अध्यायः 088
दुःशासनवधक्रोधादात्मानामभिद्रुतवतां तदनुजानां भीमेन वधः ॥ 1 ॥ दुःशासनादिनिधनाद्बिश्यतः कर्णस्य शल्येन प्रोत्साहनम् ॥ 2 ॥ सङ्कुलयुद्धम् ॥ 3 ॥
सञ्जय उवाच । 001
स पीत्वा रुधिरं तस्य चरणौ गृह्य भारत । 001a
इत्युच्चैर्वचनं प्राह प्रतिनृत्यन्वृकोदरः ॥ 001c
एष ते रुधिरं तीव्रं पिबामि पुरुषादवत् । 002a
वदेदानीं सुसंरब्धः पुनर्गौरिति गौरिति ॥ 002c
ये चास्मान्प्रतिनृत्यन्ति तदा गौरिति गौरिति । 003a
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति ॥ 003c
प्रमाणकोट्यां शयने कालकूटकभोजनम् । 004a
दंशनं चाहिभिस्तीक्ष्णैर्दाहं जतुगृहे च यत् ॥ 004c
द्यूते च दोषभूयस्त्वमरण्ये वसतिश्च या । 005a
इष्वस्त्राणि च सङ्ग्रामे अनिलानिलवेश्मसु ॥ 005c
दुःखान्येवाभिजानीमो न सुखानि कदाचन । 006a
धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य वयं सदा ॥ 006c
इत्युच्चैर्वचनं प्रोच्य जयं प्राप्य वृकोदरः । 007a
पुनरेव महाराज तव सैन्यमभिद्रवत् ॥ 007c
रक्तार्द्रपाणिस्तु ततो महात्मा गदापाणिः काल इवान्तकाले । 008a
विभीषयंस्तव पुत्रस्य सैन्यमितस्ततो धावति वाहिनीं ते ॥ 008c
ततः क्षणाद्भारत शून्यमासीदायोधनं घोरतरं कुरूणाम् । 009a
यत्राजिमध्ये प्रापिबद्भीमसेनो दुःशासनस्य रुधिरं क्रोधदीप्तः ॥ 009c
स हत्वा समरे राजन्राजपुत्रं महाबलम् । 010a
पूर्णकामो मदोदग्रः सिंहो रुरुमिवोत्कटः ॥ 010c
रुधिरार्द्रो महाराज व्यशोभत परन्तपः । 011a
सपुष्पः किंशुक इव रक्तरक्ततरो बभौ ॥ 011c
रुधिराक्तो घोरवेषः क्रुद्धो राजन्वचोऽब्रवीत् । 012a
ब्रूहीदानीं पापमते नृशंस पतितो ह्यसि ॥ 012c
दुःशासने यादृशं संश्रुतं नस्तदवाप्तं पाण्डवैः सर्वमेव । 013a
अत्रैवमाप्स्याम्यपरं द्वितीयं दुर्योधनं यज्ञपशुं विशस्य ॥ 013c
शिरो मृदित्वाऽस्य पुनश्च शान्तिं यास्याम्यहं कौरवाणां समक्षम् । 014a
या साऽपतिः सा सपतिर्हि जाता यास्ताः सपत्योऽपतयस्तु जाताः ॥ 014c
पश्यन्तु चित्रं विविधं हि लोके ये वै तिलाः षण्डतिला बभूवुः । 015a
ते चेत्संसिद्धा निधनं गताः परे किं चित्ररूपं बत जीवलोके ॥ 015c
एतावदुक्त्वा वचनं प्रहृष्टः प्राक्रोशदुच्चै रुधिरार्द्रवक्रः । 016a
ननर्त चैवातिबलो महात्मा वृत्रं निहत्येव सहस्रनेत्रः ॥ 016c
दृष्ट्वा तु नृत्यन्तमुदग्रवीर्यं कालं यथा त्वन्तकाले प्रजानाम् । 017a
महद्भयं चाधिरथिं विवेश जये निराशाश्च सुतास्त्वदीयाः ॥ 017c
दुःशासने तु निहते पुत्रास्तव महारथाः । 018a
महत्क्रोधविषं वीरा धारयन्तो महाबलाः । 018c
ते तु राजन्महावीर्या भीमं प्राच्छादयञ्छरैः ॥ 018e
निषङ्गी कवची खड्गी दण्डधारो धनुर्धरः । 019a
अलम्बुर्जलसन्धश्च वातवेगसुवर्चसौ ॥ 019c
एते समेत्य सहिता भ्रातृव्यसनकर्शिताः । 020a
भीमसेनं महाबाहुं पीडयामासुरञ्जसा ॥ 020c
स वध्यमानो विशिखैः समन्तात्तैर्महारथैः । 021a
भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ ॥ 021c
ततः परिवृतो राजन्नवभिः शत्रुतापनैः । 022a
दुःशासनादवरजैः पुत्रैस्तव वृकोदरः ॥ 022c
तांस्तु भल्लैर्महावेगैर्नवभिर्नव भारत । 023a
रुक्माङ्गदान्रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम् ॥ 023c
हतेषु तव पुत्रेषु बलं तद्विप्रदुद्रुवे । 024a
पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम् ॥ 024c
ततः कर्णं महाराज प्रविवेश महद्भयम् । 025a
दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव ॥ 025c
तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः । 026a
उवाच वचनं कर्णं प्राप्तकालं हितं तदा ॥ 026c
मा व्यथां कुरु राधेय नैवं त्वय्युपपद्यते ॥ 027ac
एते द्रवन्ति राजानो भीमसेनभयार्दिताः । 028a
दुर्योधनश्च सम्मूढो भ्रातृव्यसनकर्शितः ॥ 028c
दुःशासनस्य रुधिरे पीयमाने महात्मना । 029a
व्यापन्नचेताः सहसा शोकोपहतचेतनः ॥ 029c
उपासते त्वामेते हि परिवार्य महारथाः । 030a
कृपप्रभृतयः कर्ण हतशेषाः सहोदराः ॥ 030c
पाण्डवा लब्धलक्षाश्च धनञ्जयपुरोगमाः । 031a
त्वामेवाभिमुखाः शूरा युद्धाय समुपस्थिताः ॥ 031c
स त्वं पुरुषशार्दूल पौरुषे महति स्थितः । 032a
क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनञ्जयम् ॥ 032c
भारो हि धार्तराष्ट्रेण त्वयि सर्वः समाहितः । 033a
तमुद्वह महाबाहो यथाशक्ति यथाबलम् ॥ 033c
जये स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजये । 034a
वृषसेनश्च राधेय सङ्क्रुद्धस्तनयस्तव । 034c
त्वयि मोहं समापन्ने पाण्डवानभिधावति ॥ 034e
सञ्जय उवाच । 035
एतच्छ्रुत्वा तु वचनं शल्यस्यामिततेजसः । 035a
हृदि मानुष्यकं भावं कृत्वा युद्वाय सुस्थिरम् ॥ 035c
ततः क्रुद्धो वृषसेनोऽभ्यधावद्भीमं समायान्तममित्रसाहम् । 036a
बाणैः किरन्तं प्रतियाति चोग्रं व्यात्ताननं कालमिवापतन्तम् ॥ 036c
तमभ्यधावन्नकुलः प्रवीरमारादमित्रं प्रतुदन्पृषत्कैः । 037a
कर्णस्य पुत्रं समरे प्रहृष्टं जिष्णुर्जिघांसुर्मघवेव जम्भम् ॥ 037c
ततो ध्वजं स्फाटिकहेमचित्रं चिच्छेद धैर्यान्नकुलः क्षुरेण । 038a
कर्णात्मजस्येष्वसनं च चित्रं भल्लेन जाम्बूनदचित्रनद्धम् ॥ 038c
अथान्यदादाय धनुः स शीघ्रं कर्णात्मजः पाण्डवमभ्यविध्यत् । 039a
दिव्यैरस्त्रैरभ्यवर्षत्तदैनं कर्णस्य पुत्रो नकुलं कृतास्त्रम् ॥ 039c
ततः क्रुद्धो नकुलः कर्णपुत्रं शरैर्महोल्काभिरिवाभ्यपीडयत् । 040a
स कर्णपुत्रो नकुलस्य राजन्सर्वानस्त्रान्वारयदुत्तमास्त्रैः ॥ 040c
आसीत्सुघोरं भरतप्रवीर युद्धं तदा कर्णजपाण्डवाभ्याम् ॥ 041ac
वनायुजान्सुकुमारान्सुशुभ्रानलङ्कृताञ्जातरूपेण चित्रान् । 042a
जघान चाश्वान्नकुलस्य वीरो रणाजिरे सूतपुत्रस्य पुत्रः ॥ 042c
ततो हताश्वादवरुह्य यानाच्चर्माऽऽददे रुचिरं बर्हिचित्रम् । 043a
आकाशसङ्काशमसिं प्रगृह्य प्रकाशमानः खगवच्चचार ॥ 043c
ततोऽस्य पक्षाननयद्यमाय द्विसाहस्रान्नकुलः क्षिप्रकारी । 044a
ते प्रापतन्नसिना वै विशस्ता यथाऽश्वमेधे पशवः शमित्रा ॥ 044c
ततस्ततो विजिता युद्धशौण्डा नानादेश्याः सुहृदः सत्यसन्धाः । 045a
एकेन शीघ्रं नकुलेन नुन्नाः सारेप्सुनेवोत्तमचन्दनस्य ॥ 045c
भूमौ चरन्तं नकुलं रथौघाः समन्ततः सायकैः प्रत्यगृह्णन् । 046a
स तुद्यमानो नकुलो विहङ्गैश्चचार सङ्ख्ये द्विषतो विनिघ्नन् ॥ 046c
तं कर्णपुत्रोऽपि चरन्तमाजौ नराश्वमातङ्गरथप्रवीरान् । 047a
निघ्नन्तमष्टादशभिः पृषत्कैर्विव्याध वीरः स चुकोप विद्धः ॥ 047c
ततोऽभ्यधावत्समरे जिघांसुः कर्णात्मजं पाण्डुसुतो नृवीरम् । 048a
तस्येषुभिर्वधमत्सूतपुत्रो महारणे वर्म सहस्रभारम् ॥ 048c
तस्याथ कांस्यं सुशितं सुपीतमसिप्रवीरं गुरुभारसाहम् । 049a
द्विषच्छरीरापहरं सुघोरमाधून्वतः सर्पमिवात्तकोशम् ॥ 049c
क्षिप्रं शरैः षड्भिरमित्रसाहश्चकर्त खड्गं निशितैः सुधारैः । 050a
पुनश्च पार्थं निशितैः पृषत्कैः स्तनान्तरे क्षिप्रमिवात्यविध्यत् ॥ 050c
स भीमसेनस्य रथं च गत्वा ववर्ष वै शरवर्षं सुघोरम् ॥ 051ac
नकुलमथ विदित्वा छिन्नबाणासनासिं विरथमरिभिरार्तं कर्णपुत्रास्त्रमग्नम् । 052a
पवनचलपताका ह्लादिनो वल्गिताश्वाः परपुरुषनियुक्ताः स्वै रथैः शीघ्रमीयुः ॥ 052c
द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः । 053a
द्विरदरथनराश्वान्सूदयन्तस्त्वदीयान्भगवत इव रुद्राः सङ्ख्यया हेतिमन्तः ॥ 053c
अथ तव रथमुख्यास्तान्प्रतीयुस्त्वरन्तः कृपहृदिकसुतौ च द्रौणिदुर्योधनौ च । 054a
शकुनिशुकवृकाश्च क्राथदेवावृधौ च द्विरदजलदघौषैः स्यन्दनैः कार्मुकैश्च ॥ 054c
अथ तव रथवर्यास्तान्दशैकप्रवीरानिषुभिरशनिकल्पैस्ताडयन्तो न्यरुन्धन् । 055a
नवजलदसवर्णैर्हस्तिभिस्तान्स्म वव्रुर्गिरिशिखरनिकाशैर्भीमवेगैः कुणिन्दाः ॥ ॥ 055c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टाशीतितमोऽध्यायः ॥ 88 ॥