अध्यायः 098

पार्थाय धर्मानुवादकं कर्णम्म्प्रति कृष्णेन तत्कृतदुष्कृतानुस्मारणपूर्वकं मर्मोद्धाटनम् ॥ 1 ॥ कर्णेन स्वबाणाहतिनिर्विण्णेऽर्जुने तदन्तरे रथादवरुह्य तच्चक्रोद्धरणोद्यमः ॥ 2 ॥ तदन्तरे कृष्णचोदनया पार्थेन कर्णशिरश्छेदः ॥ 3 ॥

सञ्जय उवाच । 001
अथाब्रवीद्वासुदेवो महात्मा राधेय दिष्ट्या स्मरसीह धर्मम् । 001a
'धर्मे हि बद्धा सततं हि पार्थास्तेभ्यस्ततो वृद्धिमसौ ददाति ॥ 001c
धर्मादपेताः परिपन्थिनस्ते तस्माद्गता वै कुरवो विनाशम्' । 002a
प्रायेण नीचा व्यसनेषु मग्ना निन्दन्ति दैवं न तु दुष्कृतं स्वम् ॥ 002c
कृष्णां सभां कर्ण यदेकवस्त्रामानीतवांस्त्वं च सुयोधनश्च । 003a
दुःशासनः शकुनिः सौबलश्च धर्मस्तदा ते रुचितो न कस्मात् ॥ 003c
यदा सभायां राजानमनक्षज्ञं युधिष्ठिरम् । 004a
आनीय जितवन्तो वै क्व ते धर्मस्तदा गतः ॥ 004c
वनवासे व्यतीते च कर्ण वर्षे त्रयोदशे । 005a
न प्रयच्छसि यद्राज्यं क्व ते धर्मस्तदा गतः ॥ 005c
यद्भीमसेनं सर्पैश्च विषयुक्तैश्च भोजनैः । 006a
आचरत्त्वन्मते राजा क्व ते धर्मस्तदा गतः ॥ 006c
यद्वारणावते पार्थान्सुप्ताञ्जतुगृहे तदा । 007a
हन्तुकामास्तदा यूयं क्व ते धर्मस्तदा गतः ॥ 007c
यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम् । 008a
सभायां प्राहसः कर्ण क्व ते धर्मस्तदा गतः ॥ 008c
यदनार्यैः पुरा कृष्णां क्लिश्यमानामनागसम् । 009a
उपप्रेक्षसि राधेय क्व ते धर्मस्तदा गतः ॥ 009c
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः । 010a
पतिमन्यं वृणीष्वेति वदंस्त्वं गजगामिनीम् । 010c
उपप्रेक्षसि राधेय क्व ते धर्मस्तदा गतः ॥ 010e
राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवान् । 011a
यदा शकुनिमाश्रित्य क्व ते धर्मस्तदा गतः ॥ 011c
यदाऽभिमन्युं बहवो युद्धे जघ्नुर्महारथाः । 012a
परिवार्य रणे बालं क्व ते धर्मस्तदा गतः ॥ 012c
[यद्येष धर्मस्तत्र न विद्यते हि किं सर्वथा तालुविशोषणेन । 013a
अद्येह धर्म्याणि विधत्स्व सूत तथापि जीवन्न विमोक्ष्यसे हि ॥ 013c
नलो ह्यक्षैर्निर्जितः पुष्करेण पुनर्यशो राज्यमवाप वीर्यात् । 014a
प्राप्तास्तथा पाण्डवा बाहुवीर्यात्सर्वैः समेताः परिवृत्तलोभाः ॥ 014c
निहत्य शत्रून्समरे प्रवृद्धान्ससोमका राज्यमवाप्नुयुस्ते । 015a
तथा गता धार्तराष्ट्रा विनाशं धर्माभिगुप्तैः सततं नृसिंहैः] ॥ 015c
सञ्जय उवाच । 016
एवमुक्तस्तदा कर्णो वासुदेवेन भारत । 016a
लज्जयावनतो भूत्वा नोत्तरं किञ्चिदुक्तवान् ॥ 016c
क्रोधात्प्रस्फुरमाणौष्ठो धनुरुद्यम्य भारत । 017a
योधयामास वै पार्थं महावेगपराक्रमः ॥ 017c
ततोऽब्रवीद्वासुदेवः फल्गुनं पुरुषर्षभम् । 018a
दिव्यास्त्रेणैव निर्भिद्य पातयस्व महाबल ॥ 018c
एवमुक्तस्तु देवेन क्रोधमागात्तदाऽर्जुनः । 019a
मन्युमभ्याविशद्धोरं स्मृत्वा तत्तु धनञ्जयः ॥ 019c
तस्य क्रुद्धस्य सर्वेभ्यः स्रोतोभ्यस्तेजसोऽर्चिषः । 020a
प्रादुरासंस्तदा राजंस्तदद्भुतमिवाभवत् ॥ 020c
तत्समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनञ्जयम् । 021a
अभ्यवर्षत्पुनर्यत्नमकरोद्रथसर्जने ॥ 021c
ब्रह्मास्त्रेणैव तं पार्थो ववर्ष शरवृष्टिभिः । 022a
तदस्त्रमस्त्रेणावार्य प्रजहार च पाण्डवः ॥ 022c
ततोऽन्यदस्त्रं कौन्तेयो दयितं जातवेदसः । 023a
मुमोच कर्णमुद्दिश्य तत्प्रजज्वाल तेजसा ॥ 023c
वारुणेन ततः कर्णः शमयामास पावकम् । 024a
जीमूतैश्च दिशः सर्वाश्चक्रे तिमिरदुर्दिनाः ॥ 024c
पाण्डवेयस्त्वसम्भ्रान्तो वायव्यास्त्रेण वीर्यवान् । 025a
अपोवाह तदाऽभ्राणि राधेयस्य प्रपश्यतः ॥ 025c
[ततः शरं महाघोरं ज्वलन्तमिव पावकम् । 026a
आददे पाण्डुपुत्रस्य सूतपुत्रो जिघांसया ॥ 026c
योज्यमाने ततस्तस्मिन्बाणे धनुषि पूजिते । 027a
चचाल पृथिवी राजन्सशैलवनकानना ॥ 027c
ववौ सशर्करो वायुर्दिशश्च रजसा वृताः । 028a
हाहाकारश्च सञ्जज्ञे सुराणां दिवि भारत ॥ 028c
तमिषुं सन्धितं दृष्ट्वा सूतपुत्रेण मारिष । 029a
विषादं परमं जग्मुः पाण्डवा दीनचेतसः ॥ 029c
स सायकः कर्णभुजप्रमुक्तः शक्राशनिप्रख्यरुचिः शिताग्रः । 030a
मुलान्तरं प्राप्य धनञ्जयस्यविवेश वल्मीकमिवोरमोत्तमः ॥ 030c
स गाढविद्धः समरे महात्मा विघूर्णमानः श्लथहस्तगाण्डिवः । 031a
चचाल वीभत्सुरमित्रमर्दनः क्षितेः प्रकम्पे च यथाऽचलोत्तमः ॥ 031c
तदन्तरं प्राप्य वृषो महारथो रथाङ्गमुर्वीगतमुज्जिहीर्षुः । 032a
रथादवप्लुत्य निगृह्य दोर्भ्यां शशाक दैवान्न महाबलोऽपि ॥ 032c
ततः किरीटी प्रतिलभ्य सञ्ज्ञां जग्राह बाणं यमदण्डकल्पम् । 033a
ततोऽर्जुनः प्राञ्जलिकं महात्मा ततोऽब्रवीद्वासुदेवोऽपि पार्थम् ॥ 033c
छिन्ध्यस्य मूर्धानमरेः शरेण न यावदारोहति वै रथं वृषः । 034a
तथैव सम्पूज्य स तद्वचः प्रभोस्ततः शरं प्रज्वलितं प्रगृह्य । 034c
जघान कक्षाममलार्कवर्णां महारथे रथचक्रे विमग्ने ॥ 034e
तं हस्तिकक्षाप्रवरं सुकेतुं सुवर्णमुक्तामणिवज्रजुष्टम् । 035a
कलाप्रकृष्टोत्तमशिल्पियत्नैः कृतं सुरूपं तपनीयचित्रम् ॥ 035c
जयास्पदं तव सैन्यस्य नित्यममित्रवित्रासनमीड्यरूपम् । 036a
विख्यातमादित्यसुतस्य लोके त्विषा समं पावकभानुचन्द्रैः ॥ 036c
ततः क्षुरप्रेण सुसंशितेन सुवर्णपुङ्खेन हुताग्निवर्चसा । 037a
श्रिया ज्वलन्तं ध्वजमुन्ममाथमहारथस्याधिरथेः किरीटी ॥ 037c
यशश्च दर्पश्च तथा प्रियाणि सर्वाणि कार्याणि च तेन केतुना । 038a
साकं कुरूणां हृदयानि चापतन्बभूव हाहेति च निःस्वनो महान् ॥ 038c
दृष्ट्वा ध्वजं पातितमाशुकारिणा कुरुप्रवीरेण निकृत्तमाहवे । 039a
नाशंसिरे सूतपुत्रस्य सर्वे जयं तदा भारत ये त्वदीयाः ॥ 039c
अथ त्वरन्कर्णवधाय पार्थो महेद्रवज्रानलदण्डसन्निभम् । 040a
आदत्त चाथाञ्जलिकं निषङ्गात्सहस्ररश्मेरिव रश्मिमुत्तमम् ॥ 040c
मर्मच्छिदं शोणितमांसदिग्धं वैश्वानरार्कप्रतिमं महार्हम् । 041a
नराश्वनागासुहरं त्र्यरत्निं षड्वाजमञ्जोगतिमुग्रवेगम् ॥ 041c
सहस्रनेत्राशनितुल्यवीर्यं कालानलं व्यात्तमिवातिघोरम् । 042a
पिनाकनारायणचक्रसन्निभं भयङ्करं प्राणभृतां विनाशनम् ॥ 042c
जग्राह पार्थः स शरं प्रहृष्टो यो देवसङ्घैरपि दुर्निवार्यः । 043a
सम्पूजितो यः सततं महात्मा देवासुरान्यो विजयेन्महेषुः ॥ 043c
तं वै प्रमृष्टं प्रसमीक्ष्य युद्धे चचाल सर्वं सचराचरं जगत् । 044a
कृत्स्नं जगत्स्वस्त्यृषयोऽभिचक्रुस्तमुद्यतं प्रेक्ष्य महाहवेषुम् ॥ 044c
ततस्तु तं वै शरमप्रमेयं गाण्डीवधन्वा धनुषि व्ययोजयत् । 045a
युक्त्वा महास्त्रेण परेण चापं विकृष्य गाण्डीवमुवाच सत्वरम् ॥ 045c
अयं महास्त्रप्रहितो महाशरः शरीरहृच्चासुहरश्च दुर्हृदः । 046a
तपोऽस्ति तप्तं गुरवश्च तोषिता मया यदीष्टं सुहुतं यदि श्रुतम् ॥ 046c
अनेन सत्येन निहन्त्वयं शरः सुसंहितः कर्णमरिं ममोर्जितम् । 047a
इत्यूचिवांस्तं प्रमुमोच बाणं धनञ्जयः कर्णवधाय घोरम् ॥ 047c
कृत्या ह्यथर्वाङ्गिरसी प्रचोदिता यथा तथा त्वं जहि शात्रवं मम । 048a
ब्रुवन्किरीटी तमतिप्रहृष्टोऽसृजद्देवानां जयहेतुं महेषुम् ॥ 048c
जिघांसुरर्केन्दुसमप्रभावः कर्णं वशी पाण्डवः क्षिप्रकारी । 049a
ततो विमुक्तो बलिना महेषुः प्रज्वालयामास नभो दिशश्च ॥ 049c
सैन्यान्यनेकानि च विप्रमोह्य गाण्डीवमुक्तेन ततो महात्मा । 050a
तेनार्जुनस्तन्महनीयमस्य शिरोऽहरत्सूतपुत्रस्य राजन् ॥ 050c
शरोत्तमेनाञ्जलिकेन राजंस्तदा महास्त्रप्रतिमन्त्रितेन । 051a
पार्थोऽपराह्णे शिर उच्चकर्त वैकर्तनस्याथ महेन्द्रसूनुः । 051c
छिन्नं पपाताञ्जलिकेन तूर्णं कायश्च पश्चाद्धरणीं जगाम ॥ 051e
तदुद्यतादित्यसमानतेजसं शरन्नभोमध्यगभास्करोपमम् । 052a
वराङ्गमुर्व्यामपतच्चमुमूखे दिवाकरोऽस्तादिव रक्तमण्डलः ॥ 052c
ततोऽस्य देहं सततं सुखैधितं सुरूपमत्यर्थसुखं सुगन्धि च । 053a
परेण कृच्छ्रेण शिरः समत्यजद्गृहं महर्धीन्निवसन्निवेश्वरः ॥ 053c
शरैर्विभिन्नं व्यसु तत्सुवर्चसः पपात कर्णस्य शरीमुच्छ्रितम् । 054a
स्रवद्व्रणं गैरिकतोयविस्रवं गिरेर्यथा वज्रहतं महाशिरः ॥ 054c
देहाच्च कर्णस्य निपातितस्य तेजः सूर्यं खं वितत्याविवेश । 055a
तदद्भुतं सर्वमनुष्ययोधाः सन्दृष्टवन्तो निहते स्म कर्णे ॥ 055c
ततः शङ्खान्पाण्डवा दध्मुरुच्चैर्दृष्ट्वा कर्णं पातितं फल्गुनेन । 056a
तथैव कृष्णश्च धनञ्जयश्चहृष्टौ यमौ दध्मतुर्वारिजातौ ॥ 056c
तं सोमकाः प्रेक्ष्य हतं शयानं सैन्यैः सार्धं सिंहनादान्प्रचक्रुः । 057a
तूर्याणि सञ्जघ्नुरतीव हृष्टा वासांसि चैवादुधुवुर्भुजांश्च ॥ 057c
संवर्धयन्तश्च नरेन्द्र योधाः पार्थं समाजग्मुरतीव हृष्टाः । 058a
बलान्विताश्चापरे ह्यप्यनृत्यन्नन्योन्यमाश्लिष्य नदन्त ऊचुः ॥ 058c
दृष्ट्वा तु कर्णं भुवि वा विपन्नं कृत्तं रथात्सायकैरर्जुनस्य । 059a
महानिलेनाद्रिमिवापविद्धं यज्ञावसानेऽग्निमिव प्रशान्तम् ॥ 059c
तदाननं सूर्यसुतस्य राजन्विभ्राजते पद्ममिवावनालम् । 060a
रराज कर्णस्य शिरो निकृत्तमस्तङ्गतं भास्करस्येव बिम्बम् ॥ 060c
शरैराचितसर्वाङ्गः शोणितौघपरिप्लुतः । 061a
रराज देहः कर्णस्य स्वरश्मिभिरिवांशुमान् ॥ 061c
प्रताप्य सेनामामित्रीं दीप्तैः शरगभस्तिभिः । 062a
बलिनार्जुनकालेन नीतोऽस्तं कर्णभास्करः ॥ 062c
अस्तं गच्छन्यथाऽदित्यः प्रभामादाय गच्छति । 063a
तथा जीवितमाहाय कर्णस्येषुर्जगाम सः ॥ 063c
अपराह्णेऽपराह्णस्य सूतपुत्रस्य मारिष । 064a
छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः ॥ 064c
उपर्युपरि सैन्यानां विनिघ्नन्नितराञ्जनान् । 065a
शिरः कर्णस्य सोऽत्सेधमिषुः सोप्यहरद्द्रुतम् ॥ 065c
कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम् । 066a
दृष्ट्वा शयानं भुवि मद्रराजश्छिन्नध्वजेनाथ ययौ रथेन ॥ 066c
हते कर्णे कुरवः प्राद्रवन्त भयार्दिता गाढविद्धाश्च सङ्ख्ये । 067a
अवेक्षमाणा मुहुरर्जुनस्य ध्वजं महान्तं वपुषा ज्वलन्तम् ॥ 067c
तच्छिरो भरतश्रेष्ठ शोभयामास मेदिनीम् । 068a
यदृच्छयेव पतितं मण्डलं चाण्डदीधितेः ॥ 068c
तं दृष्ट्वा समरविमर्द(बद्ध)लब्धनिद्रं दष्टोष्ठं रुधिरपरीतकातराक्षम् । 069a
राधेयं रथवरपृष्ठसन्निषण्णं हीनांशुर्दिवसकरो मुहूर्तमासीत् ॥ 069c
निःशब्दतूर्यं हतयोधमुख्यं प्रशान्तदर्पं धृतराष्ट्रसैन्यम् । 070a
न शोभते सूर्यसुतेन हीनं वृन्दं ग्रहाणामिव चन्द्रहीनम् ॥ 070c
सहस्रनेत्रप्रतिमानकर्मणः सहस्रपत्रप्रतिमाननं शुभम् । 071a
सहस्ररश्मिर्दिवसक्षये यथा तथाऽपतत्कर्णशिरो वसुन्धराम् ॥ 071c
व्यूढोरस्कं कमलवदनं तप्तहेमावभासं कर्णं दृष्ट्वा भुवि निपतितं पार्थबाणाभितप्तम् । 072a
पांसुग्रस्तं मलिनमसकृत्पुत्रमन्वीक्षमाणो मन्दम्मन्दं व्रजति सविता मन्दिरं मन्दरश्मिः ॥ ॥ 072c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टनवतितमोऽध्यायः ॥ 98 ॥

8-98-64 अपराह्णे दिवसस्य पश्चिमे भागे । अपरं चरमम् अहः मरणदिनं यस्य ॥