अध्यायः 087
भीमेन राज्ञां समक्षं दुःशासनवक्षसो रक्तपानम् ॥ 1 ॥
सञ्जय उवाच । 001
स राजपुत्रेण समार्च्छदुग्रदुःशासनेन निकृतो निकृत्या ॥ 001ac
तत्राकरोद्दुष्करं राजपुत्रो दुःशासनः कुरुवीरो महात्मा । 002a
यद्भीमसेनं प्रतियोधयद्रणे जम्भो यथा शक्रमुदारवीर्यम् ॥ 002c
धनुच्छित्त्वा भीमसेनस्य सङ्ख्ये षड्भिः शरैः सारथिमभ्यविध्यत् । 003a
ततोऽविध्यत्त्रिंशता भीमसेनं वरेषुभिर्वन्यमिव द्विपेन्द्रम् ॥ 003c
स कार्मुकं गृह्य तु भारसाधनं भीमस्तदा राजपुत्रं ह्यविध्यत् । 004a
पञ्चाशतैर्बाणगणैः स्तनानन्तरे तोत्रैर्यथा तीव्रवेगं द्विपेन्द्रम् ॥ 004c
ततस्तु राजन्विरथं महात्मा दुःशासनो भीमसेनं चकार । 005a
निहत्य सङ्ख्ये चतुरोऽस्य बाहाञ्छित्त्वा रथेषां पुनरेव चाक्षिपत् ॥ 005c
ततः क्षितिस्थो ह्यवरुह्य यानाद्वृकोदरो गदया तस्य वाहान् । 006a
यमक्षयं प्रेषयित्वा महात्मा रथं समाकर्षत राजसूनोः ॥ 006c
तस्मादवप्लुत्य रथात्ससर्ज दुःशासनस्तोमरमुग्रवेगम् । 007a
स तेन विद्धो ह्युरसि ह्यप्रमेयो गदां तस्मै विससर्जाप्रमेयाम् ॥ 007c
ततः क्रोधाद्भीमसेनः कृतानि सर्वाणि दुःखान्यनुसंस्मरन्वै । 008a
संस्मृत्य संस्मृत्य तथा प्रतिज्ञामुग्रामसौ राजपुत्रो व्यषीदत् ॥ 008c
सञ्चिन्तितं रोषमतीव वेगात्त्रयोदशाब्दं पुरुषप्रवीरः । 009a
प्रगृह्य वज्राशनितुल्यवेगां गदां करेणाथ वृकोदरो रुषा ॥ 009c
निपातयित्वा पृथिवीतले भृशं स ताडयामास वृकोदरो बली । 010a
अतीव सन्ताडितभिन्नगात्रो दुःशासनो वै निपपात भूमौ ॥ 010c
आक्रम्य कण्ठे युधि राजपुत्रं संरक्तनेत्रो ह्यब्रवीद्धार्तराष्ट्रम् । 011a
तद्ब्रूहि किं त्वं परिमार्गमाणो ह्यस्मान्पराभूय इहागतः पुनः ॥ 011c
दिदीपयंस्तद्भृशदीपितं मे चिरार्जितं रोषमतिप्रदीप्तम् । 012a
मधु प्रपास्ये तव कोष्टभाजनादित्यब्रवीद्भीमसेनस्तरस्वी ॥ 012c
दुःशासनं कण्ठदेशे प्रमृद्नंस्ततः क्रूरं भीमसेनश्चकार । 013a
तं व्यंसयित्वा सहसा ससार बलादसौ धार्तराष्ट्रस्तरस्वी ॥ 013c
भीमोऽभिदुद्राव सुतं त्वदीयं सपत्नतां दर्शयन्धार्तराष्ट्रे । 014a
मृगं मुहुः सिंहशिशुर्यथा वने तथाश्वभिद्रुत्य महाबलं बली ॥ 014c
निगृह्य चैनं परमेण कर्मणा उत्क्षिप्य चोत्क्षिप्य च तूर्णमेनम् । 015a
भूमौ तदा निष्पिपेषाथ वीर असिं विकोशं विमलं चकार ॥ 015c
तं पातयित्वा तु वृकोदरोऽथ जगर्ज हर्षेण विनादयन्दिशः । 016a
नादेन तेनाखिलपार्श्ववर्तिनो मूर्च्छाकुलाः पतितास्त्वाजमीढ ॥ 016c
दुःशासनं तत्र समीक्ष्य राजन्भीमो महाबाहुरचिन्त्यकर्मा । 017a
स्मृत्वा च केशग्रहणं च देव्या वस्त्रापहारं च रजस्वलायाः ॥ 017c
अनागसो भर्तृपराङ्मुखाया दुःखानि दत्तान्यपि विप्रचिन्त्य । 018a
जज्वाल कोपादथ भीमसेन आज्यप्रसिक्तो हि यथा हुताशः ॥ 018c
तत्राह कर्णं च सुयोधनं च कृपं द्रौणिं कृतवर्माणमेव । 019a
निहन्मि दुःशासनमद्य पापं संरक्ष्यतामद्य समस्तयोधाः ॥ 019c
इत्येवमुक्त्वा सहसाभ्यधावन्निहन्तुकामोऽतिबलस्तरस्वी । 020a
तथा तु विक्रम्य रणे वृकोदरो महागजं केसरिको यथैव । 020c
निगृह्य दुःशासनमेकवीरः सुयोधनस्याधिरथेः समक्षम् ॥ 020e
असिं समुद्यम्य सितं सुधारं कण्ठे पदाक्रम्य च वेपमानम् । 021a
उवाच तद्गौरिति यद्ब्रुवाणो हृष्टोऽवदः कर्णसुयोधनाभ्याम् ॥ 021c
ये राजसूयावभृथे पवित्रा जाताः कचा याज्ञसेन्या दुरात्मन् । 022a
ते पाणिना कतरेणावकृष्टास्तद्ब्रूहि त्वां पृच्छति भीमसेनः ॥ 022c
श्रुत्वा तु तद्भीमवचः सुघोरं दुःशासनो भीमसेनं निरीक्ष्य । 023a
जज्वाल भीमं स तदा स्मयेन संशृण्वतां कौरवसोमकानाम् । 023c
उक्तस्तदाजौ स तथा सरोषं जगाद भीमं परिवृत्तनेत्रः ॥ 023e
अयं करिकराकारः पीनस्तनविमर्दनः । 024a
गोसहस्रप्रदाता च क्षत्रियान्तकरः करः ॥ 024c
अनेन याज्ञसेन्या मे भीम केशा विकर्षिताः । 025a
पश्यतां कुरुमुख्यानां युष्माकं च सभासदाम् ॥ 025c
एवं त्वसौ राजसुतं निशम्य ब्रुवन्तमाजौ विनिपीड्य वक्षः । 026a
भीमो बलात्तं प्रतिगृह्य दोर्भ्यामुच्चैर्ननादाथ समस्तयोधान् ॥ 026c
उवाच यस्यास्ति बलं स रक्षत्वसौ भवेदद्य निरस्तबाहुः । 027a
दुःशानं जीवितं प्रोत्सृजन्तमाक्षिप्य योधांस्तरसा महाबलः ॥ 027c
एवं क्रुद्धो भीमसेनः करेण उत्पाटयामास भुजं महात्मा । 028a
दुःशासनं तेन स वीरमध्ये जघान वज्राशनिसन्निभेन ॥ 028c
कण्ठे समाक्रम्य च वेपमानं कृत्वाऽनु रूपं परमं सुघोरम् । 029a
कालान्तकाभ्यां सदृशं तदानीं विदार्य वक्षश्च महारथस्य ॥ 029c
दुःशासनस्य निपुशासनस्य उद्धृत्य वक्षः पतितस्य भूमौ । 030a
ततोऽपिबच्छोणितमस्य कोष्णमास्वाद्य चास्वाद्य च वीक्षमाणः ॥ 030c
क्रुद्धः प्रहृष्टो निजगाद वाक्यं स्तन्यस्य मातुः पयसोऽमृतस्य । 031a
माध्वीकजस्येव रसस्य तस्य मधोश्च पानाद्यवकस्य पानात् ॥ 031c
पयोदधिभ्यां मथिताच्च मुख्यात्तथेक्षुसारस्य मनोहरस्य । 032a
सर्वेभ्य एवाभ्यधिको रसोऽस्य मतो ममाद्याहितलोहितस्य ॥ 032c
एवं ब्रुवाणं पुनरुत्थितं तमास्फोट्य वल्गन्तमतिप्रहृष्टम् । 033a
ये भीमसेनं ददृशुस्तदानीं प्रायेण तेऽपि व्यथिता निपेतुः ॥ 033c
ये चापि नासन्पतिता मनुष्यास्तेषां करेभ्यः पतितं तु शस्त्रम् । 034a
भयाच्च सञ्चुक्रुशुरस्वरैस्तदा निमीलिताक्षा मुमुहुश्च तत्र ॥ 034c
ये तत्र भीमं रुधिरं पिबन्तं दुःशासनस्य ददृशुः प्रपन्नाः । 035a
नायं मनुष्यस्त्विति भाषमाणाः सर्वेऽपलायन्त भयाभिपन्नाः ॥ ॥ 035c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तशीतितमोऽध्यायः ॥ 87 ॥
8-87-27 योधानाक्षिप्य उवाचेत्यन्वयः ॥ 8-87-32 अहितस्य शत्रोःदुःशासनस्य लोहितस्य रक्तस्य ॥