अध्यायः 089
सङ्कुलयुद्धम् ॥ 1 ॥
सञ्जय उवाच । 001
सुकल्पिता हैमवता महोत्कटा रणाभिकामैः कृतिभिः समास्थिताः । 001a
सुवर्णजालैर्वितता बभुर्गजास्तथा यथा खे जलदाः सविद्युतः ॥ 001c
कुणिन्दपुत्रो दशभिर्महायसैः कृपं ससूताश्वमपीडयद्भृशम् । 002a
ततः शरद्वत्सुतसायकैर्हतः सहैव नागेन पपात भूतले ॥ 002c
कुणिन्दपुत्रावरजस्तु तोमरैर्दिवाकरांशुप्रतिमैरयस्मयैः । 003a
जघान भोजस्य हयानथापतन्क्षणाद्विशस्ताः कृतवर्मणे हयाः ॥ 003c
अथापरे द्रौणिहता महाद्विपास्त्रयः ससर्वायुधयोधकेतनाः । 004a
निपेतुरुर्व्यां व्यसवो विचेतनास्तथा यथा वज्रहता महाचलाः ॥ 004c
कुणिन्दराजावरजादनन्तरः स्तनान्तरे पत्रिवरैरताडयत् । 005a
तवात्मजं तस्य तवात्मजः शरैः शितैः शरीरं व्यहनद्द्विपं च तम् ॥ 005c
स नागराजः सह राजसूनुना पपात रक्तं बहु सर्वतः क्षरन् । 006a
महेन्द्रवज्रप्रहतोऽम्बुदागमे यथा जलं गैरिकपर्वतस्तथा ॥ 006c
कुणिन्दपुत्रप्रहितोऽपरो द्विपः क्राथं ससूताश्वरथं व्यपोथयत् । 007a
ततोऽपतत्क्राथसराभिघातितः सहेश्वरो वज्रहतो यथा गिरिः ॥ 007c
रथी द्विपस्थेन हतोऽपतच्छरैः क्राथाधिपः पर्वतजेन दुर्जयः । 008a
सवाजिसूतेष्वसनध्वजस्तथा यथा महावातहतो महाद्रुमः ॥ 008c
वृको द्विपस्थं गिरिराजवासिनं भृशं शरैर्द्वादशभिः पराभिनत् । 009a
ततो वृकं साश्वरथं महाद्विपो द्रुतं चतुर्भिरणैर्व्यपोथयत् ॥ 009c
स पोथितो नागरवेण वीर्यवान्पराभिनद्द्वादशभिः शिलीमुखैः । 010a
वृकेण बाणाभिहतोऽपतत्क्षितौ सवारणो बभ्रुसुतेन सार्धम् ॥ 010c
कुणिन्दराजस्य सुतोऽपरस्तदा स चापि शूरः सहसा समर्पितः । 011a
पपात बाणैः सुबलस्य सूनुना विषाणपुच्छापरगात्रपातिना ॥ 011c
गजेन वाहाञ्शकुनेः कुणिन्दजो निनाय वैवस्वतमन्दिरं रणे । 012a
रथं च सङ्क्षुभ्य ननाद नर्दतस्ततोऽस्य गान्धारपतिः शिरोऽहरत् ॥ 012c
ततः कुणिन्देषु गतेषु तेषु प्रहृष्टरूपास्तव ते महारथाः । 013a
भृशं प्रदरध्मुर्लवणाम्बुसम्भवान्वरांश्च बाणासनपाणयोऽभ्ययुः ॥ 013c
तथाऽभवद्युद्धमतीव दारुणं पुनः कुरूणां सह पाण्डुसृञ्जयैः । 014a
शरासिशक्त्यृष्टिगदापरश्वथैर्नराश्वनागासुहरं भृशाकुलम् ॥ 014c
रथाश्वमातङ्गपदातयस्ततः परस्परं विप्रहताः क्षितौ पतन् । 015a
यथा सविद्युत्तटितो जलप्रदाः समुत्थितैर्दिग्भ्य इवोग्रमारुतैः ॥ 015c
ततः शतानीकहता महागजा हया रथाः पत्तिगणाश्च तावकाः । 016a
सुपर्णवातप्रहता यथोरगास्तथा गता गां विवशा विचूर्णिताः ॥ 016c
ततोऽभ्यविद्ध्यद्बहुभिः शितैः शरैः स विन्दपुत्रो नकुलात्मजं स्मयन् । 017a
ततोऽस्य कोपाद्विचकर्त नाकुलिः शिरः क्षुरेणाम्बुजसन्निभाननम् ॥ 017c
ततः शतानीकमविध्यदायसैस्त्रिभिः शरैः कर्णसुतोऽर्जुनं त्रिभिः । 018a
त्रिभिश्च भीमं नकुलं च सप्तभिर्जनार्दनं द्वादशभिश्च सायकैः ॥ 018c
तदस्य कर्मातिमनुष्यकर्मणः समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन् । 019a
पराक्रमज्ञास्तु धनञ्जयस्य ये हुतोऽयमग्नाविति ते तु मेनिरे ॥ ॥ 019c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोननवतितमोऽध्यायः ॥ 89 ॥