अध्यायः 086
सङ्कलयुद्धम् ॥ 1 ॥ भीमदुःशासनयोः समागमः संवादश्च ॥ 2 ॥
सञ्जय उवाच । 001
ततः कर्णः कुरुषु प्रद्रुतेषु वरूथिना श्वेतहयेन राजन् । 001a
पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो महेषुभिर्वात इवाभ्रसङ्घान् ॥ 001c
सूतं रथादञ्जलिकैर्निपात्य जघान चाश्वाञ्जनमेजयस्य । 002a
शतानीकं सुतसोमं च भल्लैरवाकिरद्धनुषी चाप्यकृन्तत् ॥ 002c
धृष्टद्युम्नं निर्बिभेदाथ षड्भिर्जघानाश्वान्दक्षिणांस्तस्य सङ्ख्ये । 003a
हत्वा चाश्वान्सात्यकेः सूतपुत्रः कैकेयपुत्रं न्यवधीद्विशोकम् ॥ 003c
तमभ्यधावन्निहते कुमारे सेनापतिः कैकयो मित्रवर्मा । 004a
शरैर्विधुन्वन्भृशमुग्रवेगैः कर्णात्मजं चाप्यहनत्सुदेवम् ॥ 004c
तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त प्रहस्य बाहू च शिरश्च कर्णः । 005a
स स्यन्दनाद्गामगमद्गतासुः परश्वथैः साल इवावरुग्णः ॥ 005c
हताश्वमञ्जोगमिभिः सुषेणः शिनिप्रवीरं निशितैः पृषत्कैः । 006a
प्रच्छाद्य नृत्यन्निव कर्णपुत्रः शैनेयबाणाभिहतः पपात ॥ 006c
पुत्रे हते क्रोधपरीतचेताः कर्णः शिनीनां प्रवरं जिघांसुः । 007a
हतोऽसि हे सात्यक इत्युदीर्य व्यवासृजद्बाणममित्रसाहम् ॥ 007c
तमस्य चिच्छेद शरं शिखण्डी त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम् । 008a
शिखण्डिनः कार्मुकं च ध्वजं च च्छित्त्वा क्षुराभ्यां न्यहनत्सुजातः ॥ 008c
शिखण्डिनं षड्भिरविध्यदुग्रो धार्ष्टद्युम्नेः स शिरश्चोच्चकर्त । 009a
ततोऽभिनत्सुतसोमं क्षुरेण सुसंशितेनाधिरथिर्महात्मा ॥ 009c
अथाक्रन्दे तुमुले वर्तमाने धार्ष्टद्युम्ने निहते तत्र कृष्णः । 010a
अपाञ्चाल्यं क्रियते याहि पार्थ कर्णं जहीत्यब्रवीद्राजसिंह ॥ 010c
ततः प्रहस्याशु नरप्रवीरो रथं रथेनाधिरथेर्जगाम । 011a
भये तेषां त्राणमिच्छन्सुबाहुरभ्याहतानां रथयूथपेन ॥ 011c
ततोऽपरे भारत दुष्प्रकम्प्याः पाञ्चालानां रथसङ्घाः समेताः । 012a
प्रतिश्रिता ह्यन्तरिक्षे ग्रहाभा धनुःप्रवीरास्तु रथप्रवीराः ॥ 012c
विस्फार्य गाण्डीवमथोग्रघोषं ज्यया समाहत्य तले भृशं च । 013a
बाणान्धकारं सहसैव कृत्वा जघान नागाश्वरथध्वजांश्च ॥ 013c
[प्रतिश्रुतः प्राचरदन्तरिक्षे गुहा गिरीणामपतन्वयांसि । 014a
यन्मण्डलज्येन विजृम्भमाणो रौद्रे मुहूर्तेऽभ्यपतत्किरीटी ॥] 014c
तं भीमसेनोऽनुययौ रथेन पृष्ठे रक्षन्पाण्डवमेकवीरः । 015a
तौ राजपुत्रौ त्वरितौ रथाभ्यां कर्णाय यातावरिभिर्विषक्तौ ॥ 015c
तत्रान्तरे सुमहान्सूतपुत्रश्चक्रे युद्धं सोमकान्सम्प्रमथ्य । 016a
रथाश्वमातङ्गणाञ्जघान प्रच्छादयामास शरैर्दिशश्च ॥ 016c
तमुत्तमौजा जनमेजयश्च क्रुद्धौ युधामन्युशिखण्डिनौ च । 017a
कर्णं बिभेदुः सहिताः पृषत्कैः सन्नर्दमानाः सह पार्षतेन ॥ 017c
ते पञ्च पाञ्चालरथाः समेता वैकर्तनं कर्णमभिद्रवन्तः । 018a
तस्माद्रथाच्च्यावयितुं न शेकुर्धैर्यात्कृतात्मानमिवेन्द्रियार्थाः ॥ 018c
तेषां धनूंषि ध्वजवाजिसूतांस्तूर्णं पताकाश्च निकृत्य बाणैः । 019a
तान्पाञ्चालानभ्यहनत्पृषत्कैः कर्णस्ततः सिंह इवोन्ननाद ॥ 019c
तस्यास्यतस्तानभिनिघ्नतश्च ज्याबाणहस्तस्य धनुःस्वेनन । 020a
साद्रिद्रुमा स्यात्पृथिवी विशीर्णेत्यतीव मत्वा जनता व्यषीदत् ॥ 020c
स शक्रचापप्रतिमेन धन्वना भृशायतेनाधिरथिः शरान्सृजन् । 021a
बभौ रणे दीप्तमरीचिमण्डलो यथांशुमाली परिवेषवांस्तथा ॥ 021c
शिखण्डिनं द्वादशभिः पराभिनच्छितैः शरैः षड्भिरथोत्तमौजसम् । 022a
त्रिभिर्युधामन्युमविध्यदाशुगैस्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ ॥ 022c
पराजिताः पञ्च महारथास्तु ते महाहवे सूतसुतेन मारिष । 023a
निरुद्यमास्तस्थुरमित्रनन्दना यथेन्द्रियार्थात्मवता पराजिताः ॥ 023c
निमज्जतस्तानथ कर्णसागरे विपन्ननावो वणिजो यथार्णवे । 024a
उद्दध्रिरे नौभिरिवार्णवाद्रथैः सुकल्पितैर्द्रौपदिजाः स्वमातुलान् ॥ 024c
ततः शिनीनामृषभः शितैः शरैर्निकृत्य कर्णप्रहितानिषून्वहून् । 025a
विदार्य कर्णं निशितैरयस्मयैस्तवात्मजं ज्येष्ठमविध्यदष्टभिः ॥ 025c
कृपोऽथ भोजश्च तवात्मजस्तथा स्वयं च कर्णो निशितैरताडयत् । 026a
स तैश्चतुर्भिर्युयुधे यदूत्तमो दिगीश्वरैर्दैत्यपतिर्यथा तथा ॥ 026c
समाततेनेष्वसनेन कूजता महास्वनेनाशनिपातदीधितिः । 027a
बभूव दुर्धर्षतरः स सात्यकिः शरन्नभोमध्यगतो यथा रविः ॥ 027c
पुनः समास्थाय रथान्सुदंशिताः शिनिप्रवीरं जुगुपुः परन्तपाः । 028a
समेत्य पाञ्चालमहारथा रणे मरुद्गणाः शक्रमिवारिनिग्रहे ॥ 028c
ततोऽभवद्युद्धमतीव दारुणं तवाहितानां तव सैनिकैः सह । 029a
रथाश्वमातङ्गविनाशनं तथा यथा सुराणामसुरैः पुराऽभवत् ॥ 029c
रथा द्विपा वाजिपदातयस्तथा भ्रमन्ति नानाविधशस्त्रवेष्टिताः । 030a
परस्परेणाभिहताश्च चस्खलुर्विनेदुरार्ता व्यसवोऽपतंस्तथा ॥ 030c
तथागतं भीममभीस्तवात्मजः ससार राजावरजः किरञ्शरैः । 031a
तमभ्यधावत्त्वरितो वृकोदरो महारुरुं सिंह इवाभिपेदिवान् ॥ 031c
ततस्तयोर्युद्धमतीव दारुणं प्रदीव्यतोः प्राणदुरोदरं द्वयोः । 032a
परस्परेणाभिनिविष्टरोषयोरुदग्रयोः शम्बरशक्रयोर्यथा ॥ 032c
शरैः शरीरार्तिकरैः सुतेजनैर्निजघ्नतुस्तावितरेतरं भृशम् । 033a
सकृत्प्रभिन्नाविव वासितान्तरे महागजौ दोर्भिरदीनघातिनौ ॥ 033c
आलोक्य तौ चैव परस्परं ततः समं च शूरौ च ससारथी तदा । 034a
भीमोऽब्रवीद्याहि दुःशासनाय दुःशासनो याहि वृकोदराय ॥ 034c
तयो रथौ सारथिसम्प्रचोदितौ समं रथौ तौ महसा समीयतुः । 035a
नानायुधच्छत्रपताकिकाध्वजौ दिवीव पूर्वं बलशक्रयो रणे ॥ 035c
भीम उवाच । 036
दिष्ट्याऽसि दुःशासन अद्य दृष्टः क्षणं प्रतीच्छे सहवृद्धि मूलम् । 036a
चिरोदितं यन्मया ते सभायां कृष्णाभिमर्शेन गृहाण मत्तः ॥ 036c
स एवमुक्तस्तु ततो महात्मा दुःशासनो वाक्यमुवाच वीरः । 037a
सर्वं स्मरन्नेव विसंस्मरामि उदीर्यमाणं शृणु भीमसेन ॥ 037c
स्मरामि चात्मप्रभवं चिराय यज्जातुषे वेश्मनि रात्र्यहानि । 038a
विश्वासहीना मृगयां चरन्तो वसन्ति सर्वत्र निराकृतास्तु ॥ 038c
महाभयं रात्र्यहानि स्मरन्तस्तथोपभोगाच्च सुखाच्च हीनाः । 039a
वनेष्वटन्तो गिरिगह्वराणि पाञ्चालराजस्य पुरं प्रविष्टाः ॥ 039c
मायां यूयं कामपि सम्प्रविष्टा यतो वृतः कृष्णया फल्गुनो वः । 040a
सम्भूय पापैस्तदनार्यवृत्तं कृतं तदा मातृकृतानुरूपम् ॥ 040c
एका वृता पञ्चभिः साभिपन्ना ह्यलज्जमानैश्च परस्परस्य । 041a
स्मरे सभायां सुबलात्मजेन दासीकृता यत्सह कृष्णया च ॥ 041c
सञ्जय उवाच । 042
इत्येवमुक्तस्तु तवात्मजेन पाण्डोः सुतः कोपवशं जगाम । 042a
तवात्मजस्याथ वृकोदरो भृशं धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत् । 042c
ललाटमप्यस्य बिभेद पत्रिणा शिरश्च कायात्प्रजहार सारथेः ॥ 042e
स राजपुत्रोऽन्यदवाप्य कार्मुकं वृकोदरं द्वादशभिः पराभिनत् । 043a
स्वयं नियच्छंस्तुरगानजिह्मगैः शरैश्च भीमं पुनरप्यवीवृषत् ॥ ॥ 043c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षडशीतितमोऽध्यायः ॥ 86 ॥
8-86-14 प्रतिश्रुतः प्रतिस्वनः ॥