अध्यायः 092

कर्णार्जुनसमाश्रयात् लोकक्षयभीरुणा प्रजापतिना ब्रह्माणं प्रति उभयोः साम्येन जयप्रार्थना ॥ 1 ॥ इन्द्रेण सकारणनिरूपणमर्जुनस्यैव जये प्रार्थिते ब्रह्मेशानाभ्यां तदङ्गीकारे देवैर्हर्षात्पुष्पवर्षणम् ॥ 2 ॥

सञ्जय उवाच । 001
प्रजापतिस्तु तं दृष्ट्वा देवभागं समागतम् । 001a
अब्रवीत्तु ततो राजन्पश्यतो वै स्वयम्भुवः ॥ 001c
उभावतिरथौ शूरावुभौ दृढपराक्रमौ । 002a
उभौ सदृशकर्माणौ वज्रिचक्रायुधोपमौ ॥ 002c
अहो बत महद्युद्धं कर्णार्जुनसमागमे । 003a
भविष्यति महाघोरं वृत्रवासवयोरिव ॥ 003c
प्रजापतिरथोक्त्वैवं स्वयम्भुवमचोदयत् । 004a
समोऽस्तु विजयः काममुभयोर्नरसिंहयोः ॥ 004c
कर्णार्जुनविवादेन मा नश्येदखिलं जगत् । 005a
स्वयम्भो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः ॥ 005c
एवमुक्तस्तु भगवाञ्जये ताभ्यामनिश्चिते । 006a
इत्यब्रवीन्महाराज महाब्रह्मा प्रजापतिम् ॥ 006c
द्वावप्येतौ हि कृतिनौ द्वावप्यतिबलोत्कटौ । 007a
भविष्यत्यनयोर्युद्धं त्रैलोक्यस्य भयावहम् ॥ 007c
ततः प्रजापतिं तत्र सहस्राक्षोऽभ्यचोदयत् । 008a
विजयो ध्रुव एवास्तु पाण्डवस्य महात्मनः ॥ 008c
मनस्वी बलवाञ्शूरः कृतविद्यस्तपोधनः । 009a
बिभर्ति च महातेजा धनुर्वेदमशेषतः ॥ 009c
पार्थः सर्वगुणोपेतो देवकार्यमिदं यतः । 010a
क्लिश्यन्ते पाण्डवा नित्यं वनवासादिभिर्भृशं ॥ 010c
सम्पन्नस्तपसा चैव पर्याप्तः पुरुषर्षभः । 011a
अतिक्रामेच्च माहात्म्याद्दिष्टमप्यविचारयन् ॥ 011c
अतिक्रमे च लोकानामभावो नियतो भवेत् । 012a
नावस्थानं च पश्यामि क्रुद्धयोः कृष्णयोः क्वचित् ॥ 012c
स्रष्टारौ जगतश्चैतौ ततश्च पुरुषर्षभौ । 013a
नरनारायणावेतौ पुराणावृषिसत्तमौ ॥ 013c
अनियम्यौ नियन्तारौ जगतः पुरुषर्षभौ । 014a
[नैतयोस्तु समः कश्चिद्दिवि वा मानुषेषु वा ॥ 014c
अनुगम्यास्त्रयो लोकाः सह देवर्षिचारणैः । 015a
सर्वदेवगणाश्चापि सर्वभूतानि यानि च । 015c
अनयोस्तु प्रभावेन वर्तते निखिलं जगत् ॥] 015e
कामं तु सुकृताँल्लोकानाप्नोतु पुरुषर्षभः । 016a
कर्णो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः ॥ 016c
वसूनां समलोकत्वं मरुतां वासमाप्नुयात् । 017a
सहितो द्रोणभीष्माभ्यां नाकपृष्ठे महीयताम् ॥ 017c
'क्लेशितो हि वने पार्थो दिर्घकालं पितामह । 018a
तस्मादेष जयेद्युद्धे तपसाऽभ्यधिकोऽर्जुनः ॥ 018c
पूर्वं भगवता प्रोक्तः कृष्णयोर्विजयो ध्रुवः । 019a
तत्तथास्तु नमस्तेऽस्तु प्रमो ब्रूहि पितामह ॥ 019c
तत्सहस्राक्षवचनं निशम्य भगवान्प्रभुः । 020a
नोवाच तज्जयं तुल्यं तयोः कर्णकिरीटिनोः ॥ 020c
तस्मादाशां गतः शक्रस्तूष्णीम्भूते पितामहे । 021a
विजयः पाण्डवेयस्य कर्णस्य च वधो भवेत् ॥ 021c
ब्रह्मेशानौ ततो वाक्यमूचतुर्भुवनेश्वरम् । 022a
विजयो ध्रुव एवास्तु पाण्डवस्य महात्मनः ॥ 022c
मनस्वी जयतां शूरः कृतविद्यस्तपोधनः । 023a
बिभर्ति च महातेजा धनुर्वेदमशेषतः ॥ 023c
अतिक्रामेच्च माहात्म्याद्दिष्टमप्यविचारयन् । 024a
अतिक्रमे च लोकानामभावो नियतो भवेत् ॥ 024c
न च विद्म ह्यवस्थानं क्रुद्धयोः कृष्णयोः क्वचित् । 025a
स्रष्टारौ जगतश्चैव सतश्च पुरुषर्षभौ ॥ 025c
कामं तु सुकृताँल्लोकान्प्राप्नोत्वेष परन्तपः । 026a
कर्णो वैकर्तनः शूरो विजयस्तु नरे ध्रुवः ॥ 026c
तथोक्ते देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः । 027a
आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात् ॥ 027c
श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम् । 028a
तत्तथा व्येतु ते रोगः शमाप्नुत विमन्यवः ॥ 028c
इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष । 029a
विस्मितान्यभवन्राजन्पूजयाञ्चक्रिरे तदा । 029c
नोचुस्तदा जयं तुल्यं तयोः पुरुषसिंहयोः ॥ 029e
व्यसृजंश्च सुगन्धीनि पुष्पवर्षाणि हर्षिताः । 030a
नानारूपाणि विबुधा देवतूर्याण्यवादयन् ॥ 030c
दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः । 031a
विस्मयोत्फुल्लनयना नान्या बुबुधिरे क्रियाः ॥ ॥ 031c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विनवतितमोऽध्यायः ॥ 92 ॥

8-92-11 दिष्टमपि दैवविहितमपि ॥