अध्यायः 096
कर्णे युधि वर्धमाने कृष्णेनार्जुनप्रोत्साहनम् ॥ 1 ॥ ततोऽर्जुनेन स्वसामर्थ्यप्रकाशनम् ॥ 2 ॥
सञ्जय उवाच । 001
अथाब्रवीच्चक्रधरोऽपि पार्थं दृष्ट्वा रथेषून्प्रतिहन्यमानान् । 001a
अमूमुषत्पश्यत एव तेऽद्य ह्यस्त्राणि कर्णोऽस्त्रगणैः किरीटिन् ॥ 001c
स पार्थ किं मुह्यसि वेत्सि चैव तान्दृष्ट्वा समेतान्नदतः कुरूंस्त्वम् । 002a
कर्णं पुरस्कृत्य विदुर्हि सर्वे तवास्त्रमस्त्रैर्विनिहन्यमानम् ॥ 002c
यया धृत्या तामसं जघ्निवांस्त्वं तत्संयुगे तामसांश्चातिघोरान् । 003a
दम्भोद्भवं चासुरमाहवे त्वं दर्पोत्सिक्तं वीर्यवन्तं किरीटिन् । 003c
तया धृत्या त्वं जहि कर्णमद्य पार्थाहवे त्यक्तुमस्त्रं समर्थः ॥ 003e
अनेन चाशु क्षुरनेमिनाद्यमया विसृष्टेन सुदर्शनेन । 004a
छिन्ध्यस्य मूर्धानमरेः प्रसह्य वज्रेण शक्रो नमुचेरिवारेः ॥ 004c
किरातरूपी भगवान्यया च त्वया महात्मा परितोषितोऽभूत् । 005a
स तां पुनर्वीर धृतिं गृहीत्वा सहानुबन्धं जहि सूतपुत्रम् ॥ 005c
ततो महीं सागरमेखलां त्वं सपत्तनां ग्रामवतीं समृद्धाम् । 006a
प्रयच्छ राज्ञे निहतारिसङ्घां यशश्च पार्थातुलमाप्नुहि त्वम् ॥ 006c
कर्णं पुरस्कृत्य नदन्तिं सर्वे तवास्त्रमग्र्यं प्रतिहत्य वीराः । 007a
कुरु प्रयत्नं भरतप्रवीर द्रवन्त्यमी सृञ्जयाः सोमकाश्च । 007c
दृष्ट्वाथ कर्णं समरे प्रहृष्टं त्वां चापि दृष्ट्वा परिहीयमानम् ॥ 007e
सञ्जय उवाच । 008
सञ्चोदितो भीमजनार्दनाभ्यां स्मृत्वा तदात्मानमवेत्य सर्वम् । 008a
इहात्मनश्चागमने विदित्वा प्रयोजनं केशवमित्युवाच ॥ 008c
प्रादुष्करोम्येष महास्त्रमुग्रं शिवाय लोकस्य वधाय सौतेः । 009a
तन्मेऽनुजानातु भवान्सुराश्च ब्रह्मा शिवो ब्रह्मविदश्च सर्वे ॥ 009c
इति स्मोक्त्वा पाण्डवः सव्यसाची नमस्कृत्वा ब्रह्मणे सोऽमितात्मा । 010a
अनुत्तमं ब्राह्ममसह्यमस्त्रं प्रादुश्चक्रे मनसा यद्विधेयम् ॥ 010c
ततो दिशश्च प्रदिशश्च सर्वाः समावृणोत्सायकैर्भूरितेजाः । 011a
गाण्डीवमुक्तैर्भुजगैरिवोग्रैर्दिवाकरांशुप्रतिमैर्ज्वलद्भिः ॥ 011c
सृष्टास्तु बाणा भरतर्षभेण शतं शतं भीममुखाः सुतीक्ष्णाः । 012a
प्राच्छादयन्कर्णरथं क्षणेन युगान्तकालार्ककरप्रकाशाः ॥ 012c
वैकर्तनेनाशु तदाजिमध्ये सहस्रशो बाणगणा विसृष्टाः । 013a
ते चाक्षयाः पाण्डवमभ्युपेयुः पर्जन्यसृष्टा इव वारिधाराः ॥ 013c
ततः स कृष्णं च किरीटिनं च वृकोदरं चाप्रतिमप्रभावः । 014a
त्रिभिस्त्रिभिर्भीमबलो निहत्य ननाद घोरं महता स्वनेन ॥ 014c
ततः स बाणाभिहतः किरीटी भीमं तथा प्रेक्ष्य जनार्दनं च । 015a
अमृष्यमाणः पुनरेव पार्थः शरान्दशाष्टौ सममुद्ववर्ष ॥ 015c
स केतुमेकेन शरेण विद्ध्वा शल्यं चतुर्भिस्त्रिभिरेव कर्णम् । 016a
ततः सुमुक्तैर्दशभिर्जघान सेनापतिं काञ्चनवर्मनद्धम् ॥ 016c
स राजपुत्रो विशिरा विबाहुर्विवाजिसूतो विधनुर्विकेतुः । 017a
अथो रथाग्रादपतत्प्ररुग्णः परश्वथैः साल इवावकृत्तः ॥ 017c
पुनश्च कर्णं त्रिभिरष्टभिश्च द्वाभ्यां चतुर्भिर्दशभिश्च विद्धा । 018a
चतुश्शतं द्विरदानां निपात्य रथाञ्जघानाष्टरथान्किरीटि । 018c
सहस्रमश्वांश्च पुनश्च सादीनष्टौ सहस्राणि च पत्तिवीरान् ॥ 018e
दृष्ट्वा तु मुख्यावतिविध्यमानौ वरेषुभिः शूरवरावरिघ्नौ । 019a
कर्णं च पार्थं च नियम्य वाहान्सर्वे वरिष्ठाश्च ततोऽवतस्थुः ॥ 019c
प्रच्छादयामास ततः पृषत्कैः सघोषमाच्छिद्य च गाण्डिवज्याम् । 020a
अस्मिन्क्षणे फल्गुनं सूतपुत्रः समाचिनोत्क्षुद्रकाणां शतेन ॥ 020c
निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णैस्तैलप्रधौतैः खगपत्रवाजैः । 021a
षष्ट्या बिभेदाशु च वासुदेवं तदन्तरे प्रात्वरन्सोमकाश्च ॥ 021c
ततो नवज्यां सुदृढां किरीटि स्वबाहुविक्षेपसहां प्रगृह्य । 022a
समादधे गाण्डिवे क्षिप्रकारी निमेषमात्रेण महाधनुष्मान् ॥ 022c
ज्याछेदनं ज्याविधानं च तस्य नैवावबुध्यत्सूतपुत्रो लघुत्वात् । 023a
पार्थस्य सङ्ख्ये द्विषतां निहन्तुस्तदद्भुतं तत्र बभूव राजन् ॥ 023c
पार्थोऽपि तां ज्यामवधाय तूर्णं शरासनज्यामाधिरथेर्विहत्य । 024a
सुसंरब्धः कर्णशरैः क्षताङ्गो रणे योधांस्तावकान्प्रत्यगृह्णात् ॥ 024c
नैवापतत्पक्षिगणोऽन्तरिक्षे पार्थेन चास्त्रेण कृतेऽन्धकारे ॥ 025ac
शल्यं तु पार्थो दशभिर्निमेषाद्भृशं तनुत्रे प्रहसन्नविध्यत् । 026a
ततः कर्णं द्वादशभिः पृषत्कैर्विद्ध्वा पुनः सप्तभिरप्यविध्यत् ॥ 026c
स पार्थबाणासनवेगनुन्नैर्दृढाहतः पत्रिभिरुग्रवेगैः । 027a
विभिन्नगात्रः क्षतजोक्षिताङ्गः कर्णो बभौ रुद्र इवान्तकाले ॥ 027c
ततस्त्रिभिस्तं त्रिदशाधिपोपमं शरैर्बिभेदाधिरथिर्धनञ्जयम् । 028a
शरांश्च पञ्च ज्वलनानिवोरगान्प्रवेशयामास जिघांसुरच्युते ॥ 028c
सुवर्णचित्रं पुरुषोत्तमस्य वर्माथ भित्त्वाभ्यपतन्सुपुङ्खाः । 029a
वेगेन गां ते विविशुश्च राजन्स्नात्वा कर्णाऽभिमुखाः प्रतीयुः ॥ 029c
तान्पञ्चभल्लैर्दशभिः सुमुक्तैस्त्रिधात्रिधैकैकमथोच्चकर्त । 030a
धनञ्जयस्ते न्यपतन्पृथिव्यां यथाऽहयस्तार्क्ष्यमुखेन कृत्ताः ॥ 030c
ततः प्रजज्वाल किरीटमाली क्रोधेन कक्षं प्रदहन्निवाग्निः । 031a
स कर्णमाकर्णविकृष्टसृष्टैः शरैः शरीरान्तकरैर्ज्वलद्भिः । 031c
मर्मस्वविध्यत्स चचाल दुःखाद्धैर्यात्तु तस्थावतिमात्रधैर्यः ॥ 031e
प्रादुश्चकाराथ शरान्महात्मा देहं विचिन्वन्निव सूतजस्य । 032a
शरास्तु ते काञ्चनचित्रपुङ्खाः सम्पेतुरुर्व्यां शतशो महान्तः ॥ 032c
ततः शरौघैः प्रदिशो दिशश्च रविप्रभाः कर्णरथश्च राजन् । 033a
अदृश्य आसीत्कुपिते धनञ्जये तुषारनीहारवृतो गिरिर्यथा ॥ 033c
सचक्ररक्षा अपि पृष्ठगोपाः कर्णस्य ये चापि पुरःसराश्च । 034a
भीता द्रवन्ति स्म निहन्यमाना महेषुभिः पार्थकरप्रणुन्नैः ॥ 034c
ततोऽर्जुनो वै भरतप्रवीरो महानुभावः समरे निहन्ता । 035a
सुयोधनेनानुमतान्विनिघ्नन्समुच्छ्रितान्सरथान्सारभूतान् ॥ 035c
गाण्डीवधन्वा द्विगुणं सहस्रं कुरुप्रवीरानृषभः कुरूणाम् । 036a
क्षणेन सर्वान्सरथान्ससूतान्निनाय राजन्क्षयमेकवीरः ॥ 036c
अथो पलायन्त विहाय कर्णं तवात्मजा ये कुरवश्च शिष्टाः । 037a
एतानवाकीर्य शरक्षतांश्च विलप्यमानांस्तनयान्विमृद्नन् ॥ 037c
सर्वे प्रणेशुः कुरवो विभग्नाः पार्थेषुभिः सम्परितप्यमानाः । 038a
सुयोधनेनाथ पुनर्वरिष्ठाः प्रचोदिताः कर्णरथानुयाने ॥ 038c
भोः क्षत्रियाः शूरतमास्तु सर्वे क्षत्रे च धर्मे निरताः स्थ यूयम् । 039a
न युक्तरूपं भवतां समीपात्पलायनं कर्णमतिप्रहाय ॥ 039c
तवात्मजेनापि तथोच्यमाना नैवावतिष्ठन्त भयाद्विवर्णाः । 040a
क्षणेन नष्टाः प्रदिशो दिशश्च सर्वे ततः प्रेक्ष्य दिशो विशून्याः ॥ 040c
भयावदीर्णः कुरुभिर्विहीनः पार्थेषुभिः सम्परितप्यमानः । 041a
न विव्यधे भारत तत्र कर्णः प्रतीपमेवार्जुनमभ्यधावत् ॥ ॥ 041c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षण्णवतितमोऽध्यायः ॥ 96 ॥