदेवगन्धर्वमनुष्यपूजितं निहत्य कर्णं रिपुमाहवेऽर्जुनः । 020a
रराज राजन्परमेण तेजसा यथा पुरा वृत्रवधे शतक्रतुः ॥ 020c
पताकिना भीमनिनादकेतुना रथेन शङ्खस्फटिकावभासिना । 021a
महेन्द्रवाहप्रतिमेन तावुभौ महेन्द्रवीर्यप्रतिमानपौरुषौ ॥ 021c
सुवर्णमुक्तामणिवज्रविद्रुमैरलङ्कृतेनाप्रतिमेन रंहसा । 022a
नरोत्तमौ यादवपाण्डुनन्दनौ दिवाकरौ दीप्तहुताशनाविव । 022c
रणाजिरे वीतभयौ विरेजतुःसमानयोगाविव विष्णुवासवैः ॥ 022e
ततो धनुर्ज्यातलनेमिनिस्वनैः प्रसह्य कृत्वा च रिपून्गतप्रभान् । 023a
स साधयित्वा च रिपूञ्शरौघैः कपिध्वजः पक्षिवरध्वजश्च । 023c
प्रदध्मतुः शङ्खवरौ सुघोषौ मनांस्यरीणामुपतापयन्तौ ॥ 023e
सुवर्णजालावततौ महास्वनौ हिमावदातौ परिगृह्य पाणिभिः । 024a
चुचुम्बतुः शङ्खवरौ नृणां वरौ विघोषयन्तौ विजयं जगत्त्रये ॥ 024c
पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभयोः । 025a
पृथिवीमन्तरिक्षं च दिशश्च समपूरयत् ॥ 025c
वित्रस्ताश्चाभवन्सर्वे कुरवो राजसत्तम । 026a
शूरयोः शङ्खशब्देन माधवस्यार्जुनस्य च ॥ 026c
तौ शङ्खशब्देन निनादयन्तौ वनानि शैलान्सरितो गुहाश्च । 027a
वित्रासयन्तौ तव पुत्रसेनां युधिष्ठिरं नन्दयितुं प्रयातौ ॥ 027c
ततः प्रजग्मुः कुरवो जवेन श्रुत्वैव शङ्खस्वनमीर्यमाणम् । 028a
विहाय मद्राधिपतिं पतिं च दुर्योधनं भारत भारतानाम् ॥ 028c
ततो रथेनाम्बुदबृन्दनादिना शरद्यहर्मध्यदिवाकरत्विषा । 029a
धनञ्जयस्याधिरथेश्च विस्मिताः प्रशंसमानाः प्रययुस्तदाऽर्जुनम् ॥ 029c
महाहवे तं बहुशोभमानं धनञ्जयं योधगणैः समेताः । 030a
तावन्वमोदंश्च जनाः प्रकामं प्रभाकरावभ्युदितौ यथैव ॥ ॥ 030c

इति श्रीमन्महाभारते कर्णपर्वणि शततमोऽध्यायः ॥ 100 ॥

8-100-13 सदा स्त्रीणां प्रिय इति झ.पाठः ॥