अध्यायः 083

पार्थचोदनया कृष्णेन कर्णसमीपम्प्रति रथप्रापणम् ॥ 1 ॥ शल्येन कर्णप्रोत्साहनम् ॥ 2 ॥ कर्णेन पार्थप्रशंसनपूर्वकं तद्वधप्रतिज्ञा ॥ 3 ॥ सङ्कुलयुद्धम् ॥ 4 ॥

सञ्जय उवाच । 001
हत्वा तु फल्गुनः सेनां कौरवाणां पृथक्पृथक् । 001a
सूतपुत्रस्य संरम्भं दृष्ट्वा चैव महारणे ॥ 001c
शोणितोदां नदीं कृत्वा मांसमज्जास्थिपङ्किलाम् । 002a
मनुष्यशीर्षपाषाणां हस्त्यश्वकृतरोधसम् ॥ 002c
शूरास्थित्तयसङ्कीर्णां काकगृध्रानुनादिताम् । 003a
छत्रहंसप्लवोपेतां वीरवृक्षापहारिणीम् ॥ 003c
हारपद्माकरवतीमुष्णीषवरफेनिलाम् । 004a
धनुःशरध्वजोपेतां नरक्षुद्रकपालिनीम् ॥ 004c
चर्मवर्मभ्रमोपेतां रथोडुपसमाकुलाम् । 005a
जयैषिणां च सुतरां भीरूणां च सुदुस्तराम् ॥ 005c
नदीं प्रावर्तयित्वा च बीभत्सुः परवीरहा । 006a
वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभः ॥ 006c
अर्जुन उवाच । 007
एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते । 007a
भीमसेनादयश्चैते योधयन्ति महारथम् ॥ 007c
एते द्रवन्ति पाञ्चालाः कर्णत्रस्ता जनार्दन । 008a
एष दुर्योधनो राजा श्वेतच्छत्रेण धार्यते ॥ 008c
कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते । 009a
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ॥ 009c
एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः । 010a
अवध्यमानास्तेऽस्माभिर्योधयिष्यन्ति सोमकान् ॥ 010c
एष शल्यो रथोपस्थे रश्मिसङ्ग्राहकोविदः । 011a
सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते ॥ 011c
तत्र मे बुद्धिरुत्पन्ना वाहयात्र रथं मम । 012a
नाहत्वा समरे कर्णं निवर्तिष्ये कथञ्चन ॥ 012c
मा स्म कर्णो रणे पार्थान्सृञ्जयांश्च महारथान् । 013a
निःशेषान्समरे कुर्यात्पश्यतां नो जनार्दन ॥ 013c
सञ्जय उवाच । 014
ततः प्रायाज्जवेनाशु केशवस्तव वाहिनीम् । 014a
कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिनः ॥ 014c
स प्रयातो रथेनाशु कृष्णो राजन्महाहवे । 015a
आश्वासयन्रणे चाशु पाण्डुसैन्यानि सर्वशः ॥ 015c
रथघोषस्ततस्तस्य पाण्डवस्य बभूव ह । 016a
वासवास्त्रनिपातेन पर्वतेष्विव मारिष ॥ 016c
महता रथघोषेण पाण्डवः सत्यविक्रमः । 017a
अभ्ययादप्रमेयात्मा निर्जयंस्तव वाहिनीम् ॥ 017c
तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम् । 018a
मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः ॥ 018c
अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः । 019a
निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि ॥ 019c
एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः । 020a
तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति ॥ 020c
धनुर्ज्या चन्द्रताराङ्का पताकाकिङ्किणीयुता । 021a
पश्य कर्णार्जुनस्यैषा सौदामन्यम्बरे यथा ॥ 021c
एष ध्वजाग्रे पार्थस्य प्रेक्षमाणः समन्ततः । 022a
दृश्यते वानरो भीमो वीक्षतां भयवर्धनः ॥ 022c
एतच्चक्रं गदा शङ्खः शार्ङ्गं कृष्णस्य च प्रभो । 023a
दृश्यते पाण्डवरथे वाहयानस्य वाजिनः ॥ 023c
एतत्कूजति गाण्डीवं विसृष्टं सव्यसाचिना । 024a
एते हस्तवता मुक्ता घ्नन्त्यमित्राञ्शिताः शराः ॥ 024c
विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः । 025a
एषा भूः कीर्यते राज्ञां शिरोभिरपलायिनाम् ॥ 025c
एते परिघसङ्काशाः पुण्यगन्धानुलेपनाः । 026a
उद्धता रणशूराणां पात्यन्ते सायुधा भुजाः ॥ 026c
निरस्तजिह्वा नेत्रान्ता वाजिनः सह सादिभिः । 027a
पतिताः पात्यमानाश्च क्षितौ क्षीणा विशेरते ॥ 027c
एते पर्वतशृङ्गाणां तुल्या हैमवता गजाः । 028a
सञ्छिन्नकुम्भाः पार्थेन प्रपतन्त्यद्रयो यथा ॥ 028c
गन्धर्वनगराकारा रथा हतनरेश्वराः । 029a
विमानादिव पुण्यान्ते स्वर्गिणो निपतन्त्यमी ॥ 029c
व्याकुलीकृतमत्यर्थं पश्य सैन्यं किरीटिना । 030a
नानामृगसहस्राणां यूथं केसरिणा यथा ॥ 030c
त्वामभिप्रेप्सुरायाति कर्ण निघ्नन्वरान्रथान् । 031a
असज्जमानो राधेय तं याहि प्रति भारत ॥ 031c
एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः । 032a
अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून् ॥ 032c
वर्जयन्सर्वसैन्यानि त्वरते हि धनञ्जयः । 033a
त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः ॥ 033c
न ह्यवस्थास्यते पार्थो युयुत्सुः केनचित्सह । 034a
त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे ॥ 034c
विरथं धर्मराजं तु दृष्ट्वा सुदृढविक्षतम् । 035a
शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम् ॥ 035c
द्रौपदेयान्युधामन्युमुत्तमौजसमेव च । 036a
नकुलं सहदेवं च वशगांस्ते समीक्ष्य तु ॥ 036c
सहसैकरथः पार्थस्त्वामभ्येति परन्तपः । 037a
क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वपार्थिवान् ॥ 037c
त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम् । 038a
त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः ॥ 038c
न तं पश्यामि लोकेऽस्मिंस्त्वत्तो ह्यन्यं धनुर्धरम् । 039a
अर्जुनं समरे क्रुद्धं यो वेलामिव वारयेत् ॥ 039c
न चास्य रक्षां पश्यामि पार्श्वतो न च पृष्ठतः । 040a
एक एवाभियाति त्वां पश्य साफल्यमात्मनः ॥ 040c
त्वं हि कृष्णौ रणे शक्तो योद्धुमेतौ परन्तपौ । 041a
तवैव भारो राधेय प्रत्युद्याहि धनञ्जयम् ॥ 041c
समानो ह्यसि भीष्मेण द्रोणद्रौणिकृपेण च । 042a
सव्यसाचिनमायान्तं निवारय महारणे ॥ 042c
लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा । 043a
वनस्थितं यथा व्याघ्रं जहि कर्ण धनञ्जयम् ॥ 043c
एते द्रवन्ति समरान्निरपेक्षा नराधिपाः । 044a
अर्जुनस्य भयत्रस्ता धार्तराष्ट्रा महाबलाः ॥ 044c
द्रवतामथ तेषां तु नान्योऽस्ति युधि मानवः । 045a
भयहा यो भवेद्वीरस्त्वामृते सूतनन्दन ॥ 045c
एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे । 046a
धिष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः ॥ 046c
वैदेहाम्बष्ठकाम्भोजास्तथा नग्नजितस्त्वया । 047a
गान्धाराश्च यया धृत्या जिताः सङ्ख्ये सुदुर्जयाः । 047c
तां धृतिं कुरुराधेय ततः प्रत्येहि पाण्डवम् ॥ 047e
वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना । 048a
प्रत्युद्याहि महाबाहो पौरुषे महति स्थितः ॥ 048c
कर्ण उवाच । 049
प्रकृतिस्थोऽसि मे शल्य इदानीं सम्मतस्तथा । 049a
प्रतिभासि महाबाहो अभीतश्च धनञ्जयात् ॥ 049c
पश्य बाह्वोर्बलं मेऽद्य शिक्षितस्य च पश्य मे । 050a
एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम् ॥ 050c
कृष्णौ च पुरुषव्याघ्र ततः सत्यं ब्रवीमि ते । 051a
नाहत्वा युधि तौ वीरौ व्यपयास्ये कथञ्चन ॥ 051c
शिश्ये वा निहतस्ताभ्यामनित्यो हि रणे जयः । 052a
कृतार्थोऽद्य भविष्यामि हत्वा वाप्यथ वा हतः ॥ 052c
शल्य उवाच । 053
अजय्यमेनं प्रवदन्ति युद्धे महारथाः कर्ण रथप्रवीरम् । 053a
एकाकिन किमु कृष्णाभिगुप्तं विजेतुमेनं क इहोत्सहेत ॥ 053c
कर्ण उवाच । 054
नैतादृशो जातु बभूव लोके रथोत्तमो यावदुपश्रुतं नः । 054a
तमीदृशं प्रतियोत्स्यामि पार्थम्महाहवे पश्य च पौरुषं मे ॥ 054c
रणे चरत्येष रथप्रवीरः सितैर्हयैः कौरवराजपुत्रः । 055a
स वाऽद्य मां नेष्यति कृच्छ्रमेतत्कर्णोऽस्यान्तेऽप्यत्र भवेत्समर्थः ॥ 055c
अस्वेदिनौ राजपुत्रस्य हस्ताववेपमानौ जातकिणौ बृहन्तौ । 056a
दृढायुधः कृतिमान्क्षिप्रहस्तो न पाण्डवेयेन समोऽस्ति योधः ॥ 056c
गृह्णात्यनेकानपि कङ्कपत्रानेकं यथा तान्प्रतियोज्य चाशु । 057a
ते क्रोशमात्रे निपतन्त्यमोघाः कस्तेन योधोऽस्ति समः पृथिव्याम् ॥ 057c
अतोषयत्स्वाण्डवे यो हुताशं कृष्णद्वितीयोऽतिरथस्तरस्वी । 058a
लेभे चक्रं यत्र कृष्णो महात्मा धनुर्गाण्डीवं पाण्डवः सव्यसाची ॥ 058c
श्वेताश्वयुक्तं च सुघोषमुग्रं रथं महाबाहुरदीनसत्वः । 059a
महेषुधी चाक्षये दिव्यरूपे शस्त्राणि दिव्यानि च हव्यवाहात् ॥ 059c
यस्त्विन्द्रलोके निजघान दैत्यानसङ्ख्येयान्कालकेयांश्च सर्वान् । 060a
लेभे शङ्खं देवदत्तं स्म तत्र को नाम तेनाभ्यधिकः पृथिव्याम् ॥ 060c
महादेवं तोषयामास योऽस्त्रैः साक्षात्सुयुद्धेन महानुभावः । 061a
लेभे ततः पाशुपतं सुघोरं त्रैलोक्यसंहारकरं महास्त्रम् ॥ 061c
पृथक्पृथग्लोकपालाः समेता ददुर्महास्त्राण्यप्रमेयाणि सङ्ख्ये । 062a
यैस्ताञ्जघानाशु रणे नृसिंहः सकालकेयानसुरान्समेतान् ॥ 062c
तथा विराटस्य पुरे समेतान्सर्वानस्मानेकरथेन जित्वा । 063a
जहार तद्गोधनमाजिमध्ये वस्त्राणि चादत्त महारथेभ्यः ॥ 063c
तमीदृशं वीर्यगुणोपपन्नं कृष्णद्वितीयं परमं नृपाणाम् । 064a
तमाह्वयन्साहसमुत्तमं वै जाने स्वयं सर्वलोकस्य शल्य ॥ 064c
अनन्तवीर्येण च केशवेन नारायणेनाप्रतिमेन गुप्तः । 065a
वर्षायुतैर्यस्य गुणा न शक्या वक्तुं समेतैरपि सर्वलोकैः ॥ 065c
महात्मनः शङ्खचक्रासिपाणेर्विष्णोर्जिष्णोर्वसुदेवात्मजस्य । 066a
भयं न मे जायते साध्वसं च दृष्ट्वा कृष्णावेकरथे समेतौ ॥ 066c
अतीवायं धनुषि राजपुत्रेष्वतीवान्यान्केशवश्चक्रयुद्धे । 067a
एवंविधौ पाण्डववासुदेवौ चलेत्स्वदेशाद्धिमवान्न कृष्णौ ॥ 067c
उभौ हि शूरौ बलिनौ दृढायुधौ महारथौ संहननोपपन्नौ । 068a
एतौ वीरौ नरवीरौ समेतौ स्थानाच्च्युतौ देवकुमाररूपौ ॥ 068c
अग्न्यादित्याविन्द्रबृहस्पती वा यमान्तकौ वा शशिपूषणौ वा । 069a
भगांशमित्रावरुणावश्विनौ वा मरुद्गणौ वा वसवः समेताः । 069c
व्यस्ताः समस्ताश्च युधा न शक्ता जेतुं प्रसह्यार्जुनं चाच्युतं च ॥ 070a
एतौ हि तावर्जुनवासुदेवौ कोऽन्यः प्रतीयान्मदृते तु शल्य ॥ 070c
सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता । 071a
सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः ॥ 071c
तावुभौ पुरुषव्याघ्रौ समाने स्यन्दने स्थितौ । 072a
मामेकमभियोद्धारौ सुजातं बत शल्य मे ॥ 072c
नैतच्चिरं क्षिप्रमिमं रथं मे प्रवर्तयैतावभियामि चैवम् । 073a
अस्मिन्मुहूर्ते निहतौ पश्य कृष्णौ ताभ्यां हतं वा युधि मां रिपुभ्याम् ॥ 073c
एवं ब्रुवाणः सहसा महारथस्त्वभ्यद्रवत्पाण्डवं सूतपुत्रः ॥ 074ac
अभ्येत्य पुत्रेण तवाभिनन्दिताः समेत्य चोक्ताः कुरुवीरसत्तमाः । 075a
कृपश्च भोजश्च महारथावुभौ तथैव गान्धारपतिः सहानुजः । 075c
गुरोः सुतस्तस्य तवात्मजास्तथा पदातिसङ्घा द्विरदास्तथा तदा ॥ 075e
निरुध्यताभिद्रवताच्युतार्जुनौ श्रमेण संयोजयताशु सर्वशः । 076a
यथा भवद्भिर्भृशविक्षतावुभौ सुखेन हन्यान्मम वाहिनीपतिः ॥ 076c
तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं जिघांसवो वीरतराः समाययुः । 077a
शरैश्च जघ्नुर्युधि तं महारथा धनञ्जयं कर्णनिदेशकारिणः । 077c
नदीनदं भूरिजलो महार्णवो यथा तथा तान्समरेऽर्जुनोऽग्रसत् ॥ 077e
न सन्दधानो न तथा शरोत्तमान्प्रमुञ्चमानो रिपुभिः प्रदृश्यते । 078a
धनञ्जयास्तैः स्म शरैर्विदारिता हता निपेतुर्नरवाजिकुञ्जराः ॥ 078c
शरार्चिषं गाण्डिवचारुमण्डलं युगान्तसूर्यप्रतिमानतेजसम् । 079a
न कौरवाः शेकुरुदीक्षितुं जयं यथा रविं व्याधितचक्षुषो जनाः ॥ 079c
शरोत्तमान्सम्प्रहितान्महारथै श्चिच्छेद पार्थः प्रहसञ्छरौघैः । 080a
भूयश्च तानहनद्बाणसङ्घान्गाण्डीवधन्वायतपूर्णमण्डलम् ॥ 080c
यथोग्ररश्मिः शुचिशुक्रमध्यगः सुखं विवस्वान्हरते जलौघान् । 081a
तथार्जुनो बाणगणान्निरस्य ददाह सेनां तव पार्थिवेन्द्र ॥ 081c
तमभ्यधावद्विसृजन्कृपः शरांस्तथैव भोजस्तव चात्मजः स्वयम् । 082a
महारथो द्रोणसुतश्च सायकैरवाकिरंस्तोयधरा यथाऽचलम् ॥ 082c
जिघांसुभिस्तान्कुशलैः शरोत्तमान्महात्मभिः सम्प्रहितान्प्रयत्नतः । 083a
शरैः प्रचिच्छेद स पाण्डवस्त्वरन्परान्विनिर्भिद्य च तांस्त्रिभिस्त्रिभिः ॥ 083c
स गाण्डिवव्यायतपूर्णमण्डलस्तपन्रिपूनर्जुनभास्करो बभौ । 084a
शरोग्ररश्मिः शुचिशुक्रमध्यगो यथैव सूर्यः परिवेषवांस्तथा ॥ 084c
अथाग्र्यबाणैर्दशभिर्धनञ्जयं पराभिनद्दोणसुतोऽच्युतं त्रिभिः । 085a
चतुर्भिरश्वांश्चतुरः कपिं ततः शरैश्च नाराचवरैरवाकिरत् ॥ 085c
तथा ततः प्रस्फुरदस्य कार्मुकं त्रिभिः शरैर्यन्तृशिरश्चकर्त ह । 086a
हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं धनञ्जयो द्रौणिरथादपातयत् ॥ 086c
स रोषपूर्णो ह्यतिवज्रहाटकैरलङ्कृतं तक्षकभोगवर्चसम् । 087a
स तद्वधे कार्मुकमन्यदाददे यथा महाहिप्रवरं तथैव च ॥ 087c
स्वमायुधं चापि विकीर्य भूतले धनुश्च कृत्वा सगुणं गुणाधिकः । 088a
समानयंसल्तावजितौ नरोत्तमौ शरोत्तमैर्द्रौणिरविध्यदन्तिकात् ॥ 088c
कृपश्च भोजश्च तवात्मजश्च ते शरैरनेकैर्युधि पाण्डवर्षभम् । 089a
महारथाः संयुगमूर्धनि स्थितास्तमोनुदं वारिधरा इवापतन् ॥ 089c
कृपस्य पार्थः सशरं शरासनं हयान्ध्वजान्सारधिमेव पत्रिभिः । 090a
[समार्पयद्बाहुसहस्रविक्रमस्तथा यथा वज्रधरः पुरा बलेः ॥ 090c
स पार्थबाणैर्विनिपातितायुधो ध्वजावमर्दे च कृते महाहवे । 091a
कृतः कृपो बाणसहस्रयन्त्रितो यथापगेयः प्रथमं किरीटिना ॥] 091c
शरैः प्रचिच्छेद तवात्मजस्य ध्वजं धनुश्च प्रचकर्त नर्दतः । 092a
जघान चाश्वान्कृतवर्मणः शुभान्ध्वजं च चिच्छेद तवात्मजस्य ह ॥ 092c
सवाजिसूतेष्वसनान्सकेतनाञ्जयान नागाश्वरथांश्च स त्वरन् । 093a
ततः प्रकीर्णं सुमहद्वलं तव प्रपीडितं सवितुरिवौजसा भृशम् ॥ 093c
ततोऽर्जुनस्याशु रथेन केशवश्चकार शत्रूनपसव्यमातुरान् । 094a
ततः प्रयातं त्वरितं धनञ्जयं शतक्रतुं वृत्रनिजघ्रुषं यथा । 094c
समन्वधावन्पुनरुत्थितैर्ध्वजै रथैः सुयुक्तैरपरे युयुत्सवः ॥ 094e
अथाभिसृत्य प्रतिवार्य चाहितान्धनञ्जयस्यानुचरान्महारथाः । 095a
शिखण्डिशैनेययमाः शितैः शरैर्विदारयन्तो व्यनदन्सुभैरवम् ॥ 095c
ततोऽभिजघ्नुः कुपिताः परस्परं शरैस्तदाञ्जोगतिभिः सुतेजनैः । 096a
कुरुप्रवीराः सह सृञ्जयैर्यथा सुरारयो देवपतिं यथा तथा ॥ 096c
जयेप्सवः स्वर्गमनाय चोत्सुकाः पतन्ति नागाश्वरथाः परन्तप । 097a
तथैव सर्वे बहवश्च विव्यधुः शरैः सुमुक्तैरितरेतरं पृथक् ॥ 097c
शरान्धकारे तु महात्मभिः कृते महामृधे योधवरैः परस्परम् । 098a
चतुर्दिशो वै विदिशश्च पार्थिव प्रभा च सूर्यस्य तमोवृताऽभवत् ॥ ॥ 098c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्र्यशीतितमोऽध्यायः ॥ 83 ॥

8-83-81 शुचिशुकयोः आषाढज्येष्ठयोर्मध्ये गतः ॥ 8-83-94 तथार्जुनस्याविरथेन केशव इति ख.ट.पाठः । तथार्जुनस्याधिरथेन केशव इति ख.ट.पाठः ॥