अध्यायः 091
रणाय कर्णार्जुनयोः समागमः ॥ 1 ॥ तदवलोकनाय दिवि देवगन्धर्वादीनां समागमः ॥ 2 ॥ देवासुरादीनां कर्णार्जु नसमाश्रयणेन द्वैधीभावः ॥ 3 ॥
सञ्जय उवाच । 001
वृषसेनं हतं दृष्ट्वा क्रोधामर्षसमन्वितः । 001a
पुत्रशोकोद्भवं वारि नेत्राभ्यां समवासृजत् ॥ 001c
रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपुम् । 002a
युद्धायामर्षताम्राक्षः समाहूय धनञ्जयम् ॥ 002c
तौ रथौ सूर्यसङ्काशौ वैयाघ्रपरिवारितौ । 003a
समेतौ ददृशुस्तत्र द्वाविवार्कौ समुद्गतौ ॥ 003c
श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ । 004a
शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि । 004c
'रथौ चतुर्भिर्जलदैर्भगमित्राविवाम्बरे' ॥ 004e
तौ दृष्ट्वा विस्मयं जग्मुः सर्वसैन्यानि मारिष । 005a
त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव ॥ 005c
रथज्यातलनिर्ह्रादैर्बाणशङ्खरवैस्तथा । 006a
तौ रथावभ्यधावन्त क्षत्रियाः सर्व एव हि ॥ 006c
ध्वजावालोक्य वीराणां विस्मयः समपद्यत । 007a
हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः ॥ 007c
तौ रथौ सम्प्रसक्तौ तु दृष्ट्वा भारत पार्थिवाः । 008a
सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान् ॥ 008c
श्रुत्वा तयोर्द्वैरथं च तत्र योधाः सहस्रशः । 009a
चक्रुर्बाहुस्वनांश्चैव तथा बाणरवं महत् ॥ 009c
आजघ्नुः कुरवस्तत्र वादित्राणि समन्ततः । 010a
राधेयमभितो दध्मुः शङ्खाञ्शतसहस्रशः ॥ 010c
तथैव पाण्डवाः सर्वे हर्षयन्तो धनञ्जयम् । 011a
तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन् ॥ 011c
क्ष्वेलितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् । 012a
बाहुशब्दैश्च शूराणां कर्णार्जुनसमागमे ॥ 012c
तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ । 013a
प्रगृहीतमहाचापौ शरशक्तिध्वजायुतौ ॥ 013c
वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभितौ । 014a
तूणीरवसम्पन्नौ द्वावप्येतौ सुदर्शनौ ॥ 014c
रक्तचन्दनदिग्धाङ्गौ समदौ गोवृषाविव । 015a
चापविद्युद्ध्वजोपेतौ शस्त्रसम्पत्तियोधिनौ ॥ 015c
चामरव्यजनोपैतौ श्वेतच्छत्रोपशोभितौ । 016a
कृष्णशल्यरथोपेतौ तुल्यरूपौ महारथौ ॥ 016c
सिंहस्कन्धौ दीर्घभुजौ रक्ताक्षौ हेममालिनौ । 017a
सिंहस्कन्धप्रतीकाशौ व्यूढोरस्कौ महाबलौ । 017c
अन्योन्यवधमिच्छन्तावन्योन्यजयकाङ्क्षिणौ ॥ 017e
अन्योन्यमभिधावन्तौ गोष्ठे गोवृषभाविव । 018a
प्रभिन्नाविव मातङ्गौ सुसंरब्धाविवाचलौ ॥ 018c
आशीविषशिशुप्रख्यौ यमकालान्तकोपमौ । 019a
इन्द्रवृत्राविव क्रुद्धौ सूर्यचन्द्रसमप्रभौ ॥ 019c
महाग्रहाविव क्रुद्धौ युगान्ताय समुत्थितौ । 020a
देवगर्भौ देवसमौ देवतुल्यौ च रूपतः ॥ 020c
यदृच्छया समायातौ सूर्याचन्द्रमसौ यथा । 021a
बलिनौ समरे दृप्तौ नानाशस्त्रधरौ युधि ॥ 021c
तौ दृष्ट्वा पुरुषव्याघ्रौ शार्दूलाविव धिष्ठितौ । 022a
बभूव परमो हर्षस्तावकानां विशाम्पते ॥ 022c
संशयः सर्वभूतानां विजये समपद्यत । 023a
समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनञ्जयौ ॥ 023c
उभौ वरायुधधरावुभौ रणकृतश्रमौ । 024a
उभौ च बाहुशब्देन नादयन्तौ नभस्तलम् ॥ 024c
उभौ विश्रुतकर्माणौ पौरुषेण बलेन च । 025a
उभौ च सदृशौ युद्धे शम्बरामरराजयोः ॥ 025c
कार्तवीर्यसमौ चोभावुभौ दाशरथेः समौ । 026a
विष्णुवीर्यसमौ चोभावुभौ भवसमौ युधि ॥ 026c
उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ । 027a
सारथिप्रवरौ चापि उभौ मद्रजनार्दनौ ॥ 027c
ततो दृष्ट्वा महाराज राजमानौ महारथौ । 028a
सिद्धचारणसङ्घानां विस्मयः समपद्यत ॥ 028c
धार्तराष्ट्रास्ततस्तूर्णं सबला भरतर्षभ । 029a
परिवव्रुर्महात्मानं कर्णमाहवशोभिनम् ॥ 029c
तथैव पाण्डवा दृष्ट्वा धृष्टद्युम्नपुरोगमाः । 030a
यमौ च चेकितानश्च प्रहृष्टाश्च प्रभद्रकाः ॥ 030c
नानादेश्याश्च ये शूराः शिष्टा युद्धाभिनन्दिनः । 031a
ते सर्वे सहिता हृष्टाः परिवव्रुर्धनञ्जयम् ॥ 031c
रिरक्षिषन्तः शत्रुघ्नाः पत्त्यश्वरथकुञ्जराः । 032a
धनञ्जयस्य विजये धृताः कर्णवधेऽपि च ॥ 032c
तथैव तावकाः सर्वे यत्ताः सेनाप्रहारिणः । 033a
दुर्योधनमुखा राजन्कर्णं जुगुपुराहवे ॥ 033c
तावकानां रणे कर्णो ग्लहो ह्यासीद्विशाम्पते । 034a
तथैव पाण्डवेयानां ग्लहः पार्थोऽभवत्तदा ॥ 034c
तयोस्तु सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्युधि । 035a
तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ ॥ 035c
ताभ्यां द्यतं समासक्तं विजयायेतराय वा । 036a
अस्माकं पाण्डवानां च स्थितानां रणमूर्धनि ॥ 036c
तौ तु स्थितौ महाराज समरे युद्धशालिनौ । 037a
अन्योन्यं प्रतिसंरब्धावन्योन्यवधकाङ्क्षिणौ ॥ 037c
तावुभौ प्रजिहीर्षन्ताविन्द्रवृत्राविव प्रभो । 038a
भीमरूपधरावास्तां महाधूमाविव ग्रहौ ॥ 038c
ततोऽन्तरिक्षे सञ्जज्ञे विवादो भरतर्षभ । 039a
मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे ॥ 039c
व्याश्रयन्त द्विधा भिन्नाः सर्वे लोकास्तु मारिष । 040a
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः । 040c
प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे ॥ 040e
द्यौरासीत्कर्णपक्षेऽत्र सनक्षत्रा विशाम्पते । 041a
भूर्विशाला पार्थमाता पुत्रस्य जयकाङ्क्षिणी ॥ 041c
सागराश्चैव गिरयः सरितश्च नरोत्तम । 042a
महीजा जलजाश्चैव व्याश्रयन्त किरीटिनम् ॥ 042c
असुरा यातुधानाश्च गुह्यकाश्च परन्तप । 043a
कर्णः समभवद्यत्र खेचराणि वयांसि च ॥ 043c
रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः । 044a
सोपवेदोपनिषदो व्याश्रयन्त किरीटिनम् ॥ 044c
वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः । 045a
महीवियज्जलचराः काद्रवेयाश्च सान्वयाः । 045c
विषवन्तो महानागा वेगिनश्चार्जुनेऽभवन् ॥ 045e
ऐरावताः सौरभेया वैशालेयाश्च भोगिनः । 046a
एतेऽभवन्नर्जुनस्य पापाः सर्पाश्च कर्णतः ॥ 046c
ईहामृगा व्यालमृगा मङ्गला मृगपक्षिणः । 047a
मङ्गलाः पशवश्चैव सिंहव्याघ्रास्तथैव च । 047c
पार्थस्य विजये राजन्सर्व एव समाश्रिताः ॥ 047e
वसवो मरुतः साध्या रुद्रा देवाश्विनावपि । 048a
अग्नी रुद्रश्च सोमश्च पन्नगाश्च दिशो दश । 048c
कर्णतः समपद्यन्त श्वसृगालवयांसि च ॥ 048e
वसवश्च महेन्द्रेण मरुतश्च सहाग्निना । 049a
धनञ्जयस्य ते वर्गा आदित्याः कर्णतोऽभवन् ॥ 049c
देवताः पितृभिः सार्धमृषिभिश्च परन्तप । 050a
तुम्बुरुप्रमुखाः सर्वे गन्धर्वा भरतर्षभ । 050c
यमौ वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः ॥ 050e
देवर्षिब्रह्मर्षिगणाः सर्वे च खचराश्च ये । 051a
प्रालेयाः सहमौनेयाः शुभाश्चाप्सरसां गणाः ॥ 051c
सहाप्सरोभिः शुभ्राभिर्देवदूताश्च गुह्यकाः । 052a
किरीटिनं संश्रिताः स्म पुण्यगन्धा मनोरमाः ॥ 052c
अमनोज्ञाश्च ये गन्धास्ते सर्वे कर्णमाश्रिताः । 053a
विपरीतान्यनिष्टानि भवन्ति विनशिष्यताम् ॥ 053c
ये त्वन्तकाले पुरुषं विपरीतमुपाश्रितम् । 054a
प्रविशन्ति नरं क्षिप्रं मृत्युकालेऽभ्युपागते । 054c
ते भावाः सहिताः कर्णं प्रविष्टाः सूतनन्दनम् ॥ 054e
ओजस्तेजश्च सिद्धिश्च प्रहर्षः सत्यविक्रमौ । 055a
मनस्तुष्टिर्जयश्चापि तथाऽऽनन्दो नृपोत्तम ॥ 055c
ईदृशानि नरव्याघ्र तस्मिन्सङ्ग्रामसागरे । 056a
निमित्तानि च शुभ्राणि विविशुर्जिष्णुमाहवे ॥ 056c
ऋषयो ब्राह्मणैः सार्धमभजन्त किरीटिनम् ॥ 057ac
ततो देवगणैः सार्धं सिद्धाश्च सह चारणैः । 058a
द्विधा भूता महाराज व्याश्रयन्त नरोत्तमौ ॥ 058c
विमानानि विचित्राणि गुणवन्ति च सर्वशः । 059a
समारुह्य समाजग्मुर्द्वैरथं कर्णपार्थयोः । 059c
अन्तरिक्षे महाराज देवगन्धर्वराक्षसाः ॥ 059e
एवं सर्वेषु भूतेषु द्विधा भूतेषु भारत । 060a
आशंसमानेषु जयं राधेयस्यार्जुनस्य च । 060c
विमानायुतसम्बाधमाकाशमभवत्तदा ॥ 060e
ईहामृगव्यालमृगैर्द्विपाश्वरथपङ्क्तिभिः । 061a
ऊह्यमानाः परे मेघैर्वायुना च मनीषिणः । 061c
दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम् ॥ 061e
देवदानवगन्धर्वा नागयक्षपतत्रिणः । 062a
महर्षयो देवगणाः पितरश्च स्वधाभुजः ॥ 062c
तपोविद्यौषधीसिद्धा नानारूपाम्बरत्विषः । 063a
अन्तरिक्षे महाराज विवदन्तोऽवतस्थिरे ॥ 063c
ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च । 064a
आस्थितो यानमाकाशे दिव्यं तेजः समागताः ॥ 064c
ततः प्रजापतिस्तूर्णमाजगाम महामते । 065a
द्वैरथं युधि तं द्रुष्टं कर्णपाण्डवयोस्तदा ॥ 065c
विजित्य कर्णः स्विदिमां वसुन्धरामथार्जुनः स्वित्प्रतिपद्यतेऽखिलाम् । 066a
इतीश्वरस्यापि बभूव संशयः प्रजापतेः प्रेक्ष्य तयोर्महद्बलम् ॥ ॥ 066c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकनवतितमोऽध्यायः ॥ 91 ॥