अध्यायः 085

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच । 001
तमायान्तं महावेगैरश्वैः कपिवरध्वजम् । 001a
युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाः ॥ 001c
कृत्वा संशप्तका घोरं शपथं पारलौकिकम् । 002a
परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम् ॥ 002c
कृष्णः श्वेतान्महावेगानश्वान्काञ्चनभूषणान् । 003a
मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति ॥ 003c
प्रेक्ष्य कर्णरथं यान्तमरिघ्नं तं धनञ्जयम् । 004a
बाणवर्षैरभिघ्नन्तः संशप्तकगणा ययुः ॥ 004c
त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान् । 005a
जघान नवतिं वीरानर्जुनो निशितैः शरैः ॥ 005c
तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना । 006a
विमानेभ्यः सुकृतिनः स्वर्गात्पुण्यक्षये यथा ॥ 006c
ततः सरथनागाश्वाः कुरवः कुरुसत्तमम् । 007a
निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम् ॥ 007c
तदायस्तमनुष्याश्वमुदीर्णवरवारणम् । 008a
पुत्राणां ते महासैन्यं समरौत्सीद्धनञ्जयम् ॥ 008c
शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः । 009a
प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम् ॥ 009c
तामन्तरिक्षे विततां शस्त्रवृष्टिं समन्ततः । 010a
व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः ॥ 010c
ततो म्लेच्छाः स्थिता मत्तैस्त्रयोदशशतैर्गजैः । 011a
पार्श्वतो व्यहनन्पार्थं तव पुत्रस्य शासनात् ॥ 011c
कर्णिनालीकनाराचैस्तोमरप्रासशक्तिभिः । 012a
कर्पणैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन् ॥ 012c
तां शस्त्रवृष्टिमतुलां द्विपस्थैः प्रेषितां प्रभुः । 013a
चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः ॥ 013c
अथ तान्द्विरदान्सर्वान्नानालिङ्गैः शरोत्तमैः । 014a
सपताकध्वजारोहान्गिरीन्वज्रैरिवाभिनत् ॥ 014c
ते हेमपुङ्खैरिषुभिरर्दिता हेममालिनः । 015a
हताः पेतुर्महानागाः साग्रिज्वाला इवाद्रयः ॥ 015c
ततो गाण्डीवनिर्घोषो महानासीद्विशाम्पते । 016a
स्तनतां कूजतां चैव मनुष्यगजवाजिनाम् ॥ 016c
कुञ्जराश्च हता राजन्दद्रुवुस्ते समन्ततः । 017a
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥ 017c
रथा हीना महाराज रथिभिर्वाजिभिस्तथा । 018a
गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः ॥ 018c
अश्वारोहा महाराज धावमाना इतस्ततः । 019a
तत्रतत्रैव दृश्यन्ते निहताः पार्थसायकैः ॥ 019c
तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत । 020a
यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि ॥ 020c
असंयुक्ताश्च ते राजन्परिवृत्ता रणं प्रति । 021a
नरा नागा रथाश्चैव नदन्तोऽर्जुनमभ्ययुः ॥ 021c
ततस्त्र्येङ्गेण महता बलेन भरतर्षभ । 022a
दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम् ॥ 022c
हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान् । 023a
जवेनाभ्यद्रवद्भीमो धनञ्जयरथं प्रति ॥ 023c
ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम् । 024a
दृष्ट्वाऽर्जुनं तदा भीममागतं भ्रातरं प्रति ॥ 024c
हतावशिष्टांस्तुरगानर्जुनेन महाबलः । 025a
भीमो व्यधमदश्रान्तो गदापाणिर्महाहवे ॥ 025c
'गदापाणिं तदा दृष्ट्वा भीमं भारत भारताः । 026a
मेनिरे तमनुप्राप्तं दण्डपाणिमिवान्तकम्' ॥ 026c
कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम् । 027a
प्राकाराट्टपुरद्वारदारणीमतिदारुणाम् ॥ 027c
गदां तुरगनाशाय त्वरन्भीमो व्यवासृजत् । 028a
सा जघान बहूनश्वानश्वारोहांश्च मारिष ॥ 028c
कांस्यायसतनुत्रांश्च नरानश्वांश्च पाण्डवः । 029a
पोथयामास गदया सशब्दं तेऽपतन्हताः ॥ 029c
दन्तैर्दशन्तो वसुधां शेरते क्षतजोक्षिताः । 030a
भग्नमूर्धास्थिचरणाः क्रव्यादगणभोजनाः ॥ 030c
असृङ्मांसवसाभिश्च तृप्तिमभ्यागता गदा । 031a
अस्थीन्यप्यश्नती तस्थौ कालरात्रीव दुर्दृशा ॥ 031c
सहस्राणि दशाश्वानां हत्वा पत्तींश्च भूयसः । 032a
भीमोऽभ्यधावत्सङ्क्रुद्धो गदापाणिरितस्ततः ॥ 032c
गदापाणिं ततो भीमं दृष्ट्वा भारत तावकाः । 033a
मेनिरे समनुप्राप्तं कालदण्डोद्यतं यमम् ॥ 033c
स मत्त इव मातङ्गः सङ्क्रुद्धः पाण्डुनन्दनः । 034a
प्रविवेश गजानीकं मकरः सागरं यथा ॥ 034c
विगाह्य च गजानीकं प्रगृह्य महतीं गदाम् । 035a
क्षणेन भीमः सङ्क्रुद्धस्तन्निन्ये यमसादनम् ॥ 035c
गजान्सकङ्कटान्मत्तान्सारोहान्सपताकिनः । 036a
पततः समपश्याम सपक्षान्पर्वतानिव ॥ 036c
हत्वा तु तद्गजानीकं भीमसेनो महाबलः । 037a
पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमभ्ययात् ॥ 037c
ततः पराङ्मुखीभूतं निरुत्साहं बलं तव । 038a
तदानीं तु महाराज प्रायशः शस्त्रवेष्टितम् ॥ 038c
विलम्बमानं तत्सैन्यमप्रगल्भमवस्थितम् । 039a
दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः शस्त्रवृष्टिभिः ॥ 039c
नराश्वरथमातङ्गा युधि गाण्डीवधन्वना । 040a
शरव्रातैश्चिता रेजुः कदम्बा इव केसरैः ॥ 040c
ततः कुरुणामभवदार्तनादो महान्नृप । 041a
नराश्वनागासुहरान्दृष्ट्वा बाणान्किरीटिनः ॥ 041c
हाहाकृतं भृशं त्रस्तं लीयमानं परस्परम् । 042a
अलातचक्रवत्सैन्यं तदा बभ्राम तावकम् ॥ 042c
ततोऽर्जुनशरध्वस्तं कुरूणां सुमहद्बलम् । 043a
न ह्यत्रासीदनिर्भिन्नो रथः सादी हयो गजः ॥ 043c
आदीप्तमिव तत्सैन्यं शरैश्छिन्नतनुच्छदम् । 044a
आसीत्स्वशोणितक्लिन्नं रौद्रं नष्टं विशाम्पते ॥ 044c
तत्सैन्यं हतभूयिष्ठमाहतं निशितैः शरैः । 045a
न जहौ समरं प्राप्य फल्गुनं शत्रुतापनम् ॥ 045c
तत्राद्भुतमपश्याम कौरवाणां पराक्रमम् । 046a
वध्यमानोऽपि यत्पार्थं न जहौ भरतर्षभ ॥ 046c
तं दृष्ट्वा विक्रमं तस्य कुरवः सव्यसाचिनः । 047a
निराशाः समपद्यन्त सर्वे कर्णस्य जीविते ॥ 047c
अविषह्यं तु पार्थस्य शरसंस्पर्शमाहवे । 048a
मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना ॥ 048c
ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः । 049a
प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम् ॥ 049c
तान्विद्रावयते पार्थः किरञ्शरशतान्बहून् । 050a
हर्षयन्पाण्डवीं सेनां राजानं च युधिष्ठिरम् ॥ 050c
पुत्रास्तव महाराज जग्मुः कर्णरथं प्रति । 051a
अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा ॥ 051c
कुरवो हि महाराज निर्विषाः पन्नगा इव । 052a
कर्णमेवोपलीयन्त भयाद्गाण्डीवधन्वनः ॥ 052c
यथा सर्वाणि भूतानि मृत्योर्भीतानि मारिष । 053a
उपलीयन्ति सन्त्रासाद्धर्मं लोकपरायणम् ॥ 053c
तथा कर्णं महेष्वासं पुत्रास्तव नराधिप । 054a
उपालीयन्त सन्त्रासात्पाण्डवस्य महात्मनः ॥ 054c
ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान् । 055a
मा भैष्टेत्यब्रवीत्कर्णो भीतानाविष्टचेतसः ॥ 055c
सम्भग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम् । 056a
धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया ॥ 056c
तान्प्रद्रुतान्कुरून्दृष्ट्वा कर्णः शस्त्रभृतां वरः । 057a
सञ्चिन्तयित्वा पार्थस्य वधे दध्रे मनः श्वसन् ॥ 057c
विस्फार्य सुमहच्चापं ततश्चाधिरथिर्वृषः । 058a
पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः ॥ 058c
ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः । 059a
शरौघैश्छादयामासुर्महामेघा इवाचलम् ॥ 059c
ततः शरसहस्राणि कर्णमुक्तानि मारिष । 060a
पाञ्चालानां हरत्प्राणांस्तमांसीव तमोनुदः ॥ 060c
महदासीत्तदा युद्धं पाञ्चालानां महामते । 061a
वध्यतां सूतपुत्रेण मित्रार्थे मित्रगृद्धिना ॥ ॥ 061c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चाशीतितमोऽध्यायः ॥ 85 ॥

8-85-12 मुसलैर्भिन्दिपालैश्च इति झ.पाठः ॥