अध्यायः 093
शल्यकर्णयोः सँलापः ॥ 1 ॥ कृष्णार्जुनयोः सँलापः ॥ 2 ॥ अर्जुनेन कृष्णम्प्रति स्वसामर्थ्यकथनम् ॥ 3 ॥
सञ्जय उवाच । 001
रथौ तयोः श्वेतहयौ दिव्यौ युक्तौ महास्वनौ । 001a
समास्थितौ लोकवीरौ शङ्खान्दध्मुः पृथक्पृथकम् । 001c
वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत ॥ 001e
तद्भीरुसन्त्रासकरं युद्धं समभवत्तदा । 002a
अन्योन्यस्पर्धिनोरुग्रं शक्रशम्बरयोरिव ॥ 002c
तयोर्ध्वजौ हि विमलौ शुशुभाते रथे स्थितौ । 003a
राहुकेतू यथाऽऽकाशे उदितौ जगतः क्षये ॥ 003c
कर्णस्याशीविषनिभा रत्नसारमयी दृढ़ा । 004a
पुरन्दरधनुः प्रख्या हस्तिकक्ष्या विराजते ॥ 004c
कपिश्रेष्ठस्तु पार्थस्य व्यादितास्य इवान्तकः । 005a
दंष्ट्राभिर्भीषयन्भाभिर्दुर्निरीक्ष्यो रविर्यथा ॥ 005c
युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः । 006a
कर्णध्वजमुपातिष्ठत्स्वस्थानाद्वेगवान्कपिः ॥ 006c
उत्पत्य च महावेगः कक्ष्यामभ्याहनत्तदा । 007a
नखैश्च दशनैश्चैव गरुडः पन्नगं यथा ॥ 007c
सा किङ्किणीकाभरणा कालपाशोपमा तदा । 008a
अभ्यद्रवत्सुसंरब्धा हस्तिकक्ष्याऽथ तं कपिम् ॥ 008c
तयोर्घोरतरे युद्धे द्वैरथे द्यूत आहिते । 009a
प्राकुर्वतां ध्वजौ युद्धं पूर्वं पूर्वतरं तदा ॥ 009c
हया हयानभ्यहेषन्स्पर्धमानाः परस्परम् । 010a
अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः । 010c
शल्यश्च पुण्डरीकाक्षं तथैवाभिसमैक्षत ॥ 010e
तत्राजयद्वासुदेवः शल्यं नयनसायकैः । 011a
कर्णं चाप्यजयदृष्ट्या कुन्तीपुत्रो धनञ्जयः ॥ 011c
अयाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम् ॥ 012ac
यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित् । 013a
किं करिष्यसि सङ्ग्रामे शल्य सत्यमथोच्यताम् ॥ 013c
शल्य उवाच । 014
यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः । 014a
उभावेकरथेनाहं हन्यां माधवपाण्डवौ ॥ 014c
सञ्जय उवाच । 015
एवमेव तु गोविन्दमर्जुनः प्रत्यभाषत । 015a
तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः ॥ 015c
पतेद्दिवाकरः स्थानाच्छीर्येद्भूमिरनेकधा । 016a
शैत्यमग्निरियान्न त्वां हन्यात्कार्णो धनञ्जय ॥ 016c
यदि चैतत्कथञ्चित्स्याल्लोकपर्यसनं भवेत् । 017a
हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे ॥ 017c
इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः । 018a
अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम् ॥ 018c
मम तावदपर्याप्तौ कर्णशल्यौ जनार्दन । 019a
सपताकध्वजं कर्णं सशल्यरथवाजिनम् ॥ 019c
सच्छत्रकवचं चैव सशक्तिशरकार्मुकम् । 020a
द्रष्टाऽस्यद्य रणे कृष्ण शरैश्छिन्नमनेकधा ॥ 020c
अद्यैव सरथं साश्वं सशक्तिकवचायुधम् । 021a
सञ्चूर्णितमिवारण्ये वृक्षं पश्याद्य दन्तिना ॥ 021c
अद्य राधेयभार्याणां वैधव्यं समुपस्थितम् । 022a
ध्रुवं स्वप्नेष्वनिष्टानि ताभिर्दृष्टानि माधव ॥ 022c
द्रष्टासि ध्रुवमद्यैव विधवाः कर्णयोषितः । 023a
न हि मे शाम्यते मन्युर्यदनेन पुरा कृतम् ॥ 023c
कृष्णां सभागतां दृष्ट्वा मूढेनादीर्घदर्शिना । 024a
अस्मांस्तथाऽवहसता क्षिपता च पुनःपुनः ॥ 024c
अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया । 025a
वारणेनेव मत्तेन पुष्पितं गजतीरुहम् ॥ 025c
अद्य ता मधुरा वाचः श्रोतासि मधुसूदन । 026a
दिष्ट्या जयसि वार्ष्णेय इति कर्णे निपातिते ॥ 026c
अद्याभिमन्युजननीं प्रहृष्टः सान्त्वयिष्यसि । 027a
कुन्तीं पितृष्वसारं च प्रहृष्टः सन् जनार्दन ॥ 027c
अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव । 028a
वाग्भिश्चामृतकल्पाभिर्धर्मराजं च पाण्डवम् ॥ ॥ 028c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिनवतितमोऽध्यायः ॥ 93 ॥
8-93-6 क्रुद्धोऽभिलषितं गत्वा इति ख.ट.पाठः ॥ 8-93-9 द्यूत आह्वये इति ख.ट.पाठः ॥