अध्यायः 095

रणे कर्णस्यार्जुनसाम्यमसहमानेन भीमेन सकोपं पार्थप्रोत्साहनम् ॥ 1 ॥

सञ्जय उवाच । 001
तौ शङ्खभेरीनिनदे समृद्धे समीयतुः श्वेतहयौ नराग्र्यौ । 001a
वैकर्तनः सूतपुत्रोऽर्जुनश्च दुर्मन्त्रिते ते ससुतस्य राजन् ॥ 001c
'आशीविषावग्निमिवोत्सृजन्तौ तथा मुखाभ्यामभिनिः श्वसन्तौ । 002a
यशस्विनौ जज्वलतुर्मृधे तदा घृतावसिक्ताविव हव्यवाहौ' ॥ 002c
यथा गजौ हैमवतौ प्रभिन्नौ प्रवृद्धदन्ताविव वासितार्थे । 003a
तथा समाजग्मतुरुग्रवीर्यौ धनञ्जयश्चाधिरथिश्च वीरौ ॥ 003c
बलाहकेनेव महाबलाहको यदृच्छया वा गिरिणा यथा गिरिः । 004a
तथा धनुर्ज्यातलनेमिनिःस्वनौ समीयतुस्ताविषुवर्षवर्षिणौ ॥ 004c
शरास्त्रशक्त्यृष्टिगदासिसर्पौ रोषानिलोद्धूतमहोर्मिमालौ । 005a
यथाऽचलौ द्वौ चलतस्तथा तौ यथाऽर्णवौ चाशु चतुर्युगान्ते' ॥ 005c
प्रवृद्धशृङ्गद्रुमवीरुदोषधी प्रवृद्धनानाविधनिर्झरौघौ । 006a
यथाऽचलौ वा चलितौ महाजलैस्तथा महास्त्रैरितरेतरं हतः ॥ 006c
स सन्निपातो रथयोर्महानभूत्सुरेशवैरोचनयोर्यथा पुरा । 007a
शरैर्विनुन्नाश्वनियन्तृदेहयोः सुदुःसहास्त्रैः परिभिन्नदेहयोः ॥ 007c
प्रभूतपद्मोत्पलमत्स्यकच्छपौ महाह्रदौ पक्षिगणानुनादितौ । 008a
सुसन्निकृष्टावनिलोद्धतौ यथा तथा रथौ तौ ध्वजिनौ समीयतुः ॥ 008c
उभौ महेन्द्रस्य समानविक्रमावुभौ महेन्द्रप्रतिमौ महारथौ । 009a
महेन्द्रवज्रप्रतिमैश्च सायकैर्महेन्द्रवृत्राविव सम्प्रजघ्नतुः ॥ 009c
सनागपत्त्यश्वरथे उभे बले विचित्रवर्माभरणाम्बरायुधे । 010a
चकम्पतुश्चोन्नदतुश्च विस्मयाद्धरा वियच्चार्जुनकर्णसङ्गमे ॥ 010c
भुजाः सवस्त्राङ्गुलयः समुच्छ्रिताः ससिंहनादैर्हृषितैर्दिदृक्षुभिः । 011a
यदाऽर्जुनं मत्त इव द्विपो द्विपं समभ्ययादाधिरथिर्जिघांसया ॥ 011c
उदक्रोशन्सोमकास्तत्र पार्थं त्वरस्व याह्यर्जुन भिन्धि कर्णम् । 012a
छिन्ध्यस्य मूर्धानमलं चिरेण श्रद्धां च राज्याद्धृतराष्ट्रसूनोः ॥ 012c
तथाऽस्माकं बहवस्तत्र योधाः कर्णं तथा याहि याहीत्यवोचन् । 013a
जह्यर्जुनं कर्ण ततः सुदीनाः पुनर्वनं यान्त्वचिराय पार्थाः ॥ 013c
कर्णोऽथ पूर्वं दशभिः पृषत्कैर्गाण्डीवधन्वानमविध्यदाशु । 014a
जघान तं चापि ततः किरीटी शरैस्तदाष्टादशभिः सुमुक्तैः ॥ 014c
पुनश्च कर्णस्त्वरितोऽपि पार्थं रथेषुभिस्तं दशभिर्जघान । 015a
तं चापि पार्थो दशभिः शिताग्रैः कक्ष्यान्तरे तीक्ष्णमुखैरविध्यत् ॥ 015c
कर्णस्ततो भारत साम्पराये घोरेऽतिवेलं रणसंविमर्दी । 016a
जघान पार्थं नवभिः शिताग्रैः कक्ष्यान्तरे नागमिव प्रभिन्नम् ॥ 016c
ततोऽपराभ्यां युधि सूतपुत्रो द्वाभ्यां क्षुराभ्यां हरिमाशुकारी । 017a
समाजघान त्वरया महात्मा यथा सुरेन्द्रं नमुचिः प्रसह्य ॥ 017c
तं पाण्डवः पञ्चभिरायसाग्रैराकर्णपूर्णैर्निजघान कर्णम् । 018a
ते शोणितं तस्य पपुस्तदानीङ्कालस्य दूता इव पार्थबाणाः ॥ 018c
कर्णोऽपि पार्थं सह वासुदेवं समाचिनोद्भारत वत्सदन्तैः । 019a
परस्परं तौ विशिखैः प्रमुक्तैस्ततक्षतुः सूतपुत्रोऽर्जुनश्च ॥ 019c
परस्परं छिद्रदिदृक्षया च सुभीममभ्याययतुः प्ररुष्टौ ॥ 020ac
ततोऽस्त्रमाग्नेयममित्रतापनं मुमोच कर्णाय सुरेश्वरात्मजः । 021a
धनञ्जयात्संयुगमूर्ध्नि निःसृतं तदा प्रजज्वाल तदस्त्रमुत्तमम् ॥ 021c
समीक्ष्य कर्णो ज्वलनास्त्रमुद्यतं स वारुणं तत्प्रशमार्थमाहवे । 022a
समुत्सृजत्सूतपुत्रः प्रतापवान्स तेन वह्निं शमयाञ्चकार ॥ 022c
वलाहकास्त्रेण दिशस्तरस्वी चकार सर्वास्तिमिरेण संवृताः । 023a
अपावहन्मेघगणांस्ततस्तान्समीरणास्त्रेण समीरितेन ॥ 023c
ततः सोऽस्त्रं दयितं देवराज्ञः प्रादुश्चक्रे वज्रममित्रतापनः । 024a
गाण्डीवज्यां विमृशंश्चातिमन्युर्धनञ्जयः शत्रुसङ्घप्रमाथी ॥ 024c
नाराचनालीकवराहकर्णा गाण्डीवतः प्रादुरासन्सुतीक्ष्णाः । 025a
सहस्रशो वज्रसमानवेगास्ते सर्वतः पर्यधावन्त घोराः ॥ 025c
पार्थेषवः कर्णरथं विलग्ना अधोमुखाः पक्षिगणा दिनान्ते । 026a
निशानिकेतार्थमिवाशु वृक्षं जग्राह तान्सूतपुत्रः पृषत्कैः ॥ 026c
क्षिप्तांस्तथा पाण्डवबाणसङ्घानमृष्यमाणस्य धनञ्जयस्य । 027a
रणाजिरे त्वन्तकतुल्यकर्मा वैकर्तनो रोषपरीतचेताः ॥ 027c
ज्योतिष्प्रभां यद्वदुपागतः सन्दिवाकरो नाशयते क्षणेन । 028a
पार्थस्य तान्बाणगणान्समग्रान्व्यनाशयद्युध्यत एव कर्णः ॥ 028c
रोषात्प्रदीप्तः सुमहाविमर्दे भीमस्ततोऽक्रुध्यददीनसत्वः । 029a
पाणिं स्वपाणौ स विनिष्पिष्य रोषादमर्षितो वाक्यमुवाच पार्थम् ॥ 029c
त्वां सूतपुत्रो नु कथं किरीटिन्रथेषुभिर्हन्ति शिताग्रधारैः । 030a
धृत्या हि भूतानि ययाऽजयस्त्वं ग्रासं ददत्खाण्डवे पावकाय ॥ 030c
धृत्या तया सूतपुत्रं जहि त्वमहं वैनं गदया पोथयिष्ये । 031a
समेत्य पार्थं सुनृशंसवादी जीवन्नायं यास्यति कालपक्वः ॥ ॥ 031c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चनवतितमोऽध्यायः ॥ 95 ॥

8-95-6 हतः जघ्नतुरित्यर्थः ॥ 8-95-7 सुदुःसहान्यैः परिशोणितोदकैः इति क.ट.पाठः ॥ 8-95-31 मा जीवनं यास्यति सूतपुत्र इति क.पाठः ॥