अध्यायः 084

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच । 001
राजन्कुरूणां प्रबरैर्बलैर्भीममभिद्रुतम् । 001a
मज्जन्तमिव कौन्तेयमुज्जिहीर्षुर्धनञ्जयः ॥ 001c
विमृद्य सूतपुत्रस्य सेनां भारत सायकैः । 002a
प्राहिणोन्मृत्युलोकाय परवीरान्धनञ्जयः ॥ 002c
ततोऽस्याम्बरमाश्रित्य शरजालानि भागशः । 003a
अदृश्यन्त तथान्ये च निजघ्नुस्तव वाहिनीम् ॥ 003c
स पक्षिसङ्घाचरितमाकाशं पूरयञ्शरैः । 004a
धनञ्जयो महाबाहुः कुरूणामन्तकोऽभवत् 004c
ततो भल्लैः क्षुरप्रैश्च नाराचैर्विमलैरपि । 005a
गात्राणि प्राच्छिनत्पार्थः शिरांसि च चकर्त ह ॥ 005c
छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः । 006a
पातितैश्च पतद्भिश्च योधैरासीत्समावृता ॥ 006c
धनञ्जयशराभ्यस्तैः स्यन्दनाश्वरथद्विपैः । 007a
सञ्छिन्नभिन्नविध्वस्तैर्व्यङ्गाङ्गावयवैः स्तृता । 007c
गतसत्वैः ससत्वैश्च संवृताऽऽसीद्वसुन्धरा ॥ 007e
सुदुर्गमा सुविषमा घोराऽत्यर्थं सुदुर्दृशा । 008a
रणभूमिरभूद्राजन्महावैतरणी यथा ॥ 008c
ईषाचक्राक्षभल्लैश्च व्यश्वैः साश्वैश्च युध्यताम् । 009a
ससूतैर्हतसूतैश्च रथैः स्तीर्णाऽभवन्मही ॥ 009c
सुवर्णवर्मसन्नाहैर्योधैः कनकमालिभिः । 010a
आस्थिताः क्लृप्तवर्माणो भद्रा नित्यमदा द्विपाः ॥ 010c
क्रुद्धाः क्रुरैर्महामात्रैः प्रेषितार्जुनमभ्ययुः । 011a
चतुः शता रथवरा हताः पेतुः किरीटिना ॥ 011c
पर्यस्तानीव शृङ्गाणि ससत्वानि महागिरेः । 012a
धनञ्जयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः ॥ 012c
समन्ताज्जलदप्रख्यान्वारणान्मदवर्षिणः । 013a
अभिपेदेऽर्जुनरथो घनान्भिन्दन्निवांशुमान् ॥ 013c
हतैर्गजमनुष्याश्वैर्भिन्नैश्च बहुधा रथैः । 014a
विशस्त्रयन्त्रकवचैर्युद्धशौण्डैर्गतासुभिः । 014c
अपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै ॥ 014e
विस्फारितं च गाण्डीवमत्यासीद्भैरवस्वनम् । 015a
सुघोषं वज्रनिष्पेषं स्तनयन्निव तोयदः ॥ 015c
ततः प्रादीर्यत चमूर्धनञ्जयशराहता । 016a
महावातसमाविद्धा महानौरिव सागरे ॥ 016c
नानारूपाः प्राणहराः शरा गाण्डीवचोदिताः । 017a
अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन् ॥ 017c
महागिरौ वेणुवनं निशि प्रज्वलितं यथा । 018a
तथा तव महासैन्यं प्रास्फुरच्छरपीडितम् ॥ 018c
तद्विनष्टं सुविध्वस्तं तव सैन्यं किरीटिना । 019a
हतप्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः ॥ 019c
सश्वापदा मृगगणा दावाग्नित्रासिता यथा । 020a
कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना ॥ 020c
उत्सृज्य च महाबाहुं भीमसेनं तथा रणे । 021a
बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम् ॥ 021c
ततः कुरुषु भग्नेषु बीभत्सुरपराजितः । 022a
भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत ॥ 022c
समागम्य च भीमेन मन्त्रयित्वा च फल्गुनः । 023a
विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम् ॥ 023c
भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनञ्जयः । 024a
नादयन्रथघोषेण पृथिवीं द्यां च भारत ॥ 024c
ततः परिवृतो वीरैर्दशभिः शत्रुतापनः । 025a
दुःशासनादवरजैस्तव पुत्रैर्धनञ्जयः ॥ 025c
ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम् । 026a
आततेष्वसना वीरा नृत्यन्त इव भारत ॥ 026c
अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः । 027a
नियुक्तान्हि स तान्मेने यमायाशु किरीटिना ॥ 027c
तथान्ये प्राणदन्मूढाः पराङ्मुखमिवार्जुनम् ॥ 028ac
तेषां नानदतां केतूनश्वांश्चापानि सारथीन् । 029a
नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यकृन्तत ॥ 029c
*अथान्यैर्दशभिर्भल्लैः शिरांस्येषामपातयत् । 030a
रोषसंरक्तनेत्राणि सन्दष्टौष्ठानि भूतले ॥ 030c
तेषां वक्राणि विबभुर्व्योम्नि तारागणा इव ॥ 031ac
तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान् । 032a
रुक्माङ्गदाव्रुक्मपुङ्खैर्हत्वा प्रायादमित्रहा ॥ ॥ 032c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुरशीतितमोऽध्यायः ॥ 84 ॥

8-84-* अत्रार्जुनकृतं दशधृतराष्ट्रपुत्रहननं विचारणीयम् । 8-84-17 विनिर्दहन्नित्यत्राडभाव आर्षः ॥