अध्यायः 099

शल्येन कर्णमरणाद्व्याकुलमनसो दुर्योधनस्य समाश्वासनम् ॥ 1 ॥ तथा तम्प्रति रणाङ्कणवर्णनम् ॥ 2 ॥ देवगन्धर्वादीनां स्वस्वस्थानगमनम् ॥ 3 ॥

सञ्जय उवाच । 001
कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम् । 001a
यदृच्छया सूर्यमिवावनिं गतं दिदृक्षवः सम्परिवार्य तस्थुः ॥ 001c
प्रहृष्टवित्रस्तविषण्णविस्मितास्तथाऽपरे शोकसमन्विताऽभवन् । 002a
परे त्वदीयाश्च रणे विशाम्पते यथायथेष्टं पृतना तथा गता ॥ 002c
प्रविद्धवर्माभरणायुधाम्बरं धनञ्जयेन प्रहतं महारथम् । 003a
निशाम्य कर्णं कुरवः प्रदुद्रुवुर्हतर्षभं केसरिणेव गोकुलम् ॥ 003c
कृत्वा विमर्दं भृशमर्जुनेन कर्णं हतं केसरिणेव नागम् । 004a
दृष्ट्वा शयानं युधि मद्रराजश्छिन्नध्वजेनापययौ रथेन ॥ 004c
कर्णे हते पार्थभयात्प्रदुद्रुवुर्वैकर्तने धार्तराष्ट्राः सशल्याः । 005a
अवेक्षमाणा मुहुरर्जुनस्य केतुं महान्तं यशसा ज्वलन्तम् ॥ 005c
शल्यस्तु कर्णार्जुनयोर्विमर्दे बलानि दृष्ट्वा मृदितध्वजानि । 006a
ययौ स तेनैव रथेन तूर्णं हेलीकृतः सृञ्जयसोमकैश्च ॥ 006c
निपातितस्यन्दनवाजिनागं बलं च दृष्ट्वा हतसूतपुत्रम् । 007a
भीमस्तु भीमेन तदा स्वरेण समुन्नदद्रोदसी कम्पयंश्च ॥ 007c
आस्फोटयन्नृत्यति वल्गते च हते कर्णे त्रासयन्धार्तराष्ट्रान् । 008a
तदा राजन्सृञ्जयाः सोमकाश्च शङ्खान्दध्मुः सस्वजुश्चापि सर्वे ॥ 008c
परस्परं क्षत्रिया हृष्टरूपाः सूतात्मजे वै निहते तदानीम् । 009a
दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो दीनो मुहुर्निश्वसन्नार्तरूपः ॥ 009c
मद्राधिपश्चापि विमूढचेतास्तूर्णं ध्वजेनापहृतेन तेन । 010a
रथेन दुर्योधनमेत्य तूर्णं पश्यन्सुदुःखात्तमुवाच राजन् ॥ 010c
विशीर्णनागाश्वरथप्रवीरं बलं त्वदीयं यमराष्ट्रकल्पम् । 011a
अन्योन्यमासाद्य हतैः शयानैर्नराश्वनागैर्गिरिकूटकल्पैः ॥ 011c
नैतादृशं भारत युद्धमासीद्यथा हि कर्णार्जुनयोर्बभूव । 012a
ग्रस्तौ हि कर्णेन समेत्य कृष्णावन्ये हि सर्वे तव शात्रवेयाः ॥ 012c
दैवं तु यत्तत्स्ववशे प्रवृत्तं तत्पाण्डवान्पाति निहन्ति चास्मान् । 013a
तवार्थसिद्ध्यर्थकरा हि सर्वे प्रसह्य वीरा निहता द्विषद्भिः ॥ 013c
कुबेरवैवस्वतवासवानां तुल्यप्रभावा वरुणस्य चापि । 014a
वीर्येण शौर्येण पराक्रमेण तैश्चापि युक्ता विमलैर्गुणौघैः ॥ 014c
अवध्यकल्पा निहता नरेन्द्रास्तवार्थकामा युधि पाण्डवेयैः । 015a
तन्मा शुचो भारत दिष्टमेतत्पर्यायसिद्धिर्न तु नित्यसिद्धिः ॥ 015c
एतद्वचो मद्रपतेर्निशम्य स्वं चाविनीतं मनसा विचिन्त्य । 016a
दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो मुहुर्मुहुर्निश्वसन्नार्तरूपः ॥ 016c
*तद्व्यानमूकं कृपणं भृशार्तमार्तायनिर्दीनमुवाच राजन् । 017a
पश्येदमुग्रैर्नरवाजिनागैरायोधनं वीर हतैः सुपूर्णम् ॥ 017c
महीधराभैः पतितैश्च नागैः सकृत्प्रयत्नैः शरभिन्नगात्रैः । 018a
प्रविह्वलद्भिश्च गतासुभिश्च प्रध्वस्तवर्मायुधसर्वयोधैः ॥ 018c
वज्रापविद्धैरिव चाचलौघैर्विभिन्नपाषाणमृगद्रुमौघैः । 019a
प्रविद्धघण्टाङ्कुशतोमरध्वजैः सहेमजालै रुधिरौघसम्प्लवैः ॥ 019c
शरावनुन्नैः पतितैस्तुरङ्गैस्तनद्भिरार्तैः क्षतजं वमद्भिः । 020a
दीनैस्त्रसद्भिः परिवृत्तनेत्रैर्मही पतद्भिः कृपणा बभूव ॥ 020c
तथाऽपविद्धैर्गजवाजियूथैर्मन्दासुभिश्चापि गतासुभिश्च । 021a
रथैश्च नागैस्तुरगैश्च नुन्नैर्मही महावैतरणीव भाति ॥ 021c
गजैर्निकृत्तापरहस्तगात्रैरुद्वेपमानैः पतितैः पृथिव्याम् । 022a
रथर्षभैर्नागवराश्वयोधैः पदातिभिश्चाभिमुखैः परैर्हतैः ॥ 022c
विशीर्णवर्माभरणाम्बरायुधैर्युता प्रशान्तैरिव पावकैर्मही । 023a
शरप्रहाराभिहतैर्महाबलैरवेक्षमाणैः पतितैः समन्ततः ॥ 023c
प्रनष्टसञ्ज्ञैः पुनराश्वसद्भिर्मही बभौ कुम्भगतैरिवाग्निभिः । 024a
रत्नैश्च्युतैर्भूरतिदीप्तिमद्भिर्नक्तं ग्रहैर्द्यौर्विमलैर्विभाति ॥ 024c
शरास्तु कर्णार्जुनबाहुमुक्ता विदार्य नागांश्च मनुष्यदेहान् । 025a
प्राणान्निरस्याशु महीं प्रतीयुर्महोरगा वासमिवाभिनम्राः ॥ 025c
हतैर्मनुष्यैश्च गजैश्च सङ्ख्ये शरावभिन्नै रुधिरप्रदिग्धैः । 026a
धनञ्जयस्याधिरथेश्च मार्गे हतैरगम्या वसुधाऽतिदुर्गा ॥ 026c
रथैर्महेषून्मथितैः सुकल्पितैः सनागयोधाश्ववरायुधध्वजैः 027a
विशीर्णयोक्त्रैर्विनिकीर्णबन्धनैर्निकृत्तचक्राक्षयुगत्रिवेणुभिः ॥ 027c
विमुक्तयोक्त्रैश्च रथैरुपस्करैः कृताभिषङ्गैर्विनिबद्धकूबरैः । 028a
प्रभग्ननीडैर्मणिहेमभूषितैर्वृता मही द्यौरिव शारदैर्घनैः ॥ 028c
निकृष्यमाणा जवनैस्तुरङ्गमैर्हतेश्वरा राजरथाः सुकल्पिताः । 029a
मनुष्यमातङ्गरथाश्वसादिषु द्रुतं व्रजन्तो बहुधा विघूर्णिताः ॥ 029c
सहेमपृष्ठाः सपरश्वथायुधाः शिताश्च शूला मुसलाः समुद्गराः । 030a
चित्राश्च खड्गा विमलाश्च कोशा गजाश्च जाम्बूनदपट्टनद्धाः ॥ 030c
चापानि जाम्बूनदभूषितानि शराश्च कार्तस्वरचित्रपुङ्खाः । 031a
ऋष्ट्यश्च पीता विमलाश्च कोशाः प्रासाश्च दण्डाः कनकप्रभासाः ॥ 031c
शुभ्राणि वालव्यजनानि शङ्खाश्छिन्नावरुद्धा विरुचः स्रजश्च । 032a
कुथाः पताकाम्बरवेष्टनानि किरीटमाला मकुटाश्च शुभ्राः ॥ 032c
प्रकीर्णका विप्रतिकीर्णकाश्च प्रधानमुख्यास्तरलाश्च हाराः । 033a
आपीडकेयूरवराङ्गदानि ग्रैवेयनिष्काः ससुवर्णसूत्राः ॥ 033c
मण्युत्तमा वज्रसुवर्णयुक्ता रत्नानि चोच्चावचमङ्गलानि । 034a
गात्राणि चाभान्ति सुखोचितानि शिरांसि चेन्दुप्रतिमाननानि ॥ 034c
देहांश्च भोगांश्च परिच्छदांश्च त्यक्त्वा मनोज्ञा निहताः सुखानि । 035a
स्वधर्मनिष्ठां महतीमवाप्य प्राप्ताश्च लोकान्यशसा गतास्ते ॥ 035c
निवर्त दुर्योधन यान्तु सैनिका व्रजस्व राजञ्शिबिराणि मानद । 036a
दिवाकरोऽप्येष विलम्बते प्रभो पुनस्त्वमेवात्र नरेन्द्र कारणम् ॥ 036c
सञ्जय उवाच । 037
एतावदुक्त्वा विरराम शल्यो दुर्योधनं चैव निवर्तयित्वा । 037a
युद्धाय राजन्विनिविष्टबुद्धिर्हा कर्ण हा कर्ण इति ब्रुवाणम् ॥ 037c
तं द्रोणपुत्रप्रमुखा नरेन्द्राः सर्वे समाश्वास्य ततः प्रजग्मुः । 038a
निरीक्षमाणा ध्वजमर्जुनस्य रथं च दिव्यं यशसा ज्वलन्तम् ॥ 038c
नराश्वमातङ्गशरीरजेन रक्तेन सिक्तां रुधिरेण भूमिम् । 039a
रक्ताम्बरस्रक्तपनीययोगान्नारीं प्रकाशामिव सर्वरम्याम् ॥ 039c
प्रच्छन्नरूपां रुधिरेण राजन्रौद्रे मुहूर्तेऽतिविराजमाने । 040a
नैवावतस्थुः कुरवः समीक्ष्य प्रव्राजिता नरदेवा यथाऽक्षैः ॥ 040c
वधेन कर्णस्य सुदुःखितास्ते हा कर्ण हा कर्ण इति ब्रुवाणाः । 041a
द्रुतं प्रजग्मुः शिबिराणि राजन्दिवाकरं रक्तमवेक्षमाणाः ॥ 041c
गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैः शिलाशितैः शोणितदिग्धवाजैः । 042a
शरैश्चिताङ्गोऽपि रराज कर्णो हतोऽपि दीप्तांशुरिवांशुजालैः ॥ 042c
कर्णस्य देहं रुधिराम्बुसिक्तं पुत्रानकुम्पी भगवान्विवस्वान् । 043a
स्पृष्ट्वा कराग्रैः क्षतजानुरूपैः स्नातुं तदाऽगादपरं समुद्रम् ॥ 043c
इतीव सञ्चिन्त्य सुरर्षभाश्च सम्प्रस्थितास्ते तु यथानिकेतम् । 044a
सञ्चिन्त्य सर्वा जनता विसस्रुर्यथासुखं खे च महीतले च ॥ 044c
तदद्भुतं प्राणभृतां भयङ्करं निशाम्य युद्धं कुरुवीरमुख्ययोः । 045a
समाचितौ कर्णशरैः परन्तपौ तथैव संरेजतुरच्युतार्जुनौ ॥ 045c
तमो निहत्याभ्युदितौ यथाऽमलौ शशाङ्कसूर्याविव रश्मिमालिनौ । 046a
विहाय तान्बाणगणान्महाबलौ सुहृद्वृतावप्रतिमानविक्रमौ ॥ 046c
सुखप्रविष्टौ सुखदौ विरेजतुः सदस्यचिन्त्याविव विष्णुवासवौ । 047a
सदेवगन्धर्वमनुष्यचारणैर्महर्षिभिर्यक्षमहोरगैरपि । 047c
जयाभिवृद्ध्या परयाऽभिपूजितौ निहत्य कर्णं परमाहवे तदा ॥ 047e
यथानुरूपं प्रतिपूज्य तानथ प्रशस्यमानावतुलैश्च कर्मभिः । 048a
ननन्दतुश्चैव सुहृद्भिरावृतौ बलं निहत्येव सुरेशकेशवौ ॥ ॥ 048c

इति श्रीमन्महाभारते कर्णपर्वणि एकोनशततमोऽध्यायः ॥ 99 ॥

8-99-2 प्रहृष्टाः अर्जुनादयः । वित्रस्ताः भीरवः । विषण्णाः शत्रवः । विस्मिताः प्रेक्षकाः ॥ 8-99-* अत्र झ.पाठे 61 श्लोका अधिका दृश्यन्ते ॥