अध्यायः 082
कर्णपराक्रमवर्णनम् ॥ 1 ॥
धृतराष्ट्र उवाच । 001
ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे । 001a
दुर्योधनोऽब्रवीत्किं नु सौबलो वाऽपि सञ्जय ॥ 001c
कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि । 002a
कृपो वा कृतवर्मा वा द्रौणिर्दुःशासनोऽपि वा ॥ 002c
अत्यद्भुतमहं मन्ये पाण्डवेयस्य विक्रमम् । 003a
यदेकः समरे सर्वान्योधयामास मामकान् ॥ 003c
यथाप्रतिज्ञं योधानां राधेयः कृतवानपि । 004a
कुरूणामथ सर्वेषां कर्णः शत्रुनिषूदनः । 004c
शर्म वर्म प्रतिष्ठा च जीविताशा च सञ्जय ॥ 004e
तद्भग्नं स्वबलं दृष्ट्वा कौन्तेयेनामितौजसा । 005a
धनुर्दराणां प्रवरः कर्णः किमकरोद्युधि ॥ 005c
पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः । 006a
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि सञ्जय ॥ 006c
सञ्जय उवाच । 007
अपराह्णे महाराज सूतपुत्रः प्रतापवान् । 007a
जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः ॥ 007c
भीमोऽप्यतिबलं सैन्यं धार्तराष्ट्रं व्यपोथयत् ॥ 008ac
द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता । 009a
यन्तारमब्रवीत्कर्णः पाञ्चालानेव मां वह ॥ 009c
मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान् । 010a
प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महाबलः ॥ 010c
प्रविश्य च महत्सैन्यं शल्यः परबलार्दनः । 011a
न्ययच्छत्तुरगान्हृष्टो यत्रयत्र च ते रथाः ॥ 011c
तं रथं मेघसङ्काशं वैयाघ्रपरिवारणम् । 012a
सन्दृश्य पाण्डुपञ्चालास्त्रस्ता ह्यासन्विशाम्पते ॥ 012c
ततो रथस्य निनदः प्रादुरासीन्महारणे । 013a
पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः ॥ 013c
ततः शरशतैस्तीक्ष्णैः कर्ण आकर्णनिःसृतैः । 014a
जघान पाण्डवबलं शतशोऽथ सहस्रशः ॥ 014c
तं तथा समरे कर्म कुर्वाणमपराजितम् । 015a
परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः ॥ 015c
तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः । 016a
नकुलः सहदेवश्च द्रौपदेयाश्च सात्यकिः ॥ 016c
परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः । 017a
सात्यकिस्तु तदा कर्णं विंशत्या निशितैः शरैः ॥ 017c
अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः । 018a
शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च सप्तभिः ॥ 018c
द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः । 019a
नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः ॥ 019c
भीमसेनस्तु राधेयं नवत्या नतपर्वणाम् । 020a
विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः ॥ 020c
अथ प्रहस्याधिरथिर्व्याक्षिपद्धनुरुत्तमम् । 021a
मुमोच निशितान्बाणान्पीडयन्सुमहाबलः ॥ 021c
तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः । 022a
सात्यकेस्तु धनुश्छित्त्वा ध्वजं च भरतर्षभ ॥ 022c
तं तथा नवभिर्बाणैराजघान स्तनान्तरे । 023a
भीमसेनं ततः क्रुद्धो विव्याध त्रिंशता शरैः ॥ 023c
सहदेवस्य भल्लेन ध्वजं चिच्छेद मारिष । 024a
सारथिं च त्रिभिर्बाणैराजघान परन्तपः ॥ 024c
विरथान्द्रौपदेयांश्च चकार भरतर्षभ । 025a
अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् ॥ 025c
विमुखीकृत्य तान्सर्वाञ्शरैः सन्नतपर्वभिः । 026a
पाञ्चालानहनञ्छूरांश्चेदीनां च महारथान् ॥ 026c
ते वध्यमानाः समरे चेदिमत्स्या विशाम्पते । 027a
कर्णमेकमभिद्रुत्य शरसङ्खैः समार्पयन् ॥ 027c
ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः । 028a
ते वध्यमानाः समरे चेदिमात्स्या विशाम्पते । 028c
प्राद्रवन्त रणे भीताः सिंहत्रस्ता मृगा इव ॥ 028e
एतदत्यद्भुतं कर्म दृष्ट्वानस्मि भारत । 029a
यदेकः समरे शूरान्सूतपुत्रः प्रतापवान् ॥ 029c
यतमानान्परं शक्त्या योधयानांश्च धन्विनः । 030a
पाण्डवेयान्महाराज शरैर्वारितवान्रणे ॥ 030c
तत्र भारत कर्णस्य लाघवेन महात्मनः । 031a
तुतुषुर्देवताः सर्वाः सिद्धाश्च सह चारणैः ॥ 031c
अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम् । 032a
कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् ॥ 032c
ततः कर्णो महाराज ददाह रिपुवाहिनीम् । 033a
कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान् ॥ 033c
ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः । 034a
प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महारथम् ॥ 034c
तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे । 035a
वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः ॥ 035c
तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः । 036a
कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः ॥ 036c
तत्राद्भुतं पुनश्चक्रे राधेयः शत्रुकर्शनः । 037a
यदेनं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम् ॥ 037c
जलौघः पर्वतश्रेष्ठं यथासाद्य प्रभिद्यते । 038a
तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते ॥ 038c
कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन् । 039a
दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम् ॥ 039c
शिरांसि च महाराज कर्णां श्चैव सकुण्डलान् । 040a
बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः ॥ 040c
हस्तिदन्तत्सरून्खड्गान्ध्वजाञ्शक्तीर्हयान्गजान् । 041a
रथांश्च विविधान्राजन्पताका व्यजनानि च ॥ 041c
अक्षं च युगयोक्त्राणि चक्राणि विविधानि च । 042a
चिच्छेद बहुधा कर्णो योधव्रतमनुष्ठितः ॥ 042c
तत्र भारत कर्णेन निहतैर्गजवाजिभिः । 043a
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥ 043c
विषमं च समं चैव हतैरश्वपदातिभिः । 044a
रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किञ्चन ॥ 044c
नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम् । 045a
घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते ॥ 045c
राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषणैः । 046a
सञ्छादिता महाराज पाण्डवानां महारथाः ॥ 046c
ते पाण्डवेयाः समरे राधेयेन पुनः पुनः । 047a
अभज्यन्त महाराज यतमाना महारथाः ॥ 047c
मृगसङ्घान्यथा क्रुद्धः सिंहो द्रावयते वने । 048a
पञ्चालानां रथश्रेष्ठान्द्रावयञ्शात्रवांस्तथा ॥ 048c
कर्णस्तु समरे योधांस्त्रासयुन्सुमहायशाः । 049a
कालयामास तत्सैन्यं यथा पशुगणान्वृकः ॥ 049c
दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्युखीम् । 050a
तत्राजग्मुर्महेष्वासा रुदन्तो भैरवान्रवान् ॥ 050c
दुर्योधनो हि राजेन्द्र मुदा परमया युतः । 051a
वादयामास संहृष्टो नानावाद्यानि सर्वशः ॥ 051c
पाञ्चालाश्च महेष्वासा भग्नास्तत्र नरोत्तमाः । 052a
न्यवर्तन्त तदा शूरा मृत्युं कृत्वा निवर्तनम् ॥ 052c
तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः । 053a
अनेकशो महाराज बभञ्ज पुरुषर्षभः ॥ 053c
तत्र भारत कर्णेन पाञ्चाला विंशती रथाः । 054a
निहताः सायकैः क्रोधाच्चेदयश्च परंशताः ॥ 054c
कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत । 055a
निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान् ॥ 055c
आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परन्तपः । 056a
कालान्तकवपुः शूरः सूतपुत्रोऽभ्यराजत ॥ 056c
एवमेतन्महाराज नरवाजिरथद्विपान् । 057a
हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः ॥ 057c
यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः । 058a
तथा स सोमकान्हत्वा तस्थावेको महारथः ॥ 058c
तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम् । 059a
वध्यमानाऽपि यत्कर्णं नाजहू रणमूर्धनि ॥ 059c
राजा दुःशासनश्चैव कृपः शारद्वतस्तथा । 060a
अश्वत्थामा कृतवर्मा शकुनिश्च महाबलः । 060c
व्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः ॥ 060e
कर्णपुत्रौ तु राजेन्द्र भ्रातरौ सत्यविक्रमौ । 061a
निजघ्नाते बलं क्रुद्धौ पाण्डवानामितस्ततः ॥ 061c
तत्र युद्धं महच्चासीत्क्रूरं विशसनं महत् ॥ 062ac
तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ । 063a
द्रौपदेयाश्च सङ्क्रुद्धा अभ्यघ्नंस्तावकं बलम् ॥ 063c
एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः । 064a
तावकानामपि रणे भीमं प्राप्य महाबलम् ॥ ॥ 064c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्व्यशीतितमोऽध्यायः ॥ 82 ॥