अध्यायः 094

कर्णार्जुनयोर्युद्धारम्भः ॥ 1 ॥ द्रौणिना दुर्योधनाय हिताख्यानम् ॥ 2 ॥ तेन तदनादृत्य रणाय सेनानियोजनम् ॥ 3 ॥

सञ्जय उवाच । 001
तद्देवनागासुरसिद्धयक्षैर्गन्धर्वरक्षोप्सरसां च सङ्घैः । 001a
ब्रह्मर्षिराजर्षिसुपर्णजुष्टं बभौ वियद्विस्मयनीयरूपम् ॥ 001c
नानद्यमानं निनदैर्मनोज्ञैर्वादित्रगीतस्तुतिनृत्यहासैः । 002a
सर्वेऽन्तरिक्षं ददृशुर्मनुष्याः खस्थाश्च तद्विस्मयनीयरूपम् ॥ 002c
ततः प्रहृष्टाः कुरुपाण्डुयोधा वादित्रशङ्खस्वनसिंहनादैः । 003a
विनादयन्तो वसुधां दिशश्च स्वनेन सर्वान्द्विषतो निजघ्नुः ॥ 003c
नराश्वमातङ्गरथैः समाकुलं शरासिशक्त्यृष्टिनिपातदुःसहम् । 004a
अभीरुजुष्टं हतदेहसङ्कुलं रणाजिरं लोहितमाबभौ तदा ॥ 004c
[बभूव युद्धं कुरुपाण्डवानां यथा सुराणामसुरैः सहाभवत् ।] 005a
तथा प्रवृते तुमुले सुदारुणे धनञ्जयश्चाधिरथिश्च सायकैः । 005c
दिशश्च सैन्यं च शितैरजिह्मगैः परस्परं प्रावृणुतां सुदंशितौ ॥ 005e
ततस्त्वदीयाश्च परे च सायकैः कृतेऽन्धकारे ददृशुर्न किञ्चन । 006a
भयातुरा एकरथौ समाश्रयंस्ततोऽभवत्त्वद्भुतमेव सर्वतः ॥ 006c
ततोऽस्त्रमस्त्रेण परस्परं तौ विधूय वाताविव पूर्वपश्चिमौ । 007a
घनान्धकारे वितते तमोनुदौ यथोदितौ तद्वदतीव रेजतुः ॥ 007c
न चाभिसर्तव्यमिति प्रचोदिताः परे त्वदीयाश्च तथाऽवतस्थिरे । 008a
महारथौ तौ परिवार्य सर्वतः सुरासुराः शम्बरवासवाविव ॥ 008c
मृदङ्गभेरीपणवानकस्वनैर्निनादिते वाहनशङ्खनिस्वनैः । 009a
तौ सिंहनादैर्बभतुर्नरोत्तमौ पतङ्गचन्द्राविव दुःसहावुभौ ॥ 009c
महाधनुर्मण्डलमध्यगावुभौ सुवर्चसौ बाणसहस्रदीधिती । 010a
दिधक्षमाणौ सचराचरं जगद्युगान्तसूर्याविव दुःसहौ रणे ॥ 010c
उभावजेयावहितान्तकावुभावुभौ जिघांसू कृतिनौ परस्परम् । 011a
महाहवे वीतभयौ समीयतुर्महेन्द्रजम्भाविव कर्णपाण्डवौ ॥ 011c
ततो महास्त्राणि महाधनुर्धरौ विमुञ्चमानाविषुभिर्भयानकैः । 012a
नराश्वनागानमितान्निजघ्नतुः परस्परं चापि महारथौ नृप ॥ 012c
ततो विसस्रुः पुनरर्दिता नरा नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः । 013a
सनागपत्त्यश्वरथा दिशो द्रुतास्तथा यथा सिंहहता वनौकसः ॥ 013c
ततस्तु दुर्योधनभोजसौबलाः कृपो गुरोश्चापि सुतो महाहवे । 014a
महारथाः पञ्च धनञ्जयाच्युतौ शरैः शरीरार्तिकरैरताडयन् ॥ 014c
धनूंषि तेषामिषुधीन्ध्वजान्हयान्रथांश्च सूतांश्च धनञ्जयः शरैः । 015a
समं प्रमध्याशु परान्समन्ततः शरोत्तमैर्द्वादशभिश्च सूतजम् ॥ 015c
अथाभ्यधावंस्त्वरिताः शतं रथाः शतं गजाश्चार्जुनमाततायिनः । 016a
शकास्तुषारा यवनाश्च सादिनः सहैव काम्भोजवरैर्जिघांसवः ॥ 016c
वरायुधान्पाणिगतैः शरैः सह क्षुरैर्न्यकृन्तत्प्रपतञ्शिरांसि च । 017a
हयांश्च नागांश्च रथांश्च युध्यतो धनञ्जयः शत्रुगणान्क्षितौ क्षिणोत् ॥ 017c
ततोऽन्तरिक्षे सुरतूर्यनिःस्वनाः ससाधुवादा हृषितैः समीरिताः । 018a
निपेतुरप्युत्तमपुष्पवृष्टयः सुरूपगन्धाः पवनेरिताः शुभाः ॥ 018c
तदद्भुतं देवमनुष्यसाक्षिकं समीक्ष्य भूतानि विसिस्मियुस्तदा । 019a
तवात्मजः सूतसुतश्च न व्यथां न विस्मयं जग्मतुरेकनिश्चयौ ॥ 019c
अथाब्रवीद्द्रोणसुतस्तवात्मजं करं करेण प्रतिपीड्य सान्त्वयन् । 020a
प्रसीद दुर्योधन शाम्य पाण्डवैरलं विरोधेन धिगस्तु विग्रहम् ॥ 020c
हतो गुरुर्ब्रह्मसमो महास्त्रवित्तथैव भीष्मप्रमुखा महारथाः । 021a
अहं त्ववध्यो मम चापि मातुलः प्रशाधि राज्यं सह पाण्डवैश्चिरम् ॥ 021c
धनञ्जयः स्थास्यति वारितो मया जनार्दनो नैव विरोधमिच्छति । 022a
युधिष्ठिरो भूतहिते रतः सदा वृकोदरस्तद्वशगस्तथा यमौ ॥ 022c
त्वया तु पार्थैश्च कृते च संविदे प्रजाः शिवं प्राप्नुयुरिच्छया तव । 023a
व्रजन्तु शेषाः स्वपुराणि पार्थिवा निवृत्तवैराश्च भवन्तु सैनिकाः । 023c
न चेद्वचः श्रोष्यसि मे नराधिप ध्रुवं हि तप्तोऽसि हतोऽरिभिर्युधि ॥ 023e
वृद्धं पितरमालोक्य गान्धारीं च यशस्विनीम् । 024a
कृपालुर्धर्मराजो हि याचितः शममेष्यति ॥ 024c
यथोचितं च वै राज्यमनुज्ञास्यति ते प्रभुः । 025a
विपश्चित्सुमतिर्वीरः सर्वशास्त्रार्थतत्त्ववित् ॥ 025c
वैरं नेष्यति धर्मात्मा स्वजने नास्त्यतिक्रमः । 026a
न विग्रहमतिः कृष्णा स्वजने प्रतिनन्दति ॥ 026c
भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ । 027a
वासुदेवमते चैव पाण्डवस्य च धीमतः । 027c
स्थास्यन्ति पुरुषव्याघ्रास्तयोर्वचनगौरवात् ॥ 027e
रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् । 028a
जीवने यत्नमातिष्ठ जीवन्भद्राणि पश्यति ॥ 028c
राज्यं श्रीश्चैव भद्रं ते जीवमाने च कल्पते । 029a
मृतस्य तु खलु कौरव्य नैव राज्यं कुतः सुखम् ॥ 029c
लोकवृत्तमिदं वृत्तं प्रवृत्तं पश्य भारत । 030a
शाम्य त्वं पाण्डवैः सार्धं शेषं रक्ष कुलस्य च ॥ 030c
मा भूत्स कालः कौरव्य यदाऽहमहितं वचः । 031a
ब्रूयां कामं महाबाहो माऽवमंस्था वचो मम ॥ 031c
धर्मिष्ठमिदमत्यर्थं राज्ञश्चैव कुलस्य च । 032a
एतद्धि परमं श्रेयः कुरुवंशस्य वृद्धये । 032c
प्रयाहि तं च गान्धारे कुलस्य च सुखावहम् ॥ 032e
पथ्यमायतिसंयुक्तं कर्णोऽप्यर्जुनमाहवे । 033a
न जेष्यति नरव्याघ्र इति मे निश्चिता मतिः ॥ 033c
रोचतां ते नरश्रेष्ठ ममैतद्वचनं शुभम् । 034a
अतोऽन्यथा हि राजेन्द्र विनाशः सुमहान्भवेत् ॥ 034c
इदं च दृष्टं जगता सह त्वया कृतं यदेकेन किरीटमालिना । 035a
यथा न कुर्याद्बलभिन्न चान्तको न च प्रचेता भगवान्न यक्षराट् ॥ 035c
अतोऽपि भूयान्स्वगुणैर्धनञ्जयो न चातिवर्तिष्यति मे वचोऽखिलम् । 036a
तवानुयात्रां च सदा करिष्यति प्रसीद राजेन्द्र शमं त्वमाप्नुहि ॥ 036c
ममाभिमानः परमः सदा त्वयि ब्रवीम्यतस्त्वां परमाच्च सौहृदात् । 037a
निवारयिष्यामि च कर्णमाहवे महान्हि मेऽस्ति प्रणयोऽथ सूतजे ॥ 037c
वदन्ति मैत्रीं सहजां विचक्षणास्तथैव साम्ना च धनेन चार्जिताम् । 038a
प्रतापतश्चोपनतां चतुर्विधां तदस्ति सर्वं तव पाण्डवेषु ॥ 038c
निसर्गतस्ते तव वीर बान्धवाः पुनश्च साम्ना हितमाप्नुयुः प्रभो । 039a
त्वयि प्रसन्ने यदि मित्रतां गते हितं कृतं स्याज्जगतस्त्वयाऽतुलम् ॥ 039c
इतीदमुक्तः सुहृदा वचो हितं विचिन्त्य निःश्वस्य च दुर्मनाऽब्रवीत् । 040a
यथा भवानाह सखे तथैव तन्ममापि विज्ञापयतो वचः शृणु ॥ 040c
निहत्य दुःशासनमुक्तवान्बहु प्रहस्य शार्दूलवदेष दुर्मतिः । 041a
वृकोदरस्तद्धृदये मम स्थितं न तत्परोक्षं भवतः कुतः शमः ॥ 041c
न चापि कर्णं प्रसहेद्रणेऽर्जुनो महागिरिं मेरुमिवोग्रमारुतः । 042a
न चाश्वसिष्यन्ति पृथात्मजा मयि प्रसह्य वैरं बहुशो विचिन्त्य ॥ 042c
न चापि कर्णं गुरुपुत्र संयुगादुपारमेत्यर्हसि वीर भाषितुम् । 043a
श्रमेण युक्तो महताद्य फल्गुनस्तमेष कर्णः प्रसभं हनिष्यति ॥ 043c
'वसुन्धरायाः परिवर्तनं भवेद्व्रजेच्च शोषं मकरालयोऽर्णवः । 044a
प्लवेयुरप्यद्रिवरा महाम्बुधौ न चार्जुनो जेष्यति कर्णमाहवे ॥ 044c
अपां पृथिव्या नभसो नभस्वतः सुतिग्मदीप्तेश्च हिरण्यरेतसः । 045a
अभाव एषामपि सर्वतो भवेन्न चार्जुनो जेष्यति कर्णमाहवे' ॥ 045c
तमेवमुक्त्वाऽप्यनुनीय चासकृत्तवात्मजः स्वाननुशास्ति सैनिकान् । 046a
द्रुतं घ्नताभिद्रवताहितानिमानहीनसत्वाः किमु जोषमासते ॥ ॥ 046c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुर्नवतितमोऽध्यायः ॥ 94 ॥

8-94-6 एकौ मुख्यौ रथौ रथिनौ कर्णार्जुनौ ॥ 8-94-7 तमोनुदौ सूर्यचन्द्रौ ॥ 8-94-8 नच अभिसर्तव्यं नापयातव्यमिति नियमेन प्रचोदिताः प्रेरिताः ॥ 8-94-23 ध्रुवं हि तप्तासि इति क.ख.ड.पाठः ॥ 8-94-41 दुःशासनमुक्तवान्वच इति झ.पाठः तत्र वचो दुर्योधनस्य हतस्य शिरः पदा ताडयिष्यामीत्येवंरूपम् ॥